अधिकरणसारावली जगद्व्यापारवर्जाधिकरणम्
अधिकरणसारावली जगद्व्यापारवर्जाधिकरणम् 4.4.25 यद्यप्युक्तो विमुक्तः परतनुरपृथक्सिद्ध इत्यत्र पूर्वं व्यापारांशे तथापि श्रुतमिह परमं साम्यमक्षोभणीयम्। संकल्पादेव सर्वोत्थितिरपि हि ततस्स्यादिति प्रत्यवस्थां कृन्तत्यन्ते़ऽधिकारे कृतिमदितरयोस्स्थापयन्भोगसाम्यम्।। 4.4.26 सायुज्यं भोगसाम्यं समगणि निपुणैश्शब्दशक्त्याद्यबाधात् तच्च व्यापारसाम्ये त्वसति न घटते स्वक्रियास्वादहानेः। तस्मान्मुक्तस्य सृष्टिप्रभृतिरपि जगद्व्यापृतिर्ब्रह्मतुल्या मैवं तल्लक्षणं सा कथमनुगमतस्तस्य चान्यस्य च स्यात्।। 4.4.27 कथ्यन्ते सृष्टिवाक्ये क्वचिदपि न जगत्कारणत्वेन मुक्ताः प्राधीतः कामचारो भवतु न […]
अधिकरणसारावली अभावाधिकरणम्
अधिकरणसारावली अभावाधिकरणम् 4.4.17 मुक्तः प्रोक्तोऽशरीरः क्वचिदथ बहुधा संभवः क्वाप्यधीतो गानक्रीडादि चोक्तं तदनुगुणमतद्वन्द्वमार्षं निरस्यन्। स्वच्छन्दस्योभयं तत्क्षममिति वदति स्वं मतं सूत्रकारः स्याच्चाकर्मोद्भवं तन्निखिलमपि परब्रह्मवत्तत्समस्य।। 4.4.18 मोक्षे पुण्याद्यभावात्तदुपधिकवपुर्वर्जितत्वं न दूष्यं तस्मिन्दुःखार्हदेहत्यजि च शुभवपुस्सत्त्वपक्षोऽप्यबाध्यः। इत्थं सत्यत्र मुक्तस्थितिरिह मुनिना कीदृशी सूत्रिता स्यात् नैवं स्वच्छन्ददेहग्रहतदनियमस्थापनेऽत्राभिसन्धेः।। 4.4.19 19.नानादेहा यदि स्युर्युगपदधिगतब्रह्मसाम्यस्य पुंसः तेषां व्याप्तस्वरूपान्वय उचित इति प्राक्तनाणुत्वहानम्। नैतद्धीव्याप्तिसिद्धेर्भवति च जगदावेशवाक् तन्निदाना […]
अधिकरणसारावली संकल्पाधिकरणम्
अधिकरणसारावली संकल्पाधिकरणम् 4.4.13 धात्रादेरप्यपेक्ष्यो ह्युपकरणगणस्सत्यसङ्कल्पवृत्तेः मुक्तस्याप्येवमेवास्त्विति यदि वितथं तद्विकल्पासहत्वात्। इष्टा द्रव्याद्यपेक्षा सुकृततदितरापेक्षणं तत्र दुस्स्थं न स्यादिच्छाविघातस्त्वनुपधिकतया देववाञ्छैकरस्यात्।। 4.4.14 विश्वस्यैतस्य जन्मस्थितिलयरचना विश्वकर्तुर्यथा स्यात् इच्छासन्तानभेदान्नियतिरिह तथा नित्यमुक्तक्रियाणाम्। तस्यानुच्छेदवृत्त्या प्रतिकलभिदुरास्ताश्च तादृक्प्रवाहाः तद्बुद्धेरापरोक्ष्यं त्वनिशमभिदुरं वर्तते ब्रह्मधीवत्।। 4.4.15 प्रत्यूहार्हः प्रजेशप्रभृतिसुकृतिनां सत्यसङ्कल्पभावो मर्त्यारम्भस्पृहादौ तदितरविविधप्राणिसृष्ट्यादिदृष्टेः। तेनेच्छासन्ततीनां सफलविफलते पुण्यपापैरमीषां मुक्तस्योक्ता चिकीर्षा त्वविहतविषया तारतम्यं न दोषः।। 4.4.16 सूत्रे मुक्तोऽप्यनन्याधिपतिरभिहितस्तेन कस्तस्य […]
अधिकरणसारावली ब्राह्माधिकरणम्
अधिकरणसारावली ब्राह्माधिकरणम् 4.4.11 ज्ञानत्वे किं फलं स्यादिति मिषतु गुणैस्तादृशं ब्रह्मसाम्यं किं धर्मैरस्वरूपैस्तदिह भवतु चिन्मात्ररूपप्रकाशः। इत्थं छात्रोक्तपक्षद्वयमुभयविधश्रुत्युपात्ताद्विरोधात् निर्धूयाथ द्विधाविर्भवनमघटयत्सिद्धतत्त्वप्रकाशात्।। 4.4.12 पर्यायौ नामपाठेष्वनुपरिपठितौ मुक्तिकैवल्यशब्दौ कैवल्यञ्चान्ययोगत्यजनमिति कथं धर्मिधर्मान्वयोऽस्य। मैवं ब्रह्मस्वरूपादपरमिह न खल्वस्ति किञ्चित् स्वनिष्ठं न द्रव्यञ्चागुणं स्यादधिकरणयुगं तन्निरातङ्कमेतत्।।
अधिकरणसारावली अविभागेनदृष्टत्वाधिकरणम्
अधिकरणसारावली अविभागेनदृष्टत्वाधिकरणम् 4.4.8 जीवेशौ नित्यभिन्नौ श्रुतिरिह च सहेत्याह मुक्तस्य भोगं साम्ये पारम्ययुक्तं स्मृतिमपि स पृथग्भातु तस्मात्परस्तात्। मैवं तत्त्वं हि मुक्तौ स्फुरति तदनयोर्भेदभानांश इष्टः सिद्धे देहात्मभावे त्विह नहि घटते तत्स्वनिष्ठत्वदृष्टिः।। 4.4.9 मन्त्रोक्तं भोक्तृभावे यदि सहभवनं ब्रह्म न स्यात् प्रधानं तस्मात्तद्भोग्यभावे भवतु तदुचिते ब्राह्मणव्याकृतेश्च। द्वेधापि ब्रह्म तत्त्वात् पृथगितर इह स्यादितीदञ्च वार्तं सिद्धे भेदे […]
अधिकरणसारावली संपद्याविर्भावाधिकरणम्
अधिकरणसारावली अथ चतुर्थाध्याये चतुर्थ: पाद: संपद्याविर्भावाधिकरणम् 4.4.1 उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं निर्धूतोपाधिराशेर्निरुपधिकमहानन्दमन्त्येन वक्ति। स्वाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चे- त्येवं द्वे पेटिके स्तस्स्वत उभयमिदं नोपधेर्नाथनिघ्नम्।। 4.4.2 अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं तस्याविर्भावसिद्धौ नतु किमपि फलं स्यात्सुषुप्ताविशेषात्। तस्मान्मुक्तस्स्वमन्यद्भजति वपुरसौ देववद्रूपशब्दात् मैवं स्वेनेति शब्दो ह्यफल इह भवेद्रूपवाचार्थसिद्धेः।। 4.4.3 नित्यस्वात्मस्वरूपस्थितिरियमभिनिष्पत्तिरित्यूचिवांसः तन्मात्रं स्यान्न विद्याफलमिति न विदुर्नित्यसिद्धं त्वसाध्यम्। सिद्धं साध्यानुवेधादपि […]
अधिकरणसारावली कार्याधिकरणम्
अधिकरणसारावली कार्याधिकरणम् 4.3.11 वैधात्रस्थाननेतॄन्समकथयदिमान्बादरिस्तादृशानां गत्यौचित्यं तदा स्यान्न खलु विभुजुषामत्र वेद्यं न लभ्यम्। सामीप्याद् ब्रह्म चोक्तस्सरसिजवसतिस्तेन सार्धञ्च मुक्तिः युक्तेत्येतन्न नानाश्रुतिपठितपरस्थानगत्याद्यबाधात्।। 4.3.12 मार्गोऽसावर्चिरादिर्गमयति परमं धाम गत्यादियोगात् ब्रह्मोक्तेर्मुख्यभावादिति तु निरणयज्जैमिनिर्युक्तमेतत्। वक्तव्यं त्वत्र किञ्चिन्नयति परविदस्स्वान्वितब्रह्मनिष्ठान् तद्देहस्वात्मनिष्ठानपि मुखभिदयामी च सम्पूर्णनिष्ठाः।। 4.3.13 ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान् केवलान्वा यथेष्टं द्वेधापि ब्रह्मदृष्ट्या जडनिवहमपि स्वेन यद्वान्यदृष्ट्या। ते सर्वे हि प्रतीकप्रणिहितमनसो नार्चिराद्याध्वयोग्याः […]
अधिकरणसारावली आतिवाहिकाधिकरणम्
अधिकरणसारावली आतिवाहिकाधिकरणम् 4.3.7 भोगस्थानान्यमूनि ज्वलनदिनमुखान्यध्वचिह्नानि वा स्युः लोकोक्तिच्छाययैव स्थितमिदमिति नासंभवात्कालशब्दे। स्पष्टे नेतृत्वपुंस्त्वे क्वचिदतिवहनं तद्वदन्यैश्च कार्यं सन्दिग्धे वाक्यशेषाद्गतिरिति जगुरग्न्यादिवाचोऽभिम़न्तॄन् ।। 4.3.8 यां श्रुत्वा धर्मसूनुर्न्यपतदभिपतेत्तामसौ तामसौघो वर्गस्त्रैवर्गिकाणां पितृसरणिघटीयन्त्रचक्रे विघूर्णेत्। वर्तन्येषार्चिरादिश्श्रुतिभिरपुनरावर्तिनां संविभक्ता तत्र ब्रूतेऽतिवोढॄंस्तदितरवदहः पक्षमासादिशब्दः।। 4.3.9 पूर्वं धूमादिमार्गे सुकृतिषु कथिता चन्द्रमःप्राप्तिरन्या सायुज्यं न्यासविद्याप्रकरणपठितं चान्द्रमन्यादृगुक्तम्। अन्यात्रार्चिर्मुखानामतिवहनकृतामष्टमस्याप्तिरिन्दो- रित्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च सूहम्।। 4.3.10 […]
अधिकरणसारावली वरुणाधिकरणम्
अधिकरणसारावली वरुणाधिकरणम् 4.3.5 कौषीतक्यागमोक्ता वरुणशतमखौ सोऽपि नाथः प्रजानां क्वापि स्थाप्या निपीड्य श्रुतिमपि विफला ह्यन्यथा तच्छ्रुतिस्स्यात्। तस्मात्ते वायुलोकात्परमनुपठनात्तत्र सन्त्वित्ययुक्तं सम्बन्धाद्विद्युतोऽन्वग्वरुण इति परौ पाठतस्तत्परौ स्तः।। 4.3.6 यत्त्वस्यामानवस्य श्रुतिमिह परसम्प्रापकत्वं भवेत्तत् सद्वारत्वेऽप्यबाधं तदपि सहकृतौ तच्छ्रुतौचित्यभूमा। यश्चोक्तो मानसाख्यस्तटित उपरि तु ब्रह्मलोकाप्तिहेतुः तस्मान्नेता स नान्यो विदुरतिवहनं वैद्युतेनैव तस्मात्।।
अधिकरणसारावली वाय्वधिकरणम्
अधिकरणसारावली वाय्वधिकरणम् 4.3.4 सम्प्राप्तो देवलोको मरुदपि च समं वत्सरादित्यमध्ये नैकत्वं रूढिभेदात्तत इह तु तयोस्तुल्यभावाद्विकल्पः। मैवं योऽयं प्रसिद्धः पवत इति मरुद्देवतानां गृहत्वं तस्योक्तं धारकत्वात्तत उचितमिदं निर्विकल्पं तदैक्यम्।।