नयमयूखमालिका – Adhyaya 1 Pada 4
॥श्रीः॥ नयमयूखमालिका ।।प्रथमाध्यायस्य चतुर्थ पादः।। आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त गृहीतेर्दर्शयति च।।1।। सूक्ष्मं तु तदर्हत्वात्।।2।। तदधीनत्वादर्थत्वात्।।3।। ज्ञेयत्वावचनाच्च।।4।। वदतीति चेन्न प्राज्ञो हि प्रकरणात्।।5।। त्रयाणामेव चैवमुपन्यासः प्रश्नश्च।।6।। महद्वच्च।।7।। इह पादे सांख्यतन्त्रप्रतिपादनच्छायापन्नानां वाक्यानां सांख्याभिमतार्थनिरासेन ब्रह्मणि समन्वयः प्रतिपाद्यत इति पादार्थस्तत्सङ्गतिश्चेत्युभयमपि प्रथमपाद एव दर्शितं। काठके श्रूयते- “इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परम्मनः। मनसस्तु परा बुद्धि र्बुद्धेरात्मा महान् परः।। महतः परमव्यक्तमव्यक्तात्पुरुषः परः।। पुरुषान्नपरं किंचित् […]
नयमयूखमालिका – Adhyaya 1 Pada 3
॥श्रीः॥ नयमयूखमालिका ।।प्रथमाध्यायस्य तृतीय पादः।। द्युभ्वाद्यायतनं स्वशब्दात्।।1।। मुक्तोपसृप्यव्यपदेशाच्च।।2।। नानुमानमतच्छब्दात्प्राणभृच्च।।3।। भेदव्यपदेशाच्च।।4।। प्रकरणात्।।5।। स्थित्यदनाभ्याञ्च।।6।। आथर्वणिकाः समामनंति– “यस्मिन् द्यौः पृथीवी चांतरिक्षमोतंमनस्सप्राणैश्च सर्वैः तमेवैकंजानथात्मानमन्यावाचो विमुंचथ अमृतस्यैषसेतुरिति। अत्र द्युभ्वाद्यायतनं जीवः परोवेति संशये जीवइति तावत्प्राप्तं, “अराइव रथनाभौ संहतायत्र नाड्यः सएषोऽन्तश्चरते बहुधा जायमन इति उत्तरमत्रे नाड्याधारत्तवशरीरांतस्संचारजन्मवत्त्वानां जीवलिंगानामाम्नानात्, तत्र आदिमन्त्रे “ओतं मनस्सह प्राणैश्च सर्वै”रिति मनः प्राणाश्रयत्वरूपजीवलिंगाम्नानात्, “एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा संविवेष। प्राणैश्चित्तं […]
नयमयूखमालिका – Adhyaya 1 Pada 2
॥श्रीः॥ नयमयूखमालिका ।।प्रथमाध्यायस्य द्वितीय पादः।। प्रथम पादे समस्तचिदचिद्वलक्षणश्रीपुरुषोत्तमाख्यवेदान्तवेद्यजगत्कारणास्तित्वं प्रसाधितं, तथाऽपि कानिचिद्वेदान्तवाक्यानि चिदचिदन्तर्भूतवस्तुविशेषप्रतिपादकानि दृश्यंत इत्याशङ्कानिरासः क्रियते। किञ्च जन्मादिसूत्रै ब्रह्म कारणमेव ब्रह्मैव कारणमिति अयोगान्ययोगव्यवच्छेदौ लक्षणस्य असम्भावातिव्याप्तिपरिहाराय विवक्षितौ, तत्र अयोगव्यवच्छेदः प्रथमपादेन सिद्धः अन्ययोगव्यवच्छेदार्थस्रिपाद्यारम्भइति च विभागः। तत्र स्पष्टतरजीवलिङ्गकानि वाक्यानि प्रथमे पादे विचारितानि, अस्पष्टजीवलिंगकानि द्वितीये विचार्यन्ते, स्पष्टजीवलिङ्गकानि तृतीये, प्रधानादिप्रतिपादनच्छायानुसारीणि चतुर्थ इति प्रायिकोऽयं पादार्थविभागः।। सर्वत्र प्रसिद्धोपदेशात्।।1।। विवक्षितगुणोपपत्तेश्च।।2।। अनुपपत्तेस्तु न शारीरः।।3।। कर्मकर्तृव्यपदेशाच्च।।4।। शब्दविशेषात्।।5।। स्मृतेश्च।।6।। अर्श्रकौकस्त्वात्तद्व्यपदेशाच्च नेति चेन्न […]
नयमयूखमालिका – Adhyaya 1 Pada 1
॥श्रीः॥ नयमयूखमालिका ।।प्रथमाध्यायस्य प्रथमः पादः।। हेषारवैर्यश्श्रुतिब्रह्मनिर्भरैः स्त्रीयां व्यनक्ति स्वरसो दितां पुरा। निश्वासपङ्क्तिं निखिलामपि त्रयीमश्वाननः पातुस वश्चिरं हरिः।। श्रेयसान्निधिमिव श्रियःपतिं प्रेप्सतां प्रियहिताध्वदर्शिनी। लक्ष्मणार्यहृदयानुसारिणी लिख्यते नयमयूखमालिका।। “अथातोधर्मजिज्ञासे”त्यारभ्य “अनावृत्तिश्शब्दादनावृत्तिश्शब्दा” दितिपर्यंतं विंशतिलक्षणमेकं शास्त्रं, तत्र कर्मविचारार्था द्वादशलक्षणी देवताविचारार्था चतुर्लक्षणी च वृत्ता।ब्रह्मविचारार्था चतुर्लक्षण्यास्भ्यते।तत्रादौ ब्रह्मविषयव्युत्पत्त्यभावप्रतिपत्तिदौस्थ्यमानान्तरसिद्धत्वफलराहित्यरूपतदनारम्भहेतुचतुष्टयनिरीसेन तदारम्भसमर्थनार्थतया शास्रोपोद्धातरूपाणि समन्वयाधिकरणपर्यन्तानि चत्वार्यधिकरणानि।तेषु व्युत्पत्त्यभावशंकानिरीकरणार्थमिदमाद्यमधिकरणम्।। अथातो ब्रह्मजिज्ञासा।।1।। ब्रह्मविचारात्म्कमिदं शास्रमारम्भणीयं नवेति संशयः।तदर्थ ब्रह्मणि वेदान्ताः प्रमाणं नवेति संशयः। तदर्थञ्च सिद्धरूपे ब्रह्मणि […]