वैश्वानराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ वैश्वानराधिकरणम् ॥६॥ त्रैलोक्यात्मकरूपोपन्यासात् अक्षरवद्वैश्वानरोऽपि परमात्मेति निर्णीयत इति सङ्गतिः । छान्दोग्ये *यस्त्वेतमेवम् प्रादेशमात्रमभिविमानमात्मानम् वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ति*(छान्.५-१८-१) अभिविमानम् – सर्वाभिव्याप्ततया विगतमानम् विश्वेषाम् नराणाम् नेतारम् एतमात्मानम् प्रादेश-मात्रम् – द्युलोकादिप्रदेशसम्बन्धिनी प्रादेशीमात्रा यस्य तम् प्रादेशमात्रम् । द्युप्रभृतिप्रदेश परिच्छिन्नम् य उपास्ते स सर्वलोकसर्वभूतसर्वात्मवृत्तिब्रह्म-रूपमन्नमत्ति । सर्वत्र […]
अदृश्यत्वादिगुणकाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अदृश्यत्वादिगुणकाधिकरणम् ॥५॥ मुण्डकोपनिषदि – *शौनको ह वै महाशालोऽङ्गिरसम् विधिवदुपसन्नः पप्रच्छ, कस्मिन्नु भगवो विज्ञाते सर्वमिदम् विज्ञातम् भवतीति*(मुण्ड.१-१-३) सर्वोपादानम् किमिति प्रश्नार्थः । *तस्मै स होवाच द्वे विद्ये वेदितव्ये इति ह स्म यद्ब्रह्मविदो वदन्ति*(मुण्ड.१-१-४) । अत्र प्राप्तुमित्यध्याहारः । अत्र यद्वस्तु प्राप्तुम् द्वे ज्ञाने उपादेये इति ह वेदाभिज्ञाः […]
अन्तर्याम्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अन्तर्याम्यधिकरणम् ॥४॥ *स्थानादिव्यपदेशाच्चे*(ब्र.सू.१-२-१४)तिसूत्रे *यश्चक्षुषि तिष्ठन्नि*(बृह.५-७-१८)त्यादिना उक्तम् चक्षुषि स्थितिनियमनादिकर्म परमात्मधर्म इति सिद्धव-त्कृत्वा अक्षिपुरुषस्य परमात्मधर्मत्वम् साधितम् । तदेवेदानीम् समर्थ्यत इति सङ्गतिः । अन्तर्यामिब्राह्मणमस्य विषयः । तत् सङ्गृहा लिख्यते – *अथ हैनमुद्दालक आरुणि: पप्रच्छ*(बृह-५-७-१) अरुणस्यापत्यमारुणिः *याज्ञवल्क्येति होवाच मद्रेष्ववसाम पतञ्जलस्य गृहेषु यज्ञमधीयानाः*(बृह-५-७-१) । *गृहाः पुम्सि च भूम्न्येव*(अमर […]
अन्तराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अन्तराधिकरणम् ॥३॥ एतदधिकरणचिन्तोपयुक्तम् प्रकरणमेव लिख्यते – *अथ हाग्नयस्समूदिरे तप्तो ब्रह्मचारी कुशलन्नः पर्यचारीत् हन्तास्मै ब्रह्मा-वोचामे*(छान्.४-१०-४)ति स्पष्टोऽर्थः । *तस्मै होचुः । प्राणो ब्रह्म कम् ब्रह्म खम् ब्रह्मेति । स होवाच विजानाम्यहम् यत् प्राणो ब्रह्म कञ्च तु खञ्च न विजानामीति* (छान्.४-१०-५) अस्यायमभिप्रायः मुमुक्षोर्मोक्षोपदेशाय प्रवृत्तैरग्निभिः ब्रह्मैवोपा- स्यमुपदिष्टम् […]
अत्त्रधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ अत्त्रधिकरणम् ॥२॥ कठवल्लीष्वाम्नायते – *यस्य ब्रह्म च क्षत्रञ्च उभे भवत ओदनः | मृत्युर्यस्योपसेचनम् क इत्था वेद यत्र सः*(कठ.१-२-२४) ब्रह्मक्षत्राख्यवर्णद्वयोपलक्षितकृत्स्नचराचरात्मकमिदम् जगत् यस्यौदनो भवति – विनाश्यम् भवतीत्यर्थः । यस्य मृत्युः स्वयमद्यमानत्वे सति अन्यस्या-दनहेतुर्भवति तत्प्रकारम् इदमित्थमिति को वेदेत्यर्थः । ननु ब्रह्मक्षत्रशब्देन कृत्स्नचराचरग्रहणे किम् बीजमिति चेत्, उच्यते – […]
सर्वत्रप्रसिद्ध्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाव प्रथमाध्यायस्य द्वितीयः पादः ॥ सर्वत्रप्रसिद्ध्यधिकरणम् ॥१॥ प्रथमे पादे समस्तप्रपञ्चविलक्षणपुरुषोत्तमाख्यवेदान्तवेद्यम् ब्रह्म एव जगत्कारणत्वम् प्रसाधितम् । तत्र जन्मादिसूत्रे ब्रह्म कारणमेव ब्रह्मैव कारणमिति अयोगान्ययोगव्यवच्छेदौ लक्षणस्य असम्भवातिव्याप्तिपरिहा- राय विवक्षितौ । तत्र अयोगव्यवच्छेदः प्रथमपादेन विवक्षितः । अन्ययोगव्यवच्छेदार्थस्त्रिपाद्यारम्भ इति विभागः । पूर्वपादे अस्पष्ट-जीवलिङ्गकानि विचारितानि। स्पष्टजीवलिङ्गानि द्वितीये, स्पष्टतरजीव-लिङ्गानि तृतीये, प्रधानच्छायानुसारीणि तुरीये, इति प्रायिकोऽयम् पादार्थ-विभागः । […]