जिज्ञासाधिकरणम्
॥श्रीः॥ ॥श्रीभूमिदेवीसमेतश्रीनिवासपरब्रह्मणे नमः ॥ ॥ श्रीमते रामानुजाय नमः ॥ ॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायां प्रथमस्याध्यायस्य प्रथमः पादः॥ अतसीगुच्छसच्छायमञ्चितोरस्स्थलं श्रिया । अञ्जनाचलश्रृङ्गारमञ्जलिर्मम गाहताम् ॥ जिज्ञासाधिकरणम् ॥ 1 ॥ अथातो ब्रह्मजिज्ञासा।। ”परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन। तद्विज्ञानार्थं सगुरुमेवाभिग- च्छेत् समित्पाणिश्श्रोत्रि ब्रह्मनिष्ठम्।। तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय। येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम्।।” […]