द्युभ्वाद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् प्रथमाध्यायस्य तृतीयः पादः ॥ (पे–१) द्युभ्वाद्यधिकरणम् ॥१॥ *यस्मिन् द्यौः पृथिवी चान्तरिक्षमोतम् मनस्सह प्राणैश्च सर्वैस्तमेवैकम् जानथात्मानमन्या वाचो विमुञ्चथामृतस्यैष सेतुः*(मुण्ड.२-२-५) यस्मिन्नक्षरे द्युपृथिव्यन्तरिक्षमनः प्राणादिकम् समवेतम्, तमेकमेव स्वेतरसमस्तवस्तु- नियन्तृत्वेन व्यापकतया आत्मानम् जानीथ अनात्मविषया वाचस्सन्त्यजत । *अमृतस्यैष सेतुः*(मुण्ड.२-२-५) नद्यादिषु सेतुर्हि कूलस्य प्रतिलम्भकः, सम्सारार्णवपारभूतस्य अमृतस्यैष प्रतिलम्भक इत्यर्थः । *अरा इव रथनाभौ सम्हता यत्र नाड्यः स […]