अधिकरणसारावली अन्याधिष्ठिताधिकरणम्
अधिकरणसारावली अन्याधिष्ठिताधिकरणम् 3.1.15 जन्म व्रीह्यादिनाम्ना श्रुतमिह तदिदं देवमत्र्यत्ववत्स्यात् नैरात्म्यं स्थावराणां नच निगमविदस्स्थापयन्तीति चेन्न। पुण्यस्यैव प्रवृत्ते फलपरिगणने स्थावरत्वोक्त्त्ययोगात् रेतस्सिगवर्ष्मणीव ह्युपचरति जनिं स्थावरेऽप्यन्यदेहे।। 3.1.16 हिंसायोगादशुद्धं श्रुतिविहितमपि न्यायमिष्टादिकं तत्- पापांशं व्रीहिभावप्रभृतिषु सुकृती भुङ्क्त इत्यप्ययुक्तम्। उक्ता मन्त्रार्थवादैः पशुहितमिति सा तच्चिकित्सावदेषां ब्रूते यज्ञे वधोऽसाववध इति मनुस्स्तौति निन्दा त्विहान्यत्।। 3.1.17 कर्तुर्दोषं दिशेत् संज्ञपनमिह पशोस्तत्क्रतोश्चोपकुर्यात् तस्मादस्मिन्निषेधं क्षिपति न विधिरित्यब्रुवन् […]
अधिकरणसारावली नातिचिराधिकरणम्
अधिकरणसारावली नातिचिराधिकरणम् 3.1.14 व्योमादिस्थित्यवस्था चिरमचिरमिति व्यक्तनिर्देशहानेः शुक्लावस्थानयात् स्यादनियतिरिति न स्वारसिक्याः प्रवृत्तेः। व्रीह्यादिभ्यो हि दुर्निष्प्रपयरमिति तु श्रूयते तेन पूर्वं शीघ्रं तत्तदृशास्त्यजनमिति परिज्ञायते वाक्यशक्त्या।।
अधिकरणसारावली तत्स्वाभाव्यापत्त्यधिकरणम्
अधिकरणसारावली तत्स्वाभाव्यापत्त्यधिकरणम् 3.1.13 आहुत्योर्देहवत्त्वं प्रथमचरमयोर्निरविवादं तथा स्यात् जन्मैवाकाशवायुप्रभृतिषु भवतेरन्वयादित्यसारम्। रेयस्सिग्ओभावनीया पृथगभिसपनानर्हतामात्रमेव द्युभ्वोः पुण्यप्रसाध्यं फलमिह पठितं नास्ति भोगस्य मध्ये।।
अधिकरणसारावली अनिष्टादिकार्यधिकरणम्
अधिकरणसारावली अनिष्टादिकार्यधिकरणम् 3.1.11 सर्वेषां देहपाते सति नियमवती चन्द्रमः प्राप्तिरुक्ता तस्मात् पापोत्तराणां निरयगतिपुरस्कारिणी सेति चेन्न। लोकस्सूंपूर्यते तैर्न पर इति गिरा संकुचेत् सर्वशब्द- स्ते तत्तद्यातनान्ते तत इह सहसा कुत्सितां यान्ति योनिम्।। 3.1.12 जन्मप्राप्तिर्जरायुप्रभृतिषु भवितां कर्मपाकैर्विचित्रा भूयिष्ठैः पुण्यपापैस्त्वपदवदनवती पञ्चमाहुत्यपेक्षा। तद्वद्धूमादिमार्गः कति कति च शुभैरुत्कटैर्देहपाते दिव्यं रूपं विमानादिकमपि सपदि प्राप्य याताः प्रसिद्धाः।।
अधिकरणसारावली कृतात्ययाधिकरणम्
अधिकरणसारावली कृतात्ययाधिकरणम् 3.1.7 इष्टापूर्तादिरूपं तनुभृदिह शुभंकर्म यत् किंच कुर्यात् भुक्त्वा कृत्स्नं तदन्ते पुनरवनिमियादित्यसड़ृष्टबाधात्। कार्त्स्न्येनेत्यश्रुतत्वात् सुकृतफलतया जातिभेदाद्यधीते- स्तस्मात् प्रारब्धशेषैस्तदितरसहितैरापतेत् स्वर्गपान्थः।। 3.1.8 धूमं रात्रिं च पक्षं तिमिरकलुषितं दक्षिणावृत्तिमासान् पश्चाल्लोकं पितॄणां गगनमपि मृतश्चन्द्रमभ्येति कर्मी। प्रत्यावृत्तौ तु चन्द्राद्रगनसततौ धूममभ्रं च मेघं व्रीह्यादीन्याति रेतस्सिचमथ जननीं यातनाचक्रवर्ती।। 3.1.9 आचारांशस्य साद्ध्यं चरणवचनतो जीतिभोगादिकं स्यात् कर्माचारौ विभक्तौ […]
अधिकरणसारावली तदन्तरप्रतिपत्त्यधिकरणम्
अधिकरणसारावली ॥ तृतीयाध्यायस्य प्रथम पाद:॥ तदन्तरप्रतिपत्त्यधिकरणम् 3.1.1 साद्ध्या मुक्तिर्नचेत्स्यात्प्रसजति विफला साधनाद्ध्यायक्लृप्ति- स्साद्ध्या चेन्नश्वरी स्यात् कथमिह पुनरावृत्तिशून्योऽपवर्गः। मैवं ब्रह्मानुभूतिः परभजनवता प्रागसिद्धैव साद्ध्या धीसंकोचप्रणाशस्त्वियमिति च भवत्युत्तरावध्यतीता।। 3.1.2 पादाभ्यामत्र पूर्वं जनयति भवितां ब्रह्मविद्याधिकारं पश्चात्तेषामुभाभ्यां वदति बहुविधां तामशेषैस्सहाङ्गैः। ऐश्वर्यादौ विरक्तिं निरवधिविभवे पूरुषे चाभिलाषं विद्याभेदावलम्बं तदुपकरणमप्याह पादैः क्रमेण।। 3.1.3 संसारोद्विग्नचेतास्तनुभृदधिकरोत्यत्र शारीरकांशे वैराग्यार्थस्तु पादः किमिति […]
अधिकरणसारावली संज्ञामूर्तिकॢप्त्यधिकरणम्
अधिकरणसारावली संज्ञामूर्तिकॢप्त्यधिकरणम् 2.4.11 मन्वाद्यैस्स्मर्यतेऽसौ सरसिजवसतिर्व्यष्टिनामादिकर्ता जीवेनानुप्रविश्येत्यपि कथितमतः प्रेष्यकृत्यक्रमो़ऽत्र। तन्नैकोऽहि प्रवेष्टा त्रिवृतमकृत च व्याकरोदित्यधीत- स्तत्तज्जीवान्तरात्मा सृजति स भगवांस्तादृशं कार्यजातम्।। 2.4.12 या जीवेनात्मनेति श्रुतिरियमपि न ब्रह्मजीवैक्यमाह प्रागेवैकोऽन्तरात्मा वपुरितरदिति स्थायिभेदाभिधानात्। तेनेशस्तद्विशिष्टः स्वकरणकतयाऽनुप्रवेशेऽपि कर्ता जीवे तत्कर्तृतायामिह न हि घटते त्वाश्रुतिः कर्तृभेदात्।। 2.4.13 अग्न्यादावण्डमध्यस्थितिमति कथितं रूपभेदैस्त्रिवृत्त्वं तेजोबन्नाशितोक्तावपि विशदमिदं तेन वेधास्त्रिवृत्कृत्। मैवं ब्रह्माण्डसृष्टिर्भवतु कथमसावत्रिवृत्कारपूर्वा भुक्तेऽन्नादौ त्रिधोक्ता परिणतिरितरत् सन्निकृष्टेः प्रदृष्टिः।। […]
अधिकरणसारावली इन्द्रियाधिकरणम्
अधिकरणसारावली इन्द्रियाधिकरणम् 2.4.10 प्राणोऽपि स्याद्धृषीकं भृशमुपकरणात्तेषु मुख्यत्ववादा- दुत्क्रान्त्यादौ च साह्यादिति यदि न पृथक्छब्दतस्तस्य भेदात्। कण्ठोक्तादिन्द्रियत्वान्मनसि तु घटते गोबलीवर्दनीति- र्न प्राणे सात्त्विकाहङ्करणविकृतिता शब्दसाम्यादि मन्दम्।।
अधिकरणसारावली ज्योतिराद्यधिष्ठानाधिकरणम्
अधिकरणसारावली ज्योतिराद्यधिष्ठानाधिकरणम् 2.4.9 भोक्तॄणां देवतानामपि तनुकरणाधिष्ठितिर्नेशतन्त्रा तत्स्वातन्त्र्यप्रदानादिति न तनुभृतस्तच्छरीरं हि सर्वे। नित्ये तत्पारतन्त्र्ये क्वचिदपि न भवेद्राजसामन्तनीतिः प्राणन्यायात् प्रभुत्वं तदिह परवशं चेतनानां स्वशक्ये।।
अधिकरणसारावली वायुक्रियाधिकरणम्
अधिकरणसारावली वायुक्रियाधिकरणम् 2.4.7 प्राणः प्रागुक्तनीत्या परजनित इति स्थापितो वायुमात्रं देहान्तस्तत्क्रिया वा स इति न पृथगुत्पत्तिवादात् सहास्य। द्रव्यत्वं द्रव्यवर्गे पठनत उचितं नैष तत्त्वान्तरं स्या- त्तेजस्त्वे वाय्ववस्थात्यजनवदिह तत्त्यागहानेः कदाऽपि।।