अधिकरणसारावली ब्राह्माधिकरणम्
अधिकरणसारावली ब्राह्माधिकरणम् 4.4.11 ज्ञानत्वे किं फलं स्यादिति मिषतु गुणैस्तादृशं ब्रह्मसाम्यं किं धर्मैरस्वरूपैस्तदिह भवतु चिन्मात्ररूपप्रकाशः। इत्थं छात्रोक्तपक्षद्वयमुभयविधश्रुत्युपात्ताद्विरोधात् निर्धूयाथ द्विधाविर्भवनमघटयत्सिद्धतत्त्वप्रकाशात्।। 4.4.12 पर्यायौ नामपाठेष्वनुपरिपठितौ मुक्तिकैवल्यशब्दौ कैवल्यञ्चान्ययोगत्यजनमिति कथं धर्मिधर्मान्वयोऽस्य। मैवं ब्रह्मस्वरूपादपरमिह न खल्वस्ति किञ्चित् स्वनिष्ठं न द्रव्यञ्चागुणं स्यादधिकरणयुगं तन्निरातङ्कमेतत्।।
अधिकरणसारावली अविभागेनदृष्टत्वाधिकरणम्
अधिकरणसारावली अविभागेनदृष्टत्वाधिकरणम् 4.4.8 जीवेशौ नित्यभिन्नौ श्रुतिरिह च सहेत्याह मुक्तस्य भोगं साम्ये पारम्ययुक्तं स्मृतिमपि स पृथग्भातु तस्मात्परस्तात्। मैवं तत्त्वं हि मुक्तौ स्फुरति तदनयोर्भेदभानांश इष्टः सिद्धे देहात्मभावे त्विह नहि घटते तत्स्वनिष्ठत्वदृष्टिः।। 4.4.9 मन्त्रोक्तं भोक्तृभावे यदि सहभवनं ब्रह्म न स्यात् प्रधानं तस्मात्तद्भोग्यभावे भवतु तदुचिते ब्राह्मणव्याकृतेश्च। द्वेधापि ब्रह्म तत्त्वात् पृथगितर इह स्यादितीदञ्च वार्तं सिद्धे भेदे […]
अधिकरणसारावली संपद्याविर्भावाधिकरणम्
अधिकरणसारावली अथ चतुर्थाध्याये चतुर्थ: पाद: संपद्याविर्भावाधिकरणम् 4.4.1 उक्तं पादैरघानामिति पृथुवपुषस्सूक्ष्ममूर्तेश्च हानं निर्धूतोपाधिराशेर्निरुपधिकमहानन्दमन्त्येन वक्ति। स्वाविर्भावोऽत्र चिन्त्यस्त्रिभिरधिकरणैश्छन्दवृत्तिस्त्रिभिश्चे- त्येवं द्वे पेटिके स्तस्स्वत उभयमिदं नोपधेर्नाथनिघ्नम्।। 4.4.2 अश्रान्तस्वप्रकाशं यदिदमहमिति प्रत्यगात्मस्वरूपं तस्याविर्भावसिद्धौ नतु किमपि फलं स्यात्सुषुप्ताविशेषात्। तस्मान्मुक्तस्स्वमन्यद्भजति वपुरसौ देववद्रूपशब्दात् मैवं स्वेनेति शब्दो ह्यफल इह भवेद्रूपवाचार्थसिद्धेः।। 4.4.3 नित्यस्वात्मस्वरूपस्थितिरियमभिनिष्पत्तिरित्यूचिवांसः तन्मात्रं स्यान्न विद्याफलमिति न विदुर्नित्यसिद्धं त्वसाध्यम्। सिद्धं साध्यानुवेधादपि […]
अधिकरणसारावली कार्याधिकरणम्
अधिकरणसारावली कार्याधिकरणम् 4.3.11 वैधात्रस्थाननेतॄन्समकथयदिमान्बादरिस्तादृशानां गत्यौचित्यं तदा स्यान्न खलु विभुजुषामत्र वेद्यं न लभ्यम्। सामीप्याद् ब्रह्म चोक्तस्सरसिजवसतिस्तेन सार्धञ्च मुक्तिः युक्तेत्येतन्न नानाश्रुतिपठितपरस्थानगत्याद्यबाधात्।। 4.3.12 मार्गोऽसावर्चिरादिर्गमयति परमं धाम गत्यादियोगात् ब्रह्मोक्तेर्मुख्यभावादिति तु निरणयज्जैमिनिर्युक्तमेतत्। वक्तव्यं त्वत्र किञ्चिन्नयति परविदस्स्वान्वितब्रह्मनिष्ठान् तद्देहस्वात्मनिष्ठानपि मुखभिदयामी च सम्पूर्णनिष्ठाः।। 4.3.13 ध्यायेयुर्ये च जीवान् प्रकृतिशबलितान् केवलान्वा यथेष्टं द्वेधापि ब्रह्मदृष्ट्या जडनिवहमपि स्वेन यद्वान्यदृष्ट्या। ते सर्वे हि प्रतीकप्रणिहितमनसो नार्चिराद्याध्वयोग्याः […]
अधिकरणसारावली आतिवाहिकाधिकरणम्
अधिकरणसारावली आतिवाहिकाधिकरणम् 4.3.7 भोगस्थानान्यमूनि ज्वलनदिनमुखान्यध्वचिह्नानि वा स्युः लोकोक्तिच्छाययैव स्थितमिदमिति नासंभवात्कालशब्दे। स्पष्टे नेतृत्वपुंस्त्वे क्वचिदतिवहनं तद्वदन्यैश्च कार्यं सन्दिग्धे वाक्यशेषाद्गतिरिति जगुरग्न्यादिवाचोऽभिम़न्तॄन् ।। 4.3.8 यां श्रुत्वा धर्मसूनुर्न्यपतदभिपतेत्तामसौ तामसौघो वर्गस्त्रैवर्गिकाणां पितृसरणिघटीयन्त्रचक्रे विघूर्णेत्। वर्तन्येषार्चिरादिश्श्रुतिभिरपुनरावर्तिनां संविभक्ता तत्र ब्रूतेऽतिवोढॄंस्तदितरवदहः पक्षमासादिशब्दः।। 4.3.9 पूर्वं धूमादिमार्गे सुकृतिषु कथिता चन्द्रमःप्राप्तिरन्या सायुज्यं न्यासविद्याप्रकरणपठितं चान्द्रमन्यादृगुक्तम्। अन्यात्रार्चिर्मुखानामतिवहनकृतामष्टमस्याप्तिरिन्दो- रित्थं सुस्था व्यवस्था प्रणिहितहृदयैरेवमन्यच्च सूहम्।। 4.3.10 […]
अधिकरणसारावली वरुणाधिकरणम्
अधिकरणसारावली वरुणाधिकरणम् 4.3.5 कौषीतक्यागमोक्ता वरुणशतमखौ सोऽपि नाथः प्रजानां क्वापि स्थाप्या निपीड्य श्रुतिमपि विफला ह्यन्यथा तच्छ्रुतिस्स्यात्। तस्मात्ते वायुलोकात्परमनुपठनात्तत्र सन्त्वित्ययुक्तं सम्बन्धाद्विद्युतोऽन्वग्वरुण इति परौ पाठतस्तत्परौ स्तः।। 4.3.6 यत्त्वस्यामानवस्य श्रुतिमिह परसम्प्रापकत्वं भवेत्तत् सद्वारत्वेऽप्यबाधं तदपि सहकृतौ तच्छ्रुतौचित्यभूमा। यश्चोक्तो मानसाख्यस्तटित उपरि तु ब्रह्मलोकाप्तिहेतुः तस्मान्नेता स नान्यो विदुरतिवहनं वैद्युतेनैव तस्मात्।।
अधिकरणसारावली वाय्वधिकरणम्
अधिकरणसारावली वाय्वधिकरणम् 4.3.4 सम्प्राप्तो देवलोको मरुदपि च समं वत्सरादित्यमध्ये नैकत्वं रूढिभेदात्तत इह तु तयोस्तुल्यभावाद्विकल्पः। मैवं योऽयं प्रसिद्धः पवत इति मरुद्देवतानां गृहत्वं तस्योक्तं धारकत्वात्तत उचितमिदं निर्विकल्पं तदैक्यम्।।
अधिकरणसारावली अर्चिराद्यधिकरणम्
अधिकरणसारावली चतुर्थाध्याये तृतीय: पाद: अर्चिराद्यधिकरणम् 4.3.1 1.निर्गत्य ब्रह्मरन्ध्रात् तपनकरमथालम्ब्य नाडीनिबद्धं प्रत्युद्यद्देवबृन्दप्रहितबलिरसौ येन योगी प्रयाति । मौकुन्दस्स्थाप्यतेऽसौ परमिह मुनिना पञ्चभिर्न्यायभेदैः मोहाकूपारपारं पुरमभिगमयन्मुक्तिघण्टापथो नः।। 4.3.2 शाखाभेदेषु भिन्नां गतिमुपनिषदोऽधीयते तन्मुमुक्षोः विद्यावैषम्यनीत्या गतिरपि विषमा न व्यवस्थार्चिरादेः। नैतत्सर्वत्र तैस्तैरिह तदिदमिति प्रत्यभिज्ञानसिद्धौ भाव्यं न्यूनाधिकत्वप्रभृति निखिलमप्यत्र सिद्धाविरुद्धम्।। 4.3.3 चैद्यादीनामयोध्यास्थिरचरजनुषां पुण्डरीकादिकानां भीष्मादीनामुपास्तिक्रमभवविभवव्यूहलोकस्थितानाम् । धातॄणां तत्सुतानामिधिकृतिविगमे ब्रह्मसम्प्रेप्सताम- प्यन्येषां प्रस्थितिस्सा शितपृथुमतिभिश्चिन्तनीया […]
अधिकरणसारावली दक्षिणायनाधिकरणम्
अधिकरणसारावली दक्षिणायनाधिकरणम् 4.2.23 देहं योगीश्वरोऽपि त्यजति यदि रवेर्दक्षिणावृत्तिकाले विन्देत्सायुज्यमिन्दोरिह भवति पुनस्तच्छ्रुतेस्तत्स्मृतेश्च। मैवं पूर्वोक्तनीतिस्त्विह नहि विहताथास्य सायुज्यमिन्दौ विश्रान्त्यै सूर्यनीत्या जगदुपकृतये भीष्मकालप्रतीक्षा।। 4.2.24 किञ्च प्रारब्धकर्मप्रतिनियतमिदं जाह्नवीसम्भवस्य स्वेच्छा येनैवमासीत् स च वसुरभवन्नै साक्षाद्विमुक्तः। तस्माद्विन्देत मुक्तिं नरपितृदिविषद्रात्रिकालेऽपि योगी स्यातां प्राशस्त्यनिन्दे तदितरविषये गीतयोक्तौ तु मार्गौ।। 4.2.25 सम्पद्येतान्यदक्षं मनसि तदपि तत्संयुतं प्राणवायौ सोऽध्यक्षे तैस्समेतस्स च तदखिलवान् भूतवर्गे तु […]
अधिकरणसारावली निशाधिकरणम्
अधिकरणसारावली निशाधिकरणम् 4.2.21 सर्वेषामप्रशस्तं रजनिमरणमित्यह््नि योगी म्रियेत प्रेयाद्यद्येष रात्रौ न चरममरणं तद्भवेदित्ययुक्तम्। कर्म प्रारब्धकार्यं ह्यनियतसमयं क्षीयते तावदेवे- त्युक्तश्चास्मिन्विलम्बोऽहनि निशि च परं विद्यया सोऽश्नुतेऽतः।। 4.2.22 यत्रैकस्यापवर्गः प्रतिनियततया गण्यते जातकक्षैः तत्स्यादन्त्यं शरीरं न तु भवति ततोऽप्यन्ययोगव्युदासः। न ह्यत्राप्यन्तकाले दिनरजनिभिदा देशभेदादि चैवं शव्यं कुर्वन्ति चास्मिन् यदुच यदुच नेत्यादि चैवं विभाव्यम्।।