श्रीभाष्यम् 01-03-25 मध्वधिकरणम्
श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम्॥ (अधिकरणार्थः – वस्वादिपदं प्राप्तानामपि मधुविद्यादिषु अधिकारः) (मधुविद्या (छा.उ. 3-1), ज्योतिषां ज्योतिर्विद्या च) ९५. मध्वादिष्वसम्भवादनधिकारं जैमिनि: ॥ १–३–३०॥ (पूर्वोत्तरार्थयोः साङ्गत्यं, प्रकृतो विषयश्च) ब्रह्मविद्यायां देवादीनामधिकारोऽस्तीत्युक्तम् ॥ (संशयाकारः) इदमिदानीं चिन्त्यते – येषूपासनेषु या देवता एवोपास्या: तेषु तासामधिकारोऽस्ति न इति, (जैमिनेर्मतम्) (पूर्वः पक्षः) किं प्राप्तम्? नास्त्यधिकारस्तेषु मध्वादिष्विति जैमिनिर्मन्यते; कुत😕 असम्भवात् – नह्यादित्यवस्वादिभिरुपास्या आदित्यवस्वादयोऽन्ये सम्भवन्ति। न च वस्वादीनां […]
श्रीभाष्यम् 01-03-24 देवताधिकरणम्
श्रीशारीरकमीमांसाभाष्ये एतद्गर्भे देवताधिकरणम्॥७॥ (अधिकरणार्थः – श्रुत्युक्तब्रह्मोपासनाधिकारः देवानामप्यस्त्येव) (विद्यासामान्यसम्बन्धि) ९०. तदुपर्यपि बादरायणस्सम्भवात् ॥ १–३–२५ ॥ (विषयसंशययोः प्रदर्शनम्) परस्य ब्रह्मणोऽङ्गुष्ठप्रमितत्वोपपत्तये मनुष्याधिकारं ब्रह्मोपासनशास्त्रमित्युक्तम्। तत्प्रसङ्गेनेदानीं ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्ति नास्तीति विचार्यते। (पूर्वपक्षः सयुक्तिकः) किं तावद्युक्तम्? नास्ति देवादीनामधिकार इति। कुत😕 सामर्थ्याभावात् । न ह्यशरीराणां देवादीनां विवेकविमोकादिसाधनसप्तकानुगृहीत–ब्रह्मोपासनोपसंहारसामर्थ्यमस्ति। न च देवादीनां सशरीरत्वे प्रमाणमुपलभामहे। (देवादीनां विग्रहसम्बन्धस्य प्रमाणतोऽसिद्धिः) यद्यपि परिनिष्पन्नेऽपि वस्तुनि व्युत्पत्तिसम्भावनया वेदान्तवाक्यानि परे ब्रह्मणि प्रमाणभावमनुभवन्ति; […]
श्रीभाष्यम् 01-03-23 प्रमिताधिकरणम्
॥श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणम्॥६॥ (अधिकरणार्थः – अङ्गुष्टपरिमाणपरिमितत्वेन श्रुत्युक्तः परमात्मैव, न कर्मवश्यो जीवः) (अङ्गुष्टप्रमितविद्या – नाचिकेतविद्या वा कठ.उ. 4-12)) ८८. शब्दादेव प्रमित: ॥ १–३–२३ ॥ (विषयवाक्यप्रदर्शनम्) कठवल्लीषु श्रूयते अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति। ईशानो भूतभव्यस्य न ततो विजुगुप्सते। एतद्वैतत् (कठ.२.४.१२) अङ्गुष्ठमात्र: पुरुषो ज्योतिरिवाधूमक:। ईशानो भूतभव्यस्य स एवाद्य स उ श्व:। एतद्वैतत् (कठ.२.४.१३) अङ्गुष्ठमात्र: पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्ट:। […]
श्रीभाष्यम् 01-03-22 दहराधिकरणम्
श्रीशारीरकमीमांसाभाष्ये दहराधिकरणम्॥५॥ (अधिकरणार्थः – दहराकाशशब्दवाच्यः परमात्मैव, न भूताकाशः, नापि प्रत्यगात्मा) (दहरविद्या – छा.उ. 8-1) ७८. दहर उत्तरेभ्य: ॥ १–३–१३ ॥ (विषयवाक्यप्रदर्शनम्) इदमामनन्ति छन्दोगा: अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तराकाशस्तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासतिव्यम् (छां.८.१.१) इति। (संशयाकारप्रदर्शनम्) तत्र सन्देह: – किमसौ हृदय पुण्डरीकमध्यवर्ती दहराकाशो महाभूतविशेष:, उत प्रत्यगात्मा, अथ परमात्मा – इति। (पूर्वपक्षः) किं तावद्युक्तम्? महाभूतिविशेष इति। कुत😕 आकाशशब्दस्य […]
श्रीभाष्यम् 01-03-21 ईक्षतिकर्माधिकरणम्
श्रीशारीरमीमांसाभाष्ये ईक्षतिकर्माधिकरणम्॥४॥ (अधिकरणार्थः – पुरुषमीक्षते इत्युक्तेक्षणक्रियाकर्मभूतः पुरुषशब्दवाच्योऽर्थः परमात्मैव, न समष्टिपुरुषः) (त्रिमात्रप्रणवपुरुषविद्या – प्रश्न.उ. 5-5) ७७. ईक्षितकर्म व्यपदेशात्स: ॥ १–३–१२ ॥ (विषयवाक्यप्रदर्शनम्) आथर्वणिकास्सत्यकामप्रश्नेऽधीयते – य: पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्न:। यथा पादोदरस्त्वचा विनिर्मुच्यते एवं ह वै स पाप्मना विनिर्मुक्तस्स सामभिरुन्नीयते ब्रह्मलोकं स एतस्माज्जीवघनात्परात्परं पुरिशयं पुरुषमीक्षते (प्रश्न.५.५) इति। (ध्यै धातोः ईक्षण धातोश्च अत्र समानकर्मकता) […]
श्रीभाष्यम् 01-03-20 अक्षराधिकरम्
श्रीशारीरकमीमांसाभाष्ये अक्षराधिकरणम् (अधिकरणार्थः – अक्षरशब्दवाच्यः प्रधानस्यापि आधारतया निर्दिष्टः परमात्मैव) (गार्ग्यक्षरविद्या बृ.उ. 5-8) ७४. अक्षरमम्बरान्तधृते: ॥ १–३–९ ॥ (विषयवाक्यप्रदर्शनम्) वाजसनेयिनो गार्गीप्रश्ने समामनन्ति सहोवाचैतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्त्यस्थूलमनणु अह्रस्वमदीर्घमलोहितमस्नेहमच्छायम् (बृ.५.८.८) इत्यादि। (संशयप्रकारः) तत्र संशय: – किमेतदक्षरं प्रधानम्, जीवो वा उत परमात्मा इति। किं युक्तम्? प्रधानमिति। कुत😕 अक्षरात्परत: पर: (मु.२.१.२) इत्यादिष्वक्षरशब्दस्य प्रधाने प्रयोगदर्शनादस्थूलत्वादीनां च तत्र समन्वयात्। (सिद्धान्तिनः पार्श्वस्थस्य […]
वेदान्तदीप: Ady 01 Pada 03
श्रीभगवद्रामानुजविरचित वेदान्तदीप: ॥ प्रथमाध्याये तृतीय: पाद: ॥ १।३।१ ६६ द्युभ्याद्यायतनं स्वशब्दात् – आथर्वणे यस्मिन् द्यौ: पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतु: इत्यत्र द्युपृथिव्यादीनामायतनं किं जीव:, उत परमात्मेति संशय:। जीव इति पूर्व: पक्ष:, मन: प्रभृतीन्द्रियाधारत्वश्रुते:, उत्तरत्र नाडीसंबन्धात्, जायमानत्वश्रुतेश्च। राद्धान्तस्तु निरुपाधिकात्मत्वामृतसेतुत्वयो: परमात्मधर्मयो: श्रवणात्परमात्मैवायम्। सर्वं नियन्तृतया आप्नोतीति ह्यात्मा। अमृतस्य प्रापकतया सेतुश्च स एव। नाडीसंबन्ध:, […]
श्रीवेदान्तसार: Ady 01 Pada 03
श्रीभगवद्रामानुजविरचित: श्रीवेदान्तसार: अथ प्रथमाध्याये तृतीय: पाद: १-३-१ ६६। द्युभ्वाद्यायतनं स्वशब्दात् – यस्मिन्द्यौ: पृथिवी चान्तरिक्षम् इत्यादौ द्युपृथिव्यादीनामायतनम् – आधार: परमपुरुष:। तमेवैकं जानथात्मानम् इत्यात्मशब्दात्। निरुपाधिकात्मत्वं हि परमपुरुषस्यैव। अमृतस्यैषसेतुरिति तदेव द्रढयति। बहुधा जायमान: इति परत्वं न निवारयति, अजायमानो बहुधा विजायते इति कर्मभिरजायमानस्यैव आश्रितवात्सल्यात् छन्दतो जननं तस्य हि श्रूयते॥१॥ ६७। मुक्तोपसृप्यव्यपदेशाच्च – तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति […]
श्रीभाष्यम् 01-03-19 भूमाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये भूमाधिकरणम्॥२॥ (अधिकरणार्थः – भूमशब्दवाच्यम्, सत्यशब्दनिर्दिष्टं परं ब्रह्मैव, न जीवादिः) (भूमविद्या – छा.उ. 7-1) ७२. भूमा सम्प्रसादादध्युपदेशात् ॥ १–३–७ ॥ (विषयवाक्यनिर्देशः) इदमामनन्ति छन्दोगा: यत्र नान्यपत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा। अथ यत्रान्यत्पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम् (छां.७.२४.१) इति। (अत्र भूमशब्दार्थनिर्वचनम्) अत्रायं भूमशब्दो भावप्रत्ययान्तो व्युत्पाद्यते। तथा हि पृथ्वादिषु बहुशब्द: पठ्यते । तत: पृथ्वादिभ्य इमनिज्वा (अष्टा.५.१.१२२) इति इमनिच्प्रत्यये कृते बहोर्लोपो भू […]
श्रीभाष्यम् 01-03-18 द्युभ्वाद्यधिकरणम्
श्रीशारिकमीमांसाश्रीभाष्ये अन्ययोगव्यवच्छेदत्रिपाद्यन्तर्गतः स्पष्टजीवादिलिङ्गकवेदान्त- वाक्यार्थविचारात्मकः तृतीयः पादः (पादार्थः – ब्रह्मैव सर्वजगत्कारणम्) प्रथमाध्याये–तृतीयपादे–द्युभ्वाद्यधिकरणम्॥१॥ (अधिकरणार्थः – द्युःपृथिव्यादीनां आयतनं परमात्मैव, न जीवः) (अक्षरपरब्रह्मविद्या मुण्ड.उ. 1.2) ६६. द्युभ्वाद्यायतनं स्वशब्दात् ॥ १–३–१ ॥ (विषयवाक्यम्) आथर्वणिका अधीयते – यस्मिन्द्यौ: पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वै:। तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतु: (मुण्ड.२.२.५) इति। (अधिकरणाङ्गभूतः संशयः) तत्र संशय: किमयं द्युपृथिव्यादीनामायतनत्वेन श्रूयमाणो जीव:, उत परमात्मा […]