उत्पत्त्यसम्भवाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: (पे-२) उत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥ ननु *न जायते म्रियत*(कठ.१-२-१८) इति श्रुतिप्रतिषिद्धा *वासुदेवात् सङ्कर्षणो नाम जीवो जायत*(परमसम्हिता) इति जीवस्योत्पत्तिः प्रति-पाद्यते । तथा *सङ्कर्षणात्प्रद्युम्रसञ्ज्ञम् मनो जायत*(परमसम्हिता) इति कर्तुर्जीवात्करणस्य मनस उत्पत्तिश्श्रूयमाणाऽपि न सम्भवति कर्तुर्जीवात् करणोत्पत्तेः *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे* (मुण्ड.१-१-३)ति मनसो ब्रह्मोत्पत्तिप्रतिपादकश्रुतिविरोधादिति । उत्पत्त्यसम्भवात् ॥ २-२-३९ ॥ न च […]
पशुपत्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: पशुपत्त्यधिकरणम् ॥ ७ ॥ सर्वज्ञपशुपतिप्रणीतत्वात्पशुपतिमतमादरणीयमिति पूर्वपक्षे प्राप्त उच्यते – पत्युरसामञ्जस्यात् ॥ २-२-३५ ॥ पत्युः पशुपतेर्मतमनादरणीयम् । वेदविरुद्धमुद्राष्ट्कधारणसुराकुम्भ-स्थापनशवभस्मस्नानादिधर्माणाम् निमित्तमात्रेश्वरस्य चाभ्युपगमेन तन्मतस्यासमञ्जसत्वात् । अधिष्ठानानुपपत्तेश्च ॥ २-२-३६ ॥ अवैदिकस्य तदभिमताशरीरेश्वरस्य प्रधानाधिष्ठातृत्वानुपपत्तेश्च । करणवच्चेन्न भोगादिभ्यः ॥ २-२-३७ ॥ यथा जीवस्य करणकळेबराधिष्ठाने करणकळेबरान्तरनैरपेक्ष्यम्, एवम् पशुपतेरपि प्रधानाद्यधिष्ठानेऽपि शरीरान्तरनैरपेक्ष्यमस्त्विति चेन्न । तर्हि तथैव […]
एकस्मिन्नसम्भवाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: एकस्मिन्नसम्भवाधिकरणम् ॥ ६ ॥ अथ जैनमतसदिति निराक्रियते । ते चैवम् मन्यन्ते – जीवाजीवास्रवसम्वरनिर्जरबन्धमोक्षा नाम सप्त पदार्थाः । बोधात्मको जीवः । जडवर्गस्त्वजीवः । इन्द्रियप्रवृत्तिरास्रवम् । शमदमादिरूपा प्रवृत्तिः सम्वरः । तप्तशिलारोहणम् निर्जरः । बन्धोऽष्ट-विधम् कर्म । तत्र घातिकर्म चतुर्विधम् । ज्ञानावरणीयम्, दर्शनावर-णीयम्, मोहनीयम्, आन्तरायिकमिति । तत्र सम्यग्ज्ञानान्न मोक्ष इति […]
सर्वथानुपपत्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥ लोके विज्ञानम् घटपटादयश्च सर्वे भावा न सन्ति कुतः? उत्पत्त्य-निरूपणात् । न च घटादिभावानामभावात्तावदुत्पत्तिस्सम्भवति । पिण्डादेरनुपमृदितात् स्वेन रूपेण घटाद्युत्पत्त्यदर्शनात् । नाप्यभावात् – अभावात्तावदुत्पद्यमानो घटादिरभाव एव स्यादिति माध्यमिकस्य सर्वशून्यवादस्सम्यगिवेति चेत्, अत्र भावाभावशब्दयोस्तद्बुध्योश्च प्रमाणेन उपलभ्यमानस्यैव वस्तुनोऽवस्थाविशेष एव विषयः । वर्तमानतयोप-लभ्यमानोऽवस्थाविशेषो भावबुद्धिविषयः तद्विरोध्यवस्थाविशेषोऽभाव-बुद्धिविषय इति उत्पत्त्यनिरूपणहेतुरसिद्ध इति दूषणम् […]
उपलब्ध्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: उपलब्ध्यधिकरणम् ॥ ४ ॥ ज्ञानमेव तत्वम् नान्यत्परमाणुसमुदायरूपम् तदारब्धावयविरूपम् किञ्चिदस्ति । परमाणूनाम प्रामाणिकत्वात् तेषाम् क्षणिकानाम् समुदायभावासम्भवात् परमाणुसम्योगस्य व्याप्यवृत्तित्वाव्याप्य वृत्तित्व-विकल्पदुस्थत्वेन अवयवेषु अवयविनः कृत्स्नैकदेशविकल्पदुस्स्थत्वेन च परस्परसम्युक्ता वयवतदाश्रितावयव्यसम्भवाच्च बाह्यर्थानामान्तरविज्ञान-सम्बन्धानिरूपणे तद्विषयत्वासम्भवाच्च सम्बन्धम् विना विषयत्वे सर्वविषयानामेकस्मिन्नेव ज्ञानेऽवभासप्रसङ्गात्। न च बाह्यार्थाभावे नीलपीतादिज्ञानानाम् निरालम्बनत्वापातः। ज्ञानानामेव नीलपीताद्या-कारत्वात् । नीलादिकम् ज्ञानाभिन्नम् ज्ञानोपलम्भव्याप्योपलम्भ-विषयत्वात् ज्ञानवत् व्याप्यत्वस्याभेदेऽपि सम्भवेन न […]
समुदायाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: समुदायाधिकरणम् ॥ ३ ॥ अतो वैनाशिकत्वपरमाणुकारणवादित्वसाम्यादेव काणादमतप्रतिक्षे-पानन्तरम् बौद्धमतम् प्रतिक्षिप्यते – समुदाय उभयहेतुकेऽपि तदप्राप्तिः ॥ २-२-१७ ॥ एवम् हि तेषाम् प्रक्रियाविभिन्नस्वभावैः परमाणुभिः पृथिव्यादिभूत-लक्षणस्सङ्घात उत्पद्यते, पृथिव्यादिभिश्च भूतैः शरीरेन्द्रियविषयसङ्घात-लक्षणसमुदाय उत्पद्यत इति । तत्राणुहेतुके पृथिव्यादिभूतात्मकसमुदा- योत्पत्तिर्नोपपद्यते । सर्वेषाम् क्षणिकत्वाभ्युपगमेन यावत्सङ्घातभावापत्ति अवस्थानासम्भवात् । इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न सङ्घातभावानिमित्तत्वात् ॥ २-२-१८ ॥ यद्यपि सर्वे […]
महद्दीर्घाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: महद्दीर्घाधिकरणम् ॥ २ ॥ काणादपक्षस्य युक्तियुक्ततया आदरणीयत्वमिति पूर्वपक्षे प्राप्त उच्यते – महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् ॥ २-२-१० ॥ महद्दीर्घवद्वेत्यादि-पारिमाण्डल्यपरिमाणाश्रयेणा परस्परयुक्तपरमाणु-ह्रस्वद्व्यणुकमुत्पद्यते । परस्परयुक्तेनाणुह्रस्वद्व्यणुकत्रयेण महद्दीर्घम् त्र्यणुकमुत्पद्यत इत्यसमञ्जसप्रक्रियावदितरापि तत्प्रक्रिया असमञ्जसैव । किम् तत्रासामञ्जस्यमिति चेत् – निष्प्रदेशे परमाणौ प्रादेशिक-सम्योगासम्भवात् सम्योगस्याव्याप्यवृत्तित्वनियमात् परस्परासम्युक्त-प्रदेशभेदा-भावेन ततोऽधिक परिमाणकार्यानुत्पत्तिप्रसङ्गात् । उभयथाऽपि न कर्मातस्तदभावः ॥ २-२-११ ॥ परमाणुष्वाद्यम् कर्मादृष्टकारितमिति तैरभ्युपगम्यते […]
रचनानुपपत्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: (पे-१) रचनानुपपत्त्यधिकरणम् ॥ १ ॥ रचनानुपपत्तेश्च नानुमानम् प्रवृत्तेश्च ॥ २-२-१ ॥ सत्वरजस्तमोमयसुखदुःखमोहात्मकम् जगत् तस्वरूपोपादानाकम् कार्यत्वादित्यनुमानसिद्धम् साङ्ख्याभिमतम् प्रधानम् न जगत्कारणम् । अनुमीयत इति व्युत्पत्त्या अनुमानशब्द आनुमानिकपरः । तादृशप्रधानस्य तत्स्वभावाभिज्ञचेतनानधिष्ठितत्वेन विचित्रप्रपञ्च-रचनासामर्थ्यानुपपत्तेः, तादृशचेतनाधिष्ठितस्यैव दार्वादेरचेतनस्य कार्य-प्रवृत्तेर्दर्शनाच्च न प्रधानम् जगत्कारणमित्यर्थः । पयोऽम्बुवच्चेत्तत्रापि ॥ २-२-२ ॥ ननु, पयसश्चेतनानधिष्ठितस्यापि दधिभावेन परिणामवद्वारिदमुक्त-जलस्य नाळिकेररसाद्यात्मना परिणामवच्चेतनानधिष्ठितस्यापि प्रधानस्य […]