नयमयूखमालिका – Adhyaya 2 Pada 4
॥श्रीः॥ नयमयूखमालिका ।।अथ द्वितीयस्याध्यायस्य चतुर्थपादः।। तथा प्राणाः।।1।। गौण्यसंभवात्तत्प्राक्छØतेश्च।।2।। तत्पूर्वकत्वाद्वाचः।।3।। जीवोत्पत्तितदनुबधिज्ञातृत्वादिनिरूपणानंतरं जीवोपकरणानामिंद्रियामामुत्पत्तिप्रकारो विशोध्यत इति संगतिः। किमिंद्रियाणां वियदादिवत् स्वरूपान्यथाभावरूपोत्पत्तिः, उत जीववत् धर्मान्यथाभावमात्ररूपेति श्रुतिविप्रतिपत्तेस्संशये पूर्वपक्षः– यद्यपि वियदधिकरणे “ब्रह्मातिरिक्तं सर्वमुत्पत्तिम” दिति निर्णीतं, तथापींद्रियाणां वियदादिवत् न स्वरूपान्यथाभावरूपोत्पत्तिः। “असद्वा इतमग्रआसीत् तदाहुः किं तदासीदिति ऋषयो वाव ते अग्रे सदासीत् के ते ऋषय इति प्राणावाव ऋषय इती” ति, सर्गाद्यकालेऽपि स्थितिश्रवणात् प्राणशब्दस्य बहुवचनांतस्य इंद्रियेष्वेव, […]
नयमयूखमालिका – Adhyaya 2 Pada 3
॥श्रीः॥ नयमयूखमालिका ।। अथ द्वितीयस्याध्यायस्य तृतीयः पादः।। सांख्यादितंत्राणां न्यायाभासमूलत्वाद्विप्रतिषेधाच्चासामंजस्यमुक्तं। इदानीं स्वपक्षस्यापि वियदुत्पत्त्युनुत्पत्त्यादिविषयुश्रुतिविप्रतिषेधदोषोस्तीति प्रतिबन्दीं मनसि विपरिवर्तमानां निरसितुं तदभावख्यापनाय ब्रह्मकार्यस्य प्रपञ्चस्य कार्यताप्रकारः पादद्वयेन विशोध्यते। नन्वेवं सति वियदादि कार्यत्वप्रसाधनस्य परोक्तदोषपरिहारार्थेन प्रथमपादेन संगत्त्या तदानंतर्यं स्यात्। कारणविषयपादद्वयानन्तरं कार्यविषयपादद्वयारम्भ इति चेत् तर्हि कार्यविषयस्यास्य पादद्वयस्याध्यायसंगतिरेव न स्यात्। प्रथमाध्यायनिरूपिते वेदांतानां जगत्करणब्रह्मसमन्वये परिपन्थिनो विरोधस्य समाधानं हि द्वितीयाध्यायार्थ इति चेत् उच्यते- कारणविषयश्रुतीनां ब्रह्मणि समन्वयो वियदाद्युत्पत्तिश्रुतीनां […]
नयमयूखमालिका – Adhyaya 2 Pada 2
॥श्रीः॥ नयमयूखमालिका ।।अथ द्वितीयस्याध्यायस्य द्वितीय पादः।। रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्र्व।।1।। पयोऽम्बुवच्चेत्तत्रापि।।2।। व्यतिरेकानवस्थितेश्र्वानपेक्षत्वात्।।3।। अन्यत्राभावाच्च न तृणादिवत्।।4।। पुरुषाश्मवदिति चेत्तथाऽपि।।5।। अंगित्वानुपपत्तेश्च।।6।। अन्यथाऽनुमितौ च ज्ञशक्तिवियोगात्।।7।। अभ्युऽपगमेऽप्यर्थाभावात्।।8।। विप्रतिषेधाच्चासमंजसम्।।9।। प्रथमाध्यायप्रतिपादिते ब्रह्मणो जगत्कारणत्वे प्रधानपरमाणुकारणवादिभिस्सांख्य वैशेषिकादिभिः केवलतर्कमवष्टभ्यापादितानि दूषणानीति प्रथमपादेन निराकृतानि। तत्रापि प्रणेतृगौरवेण तेषां तर्काणामुपादेयत्व शङ्कास्मृत्यधिकरणयोगाधिकरणाभ्यांनिराकृता। तत्तत्तर्कस्वरूपपर्यालोचनया तेषामुपादेयत्वशङ्का नविलक्षणत्वाधिकरणमारम्भ निराकृता। एवमाद्याधिकरणयोस्तृतीयादीनामष्टानामधिकरणानाञ्चावान्तरार्थभेदेऽपि ब्रह्मवादप्रतिक्षेपकतर्कनिराकरणार्थत्वेनैकार्थ्यं, अस्मिन्पादे शुष्कतर्कालम्बनास्सांख्यादिपक्षास्तथाभूतैरेव तर्कैर्दूष्यन्ते। अन्यथा प्रधानादिकारणत्वप्रतिष्ठापकानां परपक्षाणां तदर्काभासमूलत्वं जानतां मन्दधियां तेषु प्रामाणिकत्वशङ्कया ब्रह्मवादश्रद्धा शिथिलीभवेत्। […]
नयमयूखमालिका – Adhyaya 2 Pada 1
।।श्रीः।। नयमयूखमालिका द्वितीयोऽद्ध्यायः । ।।द्वितीयस्याध्यायस्य प्रथमः पादः।। ।।स्मृत्यनवकाशदोषप्रसंगइतिचेन्नान्यस्मृत्यनवकाशदोषप्रसंगात्।।1 ।। ।।इतरेषाञ्चानुपलब्धेः।।2 ।। प्रथमेऽध्याये श्रीमन्नारायणाख्यं परंब्रह्म सकलजगत्कारणमिति तत्र सर्वेषां वेदान्तानां न्यायतस्समन्वयव्युत्पादनेन प्रसाधितं। तत्र संभावितसर्वविधविरोधसमाधानेन तदेव स्थिरीकर्तुं द्वितीयोऽध्याय आरभ्यते। तत्र प्रथमाधिकरणे सांख्यस्मृतिविरोधेन वेदांतानामन्यपरत्वाशङ्का निरस्यते। ननु कथं स्मृतिविरोधे श्रुतेरन्यपरत्वशङ्का, श्रुतिस्मृतिविरोधे स्मृतेरेवाप्रामाण्यस्य “विरोधेत्वनपेक्ष्यं स्यादसति ह्यनुमान” मिति पूर्वतन्त्राधिकरणे स्थितत्वात्। तत्र हि “औदुंबरीं स्पृष्ट्वोद्राये”दिति प्रत्यक्षश्रुतिविरोधेन “औदुंबरी सर्वा वेष्टयितव्ये”ति स्मृतेरनादरणीयत्वं, असत्येव प्रत्यक्षश्रुतिविरोधे स्मृतेर्मूल […]