अहिकुण्डलाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः अहिकुण्डलाधिकरणम् ॥ ६ ॥ उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ ३-२-२६ ॥ *द्वे वाव ब्रह्मणो रूपे*(बृह.४-३-१)इत्यादिनोक्तमचिद्वस्तुनो ब्रह्मरूपत्वम् किम् ब्रह्मस्वरूपस्यैवाचिद्रूपेण परिणामाद्भवति उत परस्मिन् ब्रह्मणि अचिद्वस्तुनि च एकजातियोगात् उत जीववद्ब्रह्मशरीरतया ब्रह्मविशेषण-त्वेनेति सम्शयः । भिन्नाभिन्नत्वरूपोभयव्यपदेशोपपत्तये ब्रह्मैवाचिद्रूपेण परिणमत इति प्रथमःपक्षः । तथा सति ब्रह्मणो निर्दोषता बाध्यत इति एकजातियोगेनेति द्वितीयः पक्षः । एवम् सति *आत्मैवेदम् […]
उभयलिङ्गाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः (पे-२) उभयलिङ्गाधिकरणम् ॥५॥ सम्सारिजीवस्येव ब्रह्मणोऽपि मनुष्यादिदेहान्तरवस्थित्या तत्प्रयुक्त-सुखदुःखभोक्तृत्वमपि प्रसजेत् । यद्यपि परमात्मनो देहान्तरावस्थिति-प्रयुक्तभोक्तृत्वमाशङ्क्य परितो दह्यमानगृहान्तर्वर्तित्वे देवदत्तयज्ञदत्तयोर-विशिष्टेऽपि तत्स्वामिनस्तदभिमानिनो देवदत्तस्येव यज्ञदत्तस्य तत्कृत-दुःखादर्शनवत् देहान्तर्वर्तित्वे जीवपरयोरविशिष्टेऽपि *तयोरन्यः पिप्पलम् स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीती*(मुण्ड.३-१-१)ति श्रुत्यनुसारेण देहाभिमानिजीववन्न परस्य भोक्तृत्वमिति *सम्भोगप्राप्तिरिति चेन्न वैशेष्यादि*(ब्र.सू.१-२-८)ति सूत्रे स्थितम् । तथा स्मृतिपादेऽपि सर्व-स्यापि परमात्मशरीरतया शरीरम् प्रति स्वामित्वमपि परमात्मनो-ऽस्तीति मनुष्यादिशरीरस्वामिनस्तदन्तर्वर्तिनः […]
मुग्धधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः मुग्धधिकरणम् ॥४॥ जाग्रत्स्वप्नसुषुप्तिानामन्यतमो मोह इति पूर्वपक्षे प्राप्त उच्यते – मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ ३-२-१० ॥ न तावन्मुग्धो जागरितावस्थो भवितुमर्हति इन्द्रियैर्विषयानिरीक्षणात् । नापि स्वप्नान् पश्यति निस्सञ्ज्ञत्वात् । नापि मृतः तस्य प्राणो-ष्मणोरभावात् । न च सुषुप्तः तद्वैलक्षण्यात् । सुप्तो हि प्रसन्नवदनो निमीलितनेत्रश्च । तस्मान्मोहो नाम मृतेरर्धसम्पत्तिः अर्धमृतिरिति […]
कर्मानुस्मृतिशब्दविध्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥३॥ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥३-२-९॥ सुप्तस्य मुक्ताविषयतया ब्रह्मणि लीनस्य पुनर्देहसम्बन्धाभावादन्य एवोत्तिष्ठति सुप्तिरहितपुरुषेषु वैदिककर्मणाञ्च साफल्यम् भविष्यतीति प्राप्त उच्यते – स एव तु – स एवोत्तिष्ठति । कुतः? कर्मानुस्मृतिशब्द-विधिभ्यः । सुप्तेः प्राकृतम् कर्म तेनैव भोक्तव्यम् । अन्यथा कृतहानादि-प्रसङ्गात् । *योऽहम् सुप्तस्सोऽहम् जागर्मी*ति अनुस्मृते: *त इह […]
तदभावाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः तदभावाधिकरणम् ॥ २ ॥ *तद्यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्नः किञ्चिन्न विजानाति आसु तदा नाडीषु सृप्तो भवति ताभिः प्रत्यवसृप्य पुरीतति शेते*(छान्.८-६-३) *य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते*(बृह.४-१-१७, बृह.४-४-२२) इति नाडीपुरीतद्ब्रह्मणाम् सुषुप्तिस्थानत्वश्रवणात् समुच्चये सप्तम्यवगत-निरपेक्षाधारत्वप्रतीतिभङ्गप्रसङ्गात् युगपदनेकस्थानवृत्त्यसम्भवाच्च विकल्प इति पूर्वपक्षे प्राप्त उच्यते – तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ३-२-७ ॥ तदभाव: पूर्वनिर्दिष्टस्वप्नाभाव: सुषुप्तिरिति यावत् […]
सन्ध्याधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः सन्ध्याधिकरणम् ॥१॥ सन्ध्ये सृष्टिराह हि ॥ ३-२-१ ॥ *न तत्र रथा न रथयोगा*(बृह.६-३-१०) इति वाक्ये सन्ध्ये स्वप्न-स्थाने जीवकर्तृकैव सृष्टिराम्नायते । *स हि कर्ते*(बृह.६-३-१०)ति स्वप्नदृशम् प्राक् प्रस्तुतम् जीवमेव स इति शब्देन परामृश्य तस्य कर्तृत्वम् श्रुतिराह हि । निर्मातारञ्चैके पुत्रादयश्च ॥ ३-२-२ ॥ एके […]
अन्याधिष्ठिताधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ अन्याधिष्ठिताधिकरणम् ॥६॥ *व्रीहियवा ओषधिवनस्पतयः तिलामाषा इति जायन्त*(छान्.५-१०-६) इत्यनेनानुशयिनाम् व्रीह्यादिभाव उच्यते । तत्र देवो जायते मनुष्यो जायत इतिवदिह *तिलमाषा इति जायन्त*(छान्.५-१०-६) इति श्रवणाद्वीह्यादि शरीरका एवानुशयिनो भवन्तीति प्राप्त उच्यते – अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ३-१-२४ ॥ अवरोहताम् जीवानाम् जीवान्तराधिष्ठिते व्रीह्यादौ सम्श्लेषमात्रम् । कुतः? पूर्ववदभिलापात् । *आकाशाद्वायुम् […]
नातिचिराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ नातिचिराधिकरणम् ॥५॥ आकाशप्राप्तिप्रभृति यावद्व्रीह्यादिप्राप्ति किम् तत्र तत्र नातिचिरम् तिष्ठति उतानियम इति विशये नियमहेत्वभावादनियम इति प्राप्त उच्यते – नातिचिरेण विशेषात् ॥३-१-२३॥ आकाशादितो नातिचिरेण निष्क्रमणम् । कुतः? विशेषात् । उत्तरत्र व्रीह्यादिप्राप्तौ *अतो वै खलु दुर्निष्प्रपतरमि*(छान्.५-१०-६)ति विशिष्य कुच्छ्रनिष्क्रमणाभिधानादिति स्थितम् । इति नातिचिराधिकरणम् ॥
तत्स्वाभाव्यापत्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ तत्स्वाभाव्यापत्त्यधिकरणम् ॥४॥ *यथैतमाकाशमाकाशाद्वायुम् वायुर्भूत्वा धूमो भवती*(छान्.५-१०-५) त्यादावाकाशादिभावोऽपि देवमनुष्यादिभाववत्तच्छरीरकत्वलक्षण एवा-स्त्विति पूर्वपक्षे प्राप्त उच्यते – तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ३-१-२२ ॥ तत्स्वाभाव्यापत्तिः आकाशादिसादृश्यापत्तिरित्यर्थ: । स्वभाव एव स्वाभाव्यम् । *वर्तमानसामीप्य*(अष्टा.३-३-१३१) इत्यादिवत् स्वार्थिकः ष्यङ् । अतः तत्स्वाभाव्यापत्तिः तत्सादृश्यापत्तिरित्यर्थः । चन्द्रमण्डले शरीरारम्भकाणाम् भूतसूक्ष्माणाम् कर्मक्षये द्रवीभूतानामाकाशगतानाम् भेदकाकारप्रहाणेनाकाशादिसादृश्ये तदुपश्लिष्टानुशयिनोऽप्याकाशसमा भवन्तीत्यर्थः । कुतः? उपपत्तेः […]
अनिष्टादिकार्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायः तृतीयाध्यायस्य प्रथमः पादः ॥ अनिष्टादिकार्यधिकरणम् ॥३॥ अनिष्टादिकारिणामपि च श्रुतम् ॥३-१-१२॥ *ये वै के चास्माल्लोकात्प्रयन्ति चन्द्रमसमेव ते सर्वे गच्छन्ती* (कौषी.१-२)त्यविशेषश्रवणात् इष्टादिकारिणामिव अनिष्टादिकारिणामपि चन्द्रप्राप्ति-रस्त्येवेत्यर्थः । तर्हि सुकृतकारिणाम् दुष्कृतकारिणाम् च चन्द्रप्राप्तिसत्वे को विशेष इत्यत्राह – सम्यमने त्वनुभूयेतरेषामारोहावरोहौ तद्गतिदर्शनात् ॥३-१-१३॥ तुशब्दशङ्काम् व्यावर्तयति । सम्यमने यमशासने सति इतरेषाम् अनिष्टादिकारिणाम् यमयातनाः अनुभूय चन्द्रारोहावरोहौ । […]