इन्द्रप्राणाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ इन्द्रप्राणाधिकरणम् ॥११॥     कौषीतकिनामुपनिषदि – *प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियम् धामोपजगाम तम् हेन्द्र उवाच प्रतर्दन वरम् ते ददानीति स होवाच प्रतर्दनः त्वमेव वरम् वृणीष्व यम् त्वम्, मनुष्याय हिततमम् मन्यसे* (कौषी.३-१) स्पष्टोऽर्थः । *स होवाच मामेव विजानीहोतदेवाहम् मनुष्याय हिततमम् मन्ये*(कौषी.३-९) मोक्षसाधनमिति मम मतम् । अत-इतरत्प रित्यज्य मामुपास्वेत्यर्थः […]

ज्योतिरधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ ज्योतिरधिकरणम् ॥१०॥     एवम् श्रुत्यवलम्बनपूर्वपक्षावान्तरपेटिका उक्ता । अथ कारणत्वाक्षेपक- लिङ्गानुगृहीतश्रुत्यवलम्बनमवान्तरपेटिकान्तरम् प्रस्तूयते । यद्यपि एतदधिकरणस्य *अथ यदतःपरो दिवो ज्योति*(छान्.३-१३-७) रित्यत्र ज्योतिश्शब्द एव सन्देहविषयः, तथाऽपि द्वितीयसूत्राद्यर्थवर्णनोप-युक्ततया लिख्यते । तथा हि-चतुष्पात्वषाङ्विध्याभ्याम् ब्रह्मणि गायत्री-सादृश्यानुसन्धानरूपा विद्या प्रस्तूयते । चतुर्विम्शत्यक्षरयुक्ता षडक्षरपाद- चतुष्टयवती च गायत्री भवति । तच्छन्दः पाञ्चालशाखाध्यायिनः उदाह-रन्ति – *पेटिला लगन्ते […]

प्राणाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ प्राणाधिकरणम् ॥९॥      चिन्तोपयुक्तवाक्यानि व्याख्यायन्ते । *अथ हैनम् प्रस्तोतोपससाद* (छान्.१-११-४) उषस्तिवचनम् श्रुत्वा प्रस्तोता विनयेन उषस्तिसमीपमाग- तवानित्यर्थः । *प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता ताञ्चेदविद्वान प्रस्तो-ष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति* (छान्.१-११-४) भगवान् माम् प्रति *प्रस्तोतर्या देवते*(छान्.१-११-४)त्या-दिना यान्देवतामुक्तवान् सा देवता केति पप्रच्छेत्यर्थः । *प्राण इति होवाच *(छान्.१-११-५) […]

आकाशाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥  आकाशाधिकरणम् ॥८॥       एवम् सद्विद्यानन्दवल्लीप्रतिपाद्यम् जगत्कारणवस्तु जीवस्स्या-दित्याक्षेपेणोत्थानादवान्तरसङ्गतिः । अथ जगत्कारणम् आकाशप्राणादिकमेव न ततोऽन्यत् जगत्कारणम् ब्रह्मास्त्विति श्रुत्यवलम्बपूर्वपक्षादवान्तरपेटिका । पेटिकान्तरम् प्रस्तूयते- पूर्वम् आदित्यपुरुषस्य वैशेषिकलिङ्गात् वेदान्तवेद्यजगत्कारणत्वमुक्तम्, तदयुक्तम् । लिङ्गतः प्रबलया श्रुत्या भूताकाशस्यैव कारणत्वात् इत्याक्षेपेणोत्थानादवान्तरसङ्गतिः । *त्रयो होद्गीथे कुशला बभूवुश्शिलकश्शालावत्यश्चेकितानो दाल्भ्य: प्रवाहणो जैवलिरिति । ते होचुः उद्गीथे वै […]

अन्तरधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ अन्तरधिकरणम् ॥७॥ जगत्कारणम् वस्तु ईक्षणश्रवणात् *तत्त्वमसी*(छान्.६-(८-१६)) त्युप-सम्हाराच्च मा भूत्प्रधानम् मा भूच्चजीवसामान्यम् ततो भेदनिर्देशात् । तथाप्युपचितपुण्यविशेषाणाम् ब्रह्मादीनाम् विश्वामित्रा-दीनामृषीणाम् वा मध्ये यःकश्चित् जीवविशेष: कल्पभेदेन स्यात्, तत्र आनन्दवल्ल्युक्तजीव- सामान्यव्यावर्तकसकलमहिमोपपत्तेरिति शङ्कायाम् एतदधिकरणोत्थानम् । द्विर्देवताविषयकवाक्यमुदाह्रियते *अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते*(छान्.१-६-६) । आदित्यमण्डलस्यान्तः हिरण्मयः रमणीयः यो योगिभिर्दृश्यत इत्यर्थः। *हिरण्मय इति रूपसामान्यात् […]

आनन्दमयाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ आनन्दमयाधिकरणम् ॥६॥ यदि सतो मुख्यमीक्षणम् वाच्यम् तर्हि चेतनत्वान्मुख्येक्षणार्हो जीव एव जगत्कारणमस्त्विति पूर्वपक्षोत्थानादवान्तरसङ्गतिः । तैत्तरीये आनन्दवल्ली विषयवाक्यतया प्रस्तूयते – *ब्रह्मविदाप्नोति परम्*(तै.आन.१) । निरतिशयबृहत्वाश्रयवस्तूपासकः सर्वेभ्यः उत्कृष्टम् प्राप्नोतीत्यर्थः । वेदनोपासन शब्दानामेकार्थत्वात्ब्रह्मविदित्यत्र विच्छ-ब्दोऽप्युपासनपरः । तत्क्रतुन्यायेन प्राप्यस्यैव उपास्यत्वात् ब्रह्मणः प्राप्यत्वकथनात् तस्यैव उपास्यत्वमिति द्रष्टव्यम्। अत्र ब्रह्म – तद्वेदनम् – प्राप्तिः प्राप्यञ्चेति चतुष्टयमुक्तम् […]

ईक्षत्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ ईक्षत्यधिकरणम् ॥५॥ एवमुपोद्धाताधिकरणचतुष्टयेन शास्त्रारम्भे समर्थिते ईक्षत्यधिकरणमारभ्य शास्त्रं प्रतायते । अत्र वेदार्थविचारत्वात् शास्त्रयोस्सङ्गतिः । वेदान्तार्थविचारत्वात् ब्रह्मकाण्डसङ्गतिः । कारणविषयत्वात् द्विकसङ्गतिः । कारणवाक्यसमन्वयविषयत्वादध्याय सङ्गतिः । अस्पष्टतरास्पष्ट स्पष्टच्छायानुसारिवाक्यविचारत्वात् पादसङ्गतिरिति विवेकः । इतः परं पेटिकासङ्गतयः । तासु चावान्तरसङ्गतयश्च वक्तव्याः । तत्र पादशेषाधिकरणानां पेटिकासङ्गतिः । तथा हि-ब्रह्म जगतः कारणमेव न भवति, किं […]

श्रीभाष्योपन्यासः Adhyaya 04

श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः ॥ अथ चतुर्थोऽध्यायः ॥ एवम् अङ्गैः सह विद्या तृतीये चिन्तिता । अनन्तरम् विद्याफलम् चिन्त्यते । तत्र प्रथमे पादे विद्यास्वरूपविशोधनपूर्वकम् देहावस्थिति-समये सम्भवद्विद्याफलम् चिन्त्यते । यद्यपि चतुर्थः फलनिरूपणपर एव तथापि भक्तिरूपापन्नस्य ज्ञानस्य प्रीतिरूपतया फलकोटिनिवेशन-ज्ञापनार्थम् अस्य इदम् साधनमिति साध्यसाधनभावसम्बन्धज्ञापनार्थम् च विद्यास्वरूपमात्रम् विशोध्यते । तत्र – *आवृत्तिः* इत्यत्र *ब्रह्मविदाप्नोति* इति वेदनमात्रस्यैव विधानात् असकृदावृत्तौ प्रमाणाभावात् सकृत्कृतमेव वेदनम् […]

श्रीभाष्योपन्यासः Adhyaya 03

श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः ॥ अथ तृतीयोऽध्यायः ॥ एवम् अध्यायद्वयेन सकलजगदेककारणम् ब्रह्मेति स्थापितम् । अनन्तरद्विकेन ब्रह्मप्राप्त्युपायैस्सह तत्प्राप्तिप्रकारश्चिन्त्यते । तत्र तृतीयेऽध्याये उपायभूतम् उपासनम् चिन्त्यते । तत्र प्रथम-द्वितीयपादयोः उपासनारम्भाय प्राप्यव्यतिरिक्तविषयवैतृप्ण्यजननार्थम् प्राप्यतृष्णाजननार्थम् च जीवस्य लोकान्तरेषु सञ्चरतो जाग्रदाद्यवस्थस्य दोषाः, परमात्मनः तद्राहित्येन कल्याणगुणाकरत्वम् च प्रतिपाद्यते । तत्र *तदन्तरप्रतिपत्तौ* इत्यत्र देहात् देहान्तरम् गच्छन् जीव तत्र तत्र भूतसूक्ष्माणाम् सुलभत्वात् तैरसम्परिष्वक्त एव गच्छतीत्याशङ्क्य *वेत्थ […]

श्रीभाष्योपन्यासः Adhyaya 02

श्रीमहाचार्यैः विरचितः श्रीभाष्योपन्यासः ॥ अथ द्वितीयोऽध्यायः ॥ एवम् प्रथमे अध्याये चिदचिद्विलक्षणम् ब्रह्म सकलजगदेककारण-मित्युक्तम् । अस्यैव अर्थस्य  सम्भावितसमस्तप्रकारदुर्धर्षणत्वज्ञापनाय द्वितीयोऽध्याय आरभ्यते ॥ तत्र प्रथमे पादे स्वपक्षे कारणविषये परोक्तदूषणपरिहारः क्रियते । तत्र *स्मृत्यनवकाशे* त्यत्र वेदान्तानाम् ब्रह्मकारणत्वपरत्वे परमर्षि- प्रणीतायाः साङ्ख्यस्मृतेः निरवकाशत्वप्रसङ्गात् प्रधानमेव कारणमित्य-शङ्क्य मन्वादिपरमर्षिप्रणीतानाम् बह्वीनाम् स्मृतीनाम् अनवकाशत्व-प्रसङ्गात् ब्रह्मैव कारणमित्युक्तम् ॥ १ ॥ *एतेन योग* इत्यत्र योगस्मृतेः सर्ववेदप्रवर्तनाधिकृतहिरण्यगर्भ-प्रणीतत्वात् तदनुरोधेन वेदान्तार्थवर्णनम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.