अधिकरणसारावली मुक्तिफलाधिकरणम्
अधिकरणसारावली मुक्तिफलाधिकरणम् 3.4.29 अस्त्वन्यत्रान्तरायः प्रबलतममिदं सात्त्विकत्यागयुक्तं कर्म प्रोक्तं निवृत्त्याह्वयमिति सपदि ब्रह्मविद्यां विदध्यात् । मैवं तस्माद् बलीयान् यदि भवति परब्रह्मभक्तापराधः तच्छान्तौ तत्प्रसूतिस्स न यदि झटिति स्यात्परोपास्तिलाभः ।। 3.4.30 विद्यार्थत्वं क्रियाणां व्यभिचरणवशान्नेति शङ्कापनुत्त्यै प्रत्यूहानाञ्चतुर्णां प्रशमनमुचितं सर्वदेति प्रसिद्ध्यै । निष्प्रत्यूहस्य सद्यः फलमिति च सतां तोषहेतोरमुष्मिन् पादान्ते न्यासिषातामनियमविषयौ शास्त्रकर्त्राधिकारौ ।। 3.4.31 प्रत्यूहस्य प्रसङ्गः क्षम इह परवित्कर्मणां […]
अधिकरणसारावली ऐहिकाधिकरणम्
अधिकरणसारावली ऐहिकाधिकरणम् 3.4.28 भोगार्थोपासनानां स्वजनसुकृतैस्तत्क्षणादुद्भवस्स्यात् स्वर्गादिस्त्वत्र देहे न घटत इह तु स्वान्तशुद्ध्योपपत्तिः । स्नानप्रायत्यनीतिस्तत इति न पुरो विघ्नसम्भावनोक्तेः कारीर्यादौ तदर्हैस्सगुणविरचितेऽप्यस्ति विघ्नः कदाचित् ।।
अधिकरणसारावली अनाविष्काराधिकरणम्
अधिकरणसारावली अनाविष्काराधिकरणम् 3.4.27 शिष्टं बाल्येन तिष्ठासनमपि विदुषो बालकृत्यं तदस्तु भर्तुं बालस्य भावो नतु सुशक इति स्वैरितास्येति चेन्न । दुश्चारित्रादमुं नाविरत इति वचस्सन्निरुन्धे ह्यतोऽसौ माहात्म्यं स्वं निगूहेदिति मुनिविहिते बाल्यविध्याशयस्स्यात् ।।
अधिकरणसारावली सहकार्यन्तराधिकरणम्
अधिकरणसारावली सहकार्यन्तराधिकरणम् 3.4.26 मन्तव्यत्वे श्रुते सत्यथ मुनिरिति वागस्तु तस्यानुवादः कश्चिन्न ह्यत्र दृष्टो विधिरिति पुरः पण्डितत्वस्य लब्धेः । ऊहापोहार्हता हि श्रवणमननतोऽनन्तरं पण्डितत्वं मौनख्यातिः प्रकृष्टे मनन इति विभौ धारणाद्युक्तिरेषा ।।
अधिकरणसारावली स्वाम्यधिकरणम्
अधिकरणसारावली स्वाम्यधिकरणम् 3.4.25 उद्गीथादावुपास्तिर्भवति हि फलिना यज्वनैवात्र शक्या तस्मात्तत्कर्तृकासाविति यदि न परिक्रीतकर्माश्रयत्वात् । ऋत्विक्साध्या यथान्ये गुणफलविधयोऽनूद्यते चैवमेषा शक्यत्वं नह्युपाधिर्विधिबलनियतेस्स्वामिभृत्यक्रमेण ।।
अधिकरणसारावली तद्भूताधिकरणम्
अधिकरणसारावली तद्भूताधिकरणम् 3.4.24 ब्रह्मांशत्वे समाने गुणविषमतया शुद्ध्यशुद्धिस्वभावैः देहैर्योगादनुज्ञापरिहरणमपि प्रेक्षणस्पर्शनादेः । इत्येवं सूत्रितं प्राक् पुनरिह विविधालेपकक्षोभशान्त्यै सम्यग्ज्ञातात्मनोऽपि स्वतनुसमुचिताचारतः प्रत्यबोधि ।।
अधिकरणसारावली विधुराधिकरणम्
अधिकरणसारावली विधुराधिकरणम् 3.4.20 दारालाभे विरक्तेर्म्रदिमनि च भवेदन्तरेणाश्रमान् यः तस्मिन्निश्शेषधर्मत्यजि भवतु कथं ब्रह्मविद्येति चेन्न । सामान्यैर्वर्णधर्मैर्गुणनियतियुतैस्सा हि तत्रापि साङ्गा भीष्मादौ दृष्टमेतद् भवति तु वृषले गत्यभावादभावः ।। 3.4.21 आरूढो नैष्ठिकादित्रयमथ पतितस्तत्परावर्तनाद्यः तत्रापि ब्रह्मविद्या भवतु सहकृता तद्दशार्हैस्स्वधर्मैः । मैवं यद्यप्यभीच्छन्त्युपपतनमिदं शोधकञ्चास्त्यनेकं सर्वार्हं कीर्तनाद्यं तदपि तदुचितो नैष तादृङ्निषेधात् ।। 3.4.22 प्रायश्चित्तं वदन्ति ह्युपपतनमहापातयोर्ब्रह्मयोगं प्राप्ते पाते प्रमादाद् […]
अधिकरणसारावली विहितत्वाधिकरणम्
अधिकरणसारावली विहितत्वाधिकरणम् 3.4.19 वर्णादेः कर्मणां हि श्रुतिभिरभिदधे ब्रह्मविद्याङ्गभावः तस्मादब्रह्मनिष्ठे तदननुसरणात्स्वैरितैवास्तु मैवम् । नित्यत्वस्यापि सिद्धेस्तदुचितविनियुक्त्यन्यभावानुसारात् तन्त्रं काम्याग्निहोत्रादिवदिह परविन्नित्यवर्गेऽपि योज्यम् ।।
अधिकरणसारावली सर्वान्नानुमत्यधिकरणम्
अधिकरणसारावली सर्वान्नानुमत्यधिकरणम् 3.4.18 आहारस्य व्यवस्था न भवति वचनात्प्राणविद्याधिकर्तुः सामान्यस्थो निषेधो बलवति हि विधौ संकुचेदित्ययुक्तम् । अङ्गत्वेनाविधेस्स्यादनुमतिवचनं प्राणभङ्गप्रसङ्गे पश्यैतत्प्राणनिष्ठादधिकमहिमनि ब्रह्मनिष्ठे ह्युषस्तौ ।।
अधिकरणसारावली शमदमाद्यधिकरणम्
अधिकरणसारावली शमदमाद्यधिकरणम् 3.4.16 यज्ञादिव्यापृतत्वादनिभृतकरणे सर्वकालं गृहस्थे शान्त्यादीनामयोगात्तदितरविषयास्ते गुणा इत्ययुक्तम् । प्रव्रज्यादिस्थितानामपि तदुपधिकानेकधर्मप्रवृत्तेः तत्सर्वं सह्यते चेत्सह तदपि फलाद्युज्झनञ्चात्र तुल्यम् ।। 3.4.17 प्रज्ञातस्वापराधाः प्रभुमनुतपने लोकसिद्धैरुपायैः आत्मार्हैरर्चयन्तः क्रमशमितरुषस्तस्य सेवां लभन्ते । इत्थं नश्शास्त्रसिद्धैरिदमनिदमिति स्वाधिकारैर्विभक्तै- निष्प्रत्यूहः प्रसादो निरुपधिसुहृदश्श्रीधरस्स्याधिगम्यः ।।