अधिकरणसारावली उपलब्ध्यधिकरणम्
अधिकरणसारावली उपलब्ध्यधिकरणम् 2.2.21 न ग्राह्यग्राहकौ स्तः क्वचिदपि विविधानादिसन्तानचित्रो बुद्ध्यात्मा त्र्यात्मकोऽद्य स्फुरति भवदशातिक्रमे स्वात्मनैव । योगाचारोक्तिरित्थं विषयविषयिणोर्बोधबाधौ समानौ मन्वानैर्वारणीया स्वपरविभजनाद्यत्र न क्वापि सिद्ध्येत् ॥ 2.2.22 बुद्ध्यैक्यं बोध्यबोद्ध्रोर्न घटत इह ते सत्ययोरन्ययोर्वा भिन्नत्वे ग्राह्यलक्ष्मक्षतिमभिमनुषे नात्र चित्रैक्यमर्थ्यम् । चित्रं द्रव्यं गुणं वा किमिति न च विदुः केऽपि भिन्नैकरूपं तेनात्मख्यातिवादे स्थितिमिह भजतु स्वप्रकाशत्वमात्रे ॥
अधिकरणसारावली समुदायाधिकरणम्
अधिकरणसारावली समुदायाधिकरणम् 2.2.15 बाह्योक्ताचारभागश्श्रुतिविहतिवशाज्जैमिनीये निरस्त- स्तत्त्वांशं तर्कितं तैः प्रतिवदति गुरुर्जैमिनेरत्र पादे। निर्धूतं तत्र पूर्वं निरुपधिकनयैरर्धवैनाशिकोक्ते पक्षान्वैनाशिकानां जिनगिरिशमतक्षेपतः प्राक् क्षिणोति।। 2.2.16 बुद्धोऽसौ स्वावतारैस्सह परिगणितः श्रीधरेण स्वशास्त्रे सर्वज्ञो नैव मुह्येन्न च निखिलसुहृद्विप्रलिप्सेत कञ्चित् । तस्माद्बुद्धोक्तभङ्गे भजति भिदुरतां सात्त्वतादीति चेन्न स्वाभीष्टप्रत्यनीकप्रमथनमनसा मोहनादिप्रवृत्तेः ॥ 2.2.17 दुर्वारा मोहनेच्छा निखिलजनयितुः केन मोहोऽन्यथा न- स्तस्मात्कर्मानुरूपन्दिशति फलमसौ तत्त्वबोधं भ्रमं वा। […]
अधिकरणसारावली महद्दीर्घाधिकरणम्
अधिकरणसारावली महद्दीर्घाधिकरणम् 2.2.8 कल्प्योपादनमेकं परममहदधिक्षित्य नानाविधाणू- पादानौघस्य दृष्टात् समधिकवपुषः कल्पनेऽनिष्टमाह। प्राज्ञाधिष्ठानशून्यप्रकृतिपरिणतिः प्राङ्निरस्ताऽथ सेशं सूक्ष्माणुद्रव्यमूलद्व्यणुकमुखजगत्सृष्टिपक्षं पिनष्टि।। 2.2.9 प्रागेवारम्भणोक्तावपहृतविषया प्रागसद्द्रव्यक्लृप्तिः काणादानामिदानीं क्षिपति बहुमुखं कारणप्रक्रियांशम्। त्रेधा हेतौ विभक्ते त्वनुमितिशरणैस्तत्तदंशैर्यथार्हं व्याघातादीन्विकल्पक्रमविविधगतीन् व्याहरत्यत्र सूत्रैः।। 2.2.10 दृष्टस्याणोः प्रसूतिं द्व्यणुकमणुमपि स्थापयन्तोऽनुमित्या दृष्टाकारानुसारान्न निरवयवताद्यत्र वक्तुं क्षमेरन्। सर्वं सह्येत सूक्ष्मे प्रमितिपरवतां जालकालोकलक्ष्ये तद्भागान् ख्यापयेद्वा स्मृतिरफलतया त्वान्यपर्येण नेया।। 2.2.11 […]
अधिकरणसारावली रचनानुपपत्त्यधिकरणम्
अधिकरणसारावली अथ द्वितीयाध्याये द्वितीय: पाद: रचनानुपपत्त्यधिकरणम् 2.2.1 बाधाभावादकम्पे स्थितवति निगमैर्ब्रह्महेतुत्ववादे भूयः किं वीतरागो वदति परपरीवादमत्रेत्ययुक्तम्। प्रख्यातप्राच्यनैकप्रतिसमयभवन्मन्दसन्देहशान्त्यै तुल्यत्वभ्रान्तिसिद्धा प्रकरणसमता तर्कपादे हि वार्या।। 2.2.2 षड्विंशालम्बिसांख्यं स्फुटतरपठितं भारते योगतुल्यं तत्स्थत्वात् पञ्चविंशस्त्विति च निगदितस्सर्वतत्त्वान्तरात्मा। तस्मात् सेशानतन्त्रं श्रुतिसमधिगतं स्थापयित्वाऽथ सूत्रैः पक्षं त्वीशानपेक्षं प्रतिवदति नयैरुत्कटप्रत्यवायम्।। 2.2.3 अव्यक्तादीन्पदार्थाननुमितिमुखतस्स्थापयन्तस्स्वबुद्ध्या षट्त्रिंशत्तत्त्ववादप्रभृतिषु न कथं सङ्गमिच्छन्ति सांख्याः। तुल्याक्षेपोपपत्तीश्श्रुतिनियतिमुचां कल्पनास्सम्मृशन्तो […]
अधिकरणसारावली प्रयोजनवत्त्वाधिकरणम्
अधिकरणसारावली प्रयोजनवत्त्वाधिकरणम् 2.1.19 आत्मार्थं विश्वसृष्टिः कथमपि सततावाप्तकामस्य न स्यात् कारुण्याद्दुःखसृष्टिर्न भवति न च सा सर्वशक्तेश्चिकित्सा। सर्वज्ञस्स्वात्मतृप्तस्तदिह न जगतो हेतुरित्यन्धचोद्यं लीलाऽसौ लोकवत्स्यादभिमतिसमये सिद्धितस्त्वाप्तकामः।। 2.1.20 विश्वं दुःखैकतानं विषममपि सदा निर्मिमाणस्य लीला संजायेतासमञ्जक्रमत इति भवेन्निर्दयत्वादिदोषः।मैवं बीजाङ्कुरादिक्रमविषमभवानादिकर्मौघभाजां जीवानां सौति तत्तत्फलमिति करुणासाम्ययोरप्रहाणात्।। 2.1.21 दृष्टन्यायेन विश्वप्रजनकचिदचित्तत्त्वभेदप्रक्लृप्तौ स्वेष्टप्रत्यर्थिधर्मोपनयननियतव्याप्तिवैयाकुली स्यात्। अत्यन्तादृष्टमर्थं भणितुमधिकृताच्छास्त्रतस्सर्वकर्तु- स्सिद्धौ बाधाद्यनर्हप्रमितिपरवती सर्वधर्मोपपत्तिः।। 2.1.22 सांख्यस्मृत्या विरोधाद्विधिमतविहतेः कार्यवैरूप्यतोऽस्मि- न्नेकार्थानेकतन्त्रोदितविहततया देहभोगावियुक्त्या । कार्योपादानभेदात् […]
अधिकरणसारावली कृत्स्नप्रसक्त्यधिकरणम्
अधिकरणसारावली कृत्स्नप्रसक्त्यधिकरणम् 2.1.17 कृत्स्नं कार्यात्मना चेत् परिणमति परं नावशिष्येत किञ्चि- द्यद्यंशान्निष्कलत्वश्रुतिविहतिरिदं स्याद्विशिष्टेऽपि तस्मिन्। ब्रह्मोपादानतैवं न घटत इति चेन्न स्वपक्षेषु साम्या- त्तन्मानात्तद्गृहीतौ श्रुतिमितमिति तल्लोकवत् स्वीकुरुष्व ।। 2.1.18 संयोगाख्यं हि कार्यं विभुतदितरयोस्स्यादणूनाम्मिथो वा कार्त्स्न्येनांशेन वा तद्विहतमिति वदन् शून्यवादे निमज्जेत्। सांख्योऽपि प्राह विभ्वीं प्रकृतिमिति कथन्न्यूनसृष्टिस्ततस्स्या- न्मायादिष्वेवमूह्यं निगमनिगदिता त्वक्षता पद्धतिर्नः।।
अधिकरणसारावली उपसंहारदर्शनाधिकरणम्
अधिकरणसारावली उपसंहारदर्शनाधिकरणम् 2.1.16 शक्तौ कर्तृप्रकृत्योरुपकरणगणोपस्थितौ कार्यकृत्त्वं तस्मादग्रे सदेकं किमुपकरणयेदित्यसच्छक्तिभेदात्। क्षीरायस्कान्तलूतात्रिदशमुनिमुखान्वीक्ष्य तोष्टव्यमस्मिन् संकल्पादेव जीवो नुदति निजवपुर्विश्वरूपस्तथेशः।।
अधिकरणसारावली इतरव्यपदेशाधिकरणम्
अधिकरणसारावली इतरव्यपदेशाधिकरणम् 2.1.15 उक्तेऽनन्यत्वपक्षे चिदपि परिणतिर्ब्रह्मणस्स्यात्ततस्त- ज्जीवैक्यं तत्त्वमस्याद्यवगतमहतन्दुःखसिन्धुश्च जीवः। अभ्रान्तस्तु स्वदुःखं न सृजति न च तत् क्रीडयाऽप्यस्य मैवं तात्स्थ्येनानन्यतोक्तेस्तदपि चिदचितोस्तच्छरीरत्वसिद्धेः।।
अधिकरणसारावली आरम्भणाधिकरणम्
अधिकरणसारावली आरम्भणाधिकरणम् 2.1.12 कार्यं धर्मैर्विरुद्धैः कट इव शकटात् कारणद्रव्यतोऽन्य- द्व्यापारः कारकाणां विफल इतरथेत्यर्द्धवैनाशिकोक्तौ। द्रव्यैक्येऽप्यस्तु सर्वं तदभिमतदशाभेदतोऽसच्छ्रुतिश्चे- त्यद्ध्यक्षाल्लघवाच्च श्रुतिकथितजगद्ब्रह्मतादात्म्यमुक्तम्।। 2.1.13 मायोपाधिस्वशक्तिव्यतिकरितपरब्रह्ममूलः प्रपञ्चो येषां तेऽप्यद्वितीयश्रुतिमवितथयन्त्यत्र तत्तद्विशिष्टे। अप्राधान्यात्तथा नः प्रकृतिपुरुषयोरन्तरात्मप्रधाने वाक्येऽस्मिन् स्थूलसूक्ष््मान्वय इति जगतोऽनन्यभावोपपत्तिः।। 2.1.14 विश्वारम्भे विवर्तं शकलपरिणतिं शक्तिशेषस्य सूतिं व्याक्त्युल्लासौ विसृष्टिं विकृतिमनियतां तत्त्वपङ्क्तौ च सृष्टिम्। तत्तद्वाक्यैकदेशः स्वरस इति मुधा कल्पयन्तस्तु मुग्धा स्सर्वश्रुत्यैकरस्यप्रणयिभिरधरीचक्रिरे तत्त्वविद्भिः।।
अधिकरणसारावली भोक्त्रापत्त्यधिकरणम्
अधिकरणसारावली भोक्त्रापत्त्यधिकरणम् 2.1.11 एको यस्यापि देहस्स भवति विविधानन्दुःखैकभोक्ता विश्वं देहः प्रभोश्चेत् स कथमतिपतेद्विश्वदुःखानुभूतिम्। इत्थं जीवेशसीमामपलपितुमनाः कोशभाजा श्रुतीनां सम्राड्भृत्यादिनीत्या शममिह लभतां साम्यवैषम्यदर्शी।।