कर्त्रधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः कर्त्रधिकरणम् ॥ ५ ॥    जीवो न कर्ता तस्यानाधेयातिशयत्वेन आत्मनि कृतेरसम्भवात् । *असङ्गो ह्ययम् पुरुष*(बृ.उ.६-३-१५) इति श्रुत्या असङ्गत्वावगमेन कृतिनिमित्तसम्योगाद्यभावाच्च । *हन्ता चेन्मन्यते हन्तुम् हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतो नायम् हन्ति न हन्यत*(कठ.१-२-१९) इति आन्मनः कर्तृत्वस्य *प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः । अहङ्कारविमूढात्मा कर्ताऽहमिति […]

ज्ञाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः ज्ञाधिकरणम् ॥ ४ ॥ *यो विज्ञाने तिष्ठन्*(बृह.५-७-२२) *विज्ञानम् यज्ञम् तनुते*(तै.आन. ५-अनु) *ज्ञानस्वरूपमत्यन्तनिर्मलम् परमार्थत*(वि.पु.१-२-६) इति श्रुतिस्मृतिभिर्ज्ञानस्वरूपत्वस्यैवात्मनः प्रतीतेः न ज्ञाता । अथवा *अथ यो वेदेदम् जिघ्राणीति स आत्मा*(बृह.५-७-२२), *एष हि द्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुष*(प्रश्न.४-९) इति श्रवणात् *अहम् जानाम्यहमज्ञासिषमि*त्याद्यनुभावाच्चागन्तुकज्ञानाश्रय एव न स्वयम् ज्ञानरूपः […]

आत्माऽधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः (पे.२) आत्माऽधिकरणम् ॥ ३ ॥      यथा *वायुश्चान्तरिक्षम् चैतदमृतमि*(बृह.४-३-३)ति वाय्वन्तरिक्ष-योर्नित्यत्वश्रवणेऽपि *तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः*(तै. आन.१-अनु) *आकाशाद्वायुरि*(तै.आन.१-अनु)ति च तयोरुत्पत्तिश्रवणेन तदेकविज्ञानेन सर्वविज्ञानसिध्यर्थम् च सर्ववस्तुनो ब्रह्मविकारत्वस्य अवश्याश्रयणीयत्वादुत्पत्तिरङ्गीक्रियते, एवम् जीवानाम् नित्यत्वश्रवणेऽपि *तोयेन जीवान् व्यससर्ज भूम्याम्*(तै.महाना.१-४) *प्रजापतिः प्रजा असृजते*(तै.यजुः २-१-२)ति जीवानामपि सृष्टिश्रवणात् एकविज्ञानेन सर्वविज्ञानसिध्यर्थम् च जीवस्यापि सृष्टिरभ्युपगन्तव्येति पूर्वपक्षे प्राप्त उच्यते – […]

तेजोधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः तेजोधिकरणम् ॥ २ ॥ तेजोऽतस्तथाह्याह ॥ २-३-१० ॥     *वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी*(तै.आन.१.अनु)त्यादौ वायुरूपाद्ब्रह्मणः अग्निरुत्पद्यते उत केवलवायोरेवेति विशये, अतः केवलवायोरेव तेज उत्पद्यते । *वायोरग्निरि*(तै.आन.१.अनु)ति श्रुतिराह । आपः ॥ २-३-११ ॥ आपस्तेजस एवोत्पद्यन्ते । *अग्नेराप*(तै.आन.१.अनु) इति श्रुतिराह – पृथिवी ॥ २-३-१२ ॥ पृथिव्यद्भय एवोत्पद्यते । *अद्भयः […]

वियदधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य तृतीयः पादः (पे- १) वियदधिकरणम् ॥ १ ॥ न वियदश्रुतेः ॥ २-३-१ ॥     छान्दोग्ये *तत्तेजोऽसृजते*(छान्.६-२-३)ति तेजस एव प्रथमत-स्सृष्ट्यभिधानात् आकाशोत्पत्तेर श्रुतेराकाशो नोत्पद्यत इति पूर्वपक्षे प्राप्त उच्यते – अस्तितु ॥२-३-२॥ आकाशस्याप्युत्पत्तिरस्त्येव । तैत्तिरीयके *आत्मन आकाशस्सम्भूत* (तै.आन.२ अनु)  इति उत्पत्तेः – श्रवणात् । पुनश्चोदयति – गौण्यसम्भवाच्छब्दाच्च ॥ २-३-३ ॥ […]

उत्पत्त्यसम्भवाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: (पे-२) उत्पत्त्यसम्भवाधिकरणम् ॥ ८ ॥   ननु *न जायते म्रियत*(कठ.१-२-१८) इति श्रुतिप्रतिषिद्धा *वासुदेवात् सङ्कर्षणो नाम जीवो जायत*(परमसम्हिता) इति जीवस्योत्पत्तिः प्रति-पाद्यते । तथा *सङ्कर्षणात्प्रद्युम्रसञ्ज्ञम् मनो जायत*(परमसम्हिता) इति कर्तुर्जीवात्करणस्य मनस उत्पत्तिश्श्रूयमाणाऽपि न सम्भवति कर्तुर्जीवात् करणोत्पत्तेः *एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि चे* (मुण्ड.१-१-३)ति मनसो ब्रह्मोत्पत्तिप्रतिपादकश्रुतिविरोधादिति । उत्पत्त्यसम्भवात् ॥ २-२-३९ ॥ न च […]

पशुपत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: पशुपत्त्यधिकरणम् ॥ ७ ॥    सर्वज्ञपशुपतिप्रणीतत्वात्पशुपतिमतमादरणीयमिति पूर्वपक्षे प्राप्त उच्यते – पत्युरसामञ्जस्यात् ॥ २-२-३५ ॥ पत्युः पशुपतेर्मतमनादरणीयम् । वेदविरुद्धमुद्राष्ट्कधारणसुराकुम्भ-स्थापनशवभस्मस्नानादिधर्माणाम् निमित्तमात्रेश्वरस्य चाभ्युपगमेन तन्मतस्यासमञ्जसत्वात् । अधिष्ठानानुपपत्तेश्च ॥ २-२-३६ ॥ अवैदिकस्य तदभिमताशरीरेश्वरस्य प्रधानाधिष्ठातृत्वानुपपत्तेश्च । करणवच्चेन्न भोगादिभ्यः ॥ २-२-३७ ॥ यथा जीवस्य करणकळेबराधिष्ठाने करणकळेबरान्तरनैरपेक्ष्यम्, एवम् पशुपतेरपि प्रधानाद्यधिष्ठानेऽपि शरीरान्तरनैरपेक्ष्यमस्त्विति चेन्न । तर्हि  तथैव […]

एकस्मिन्नसम्भवाधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: एकस्मिन्नसम्भवाधिकरणम् ॥ ६ ॥    अथ जैनमतसदिति निराक्रियते । ते चैवम् मन्यन्ते – जीवाजीवास्रवसम्वरनिर्जरबन्धमोक्षा नाम सप्त पदार्थाः । बोधात्मको जीवः । जडवर्गस्त्वजीवः । इन्द्रियप्रवृत्तिरास्रवम् । शमदमादिरूपा प्रवृत्तिः सम्वरः । तप्तशिलारोहणम् निर्जरः । बन्धोऽष्ट-विधम् कर्म । तत्र घातिकर्म चतुर्विधम् । ज्ञानावरणीयम्, दर्शनावर-णीयम्, मोहनीयम्, आन्तरायिकमिति । तत्र सम्यग्ज्ञानान्न मोक्ष इति […]

सर्वथानुपपत्त्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: सर्वथानुपपत्त्यधिकरणम् ॥ ५ ॥     लोके विज्ञानम् घटपटादयश्च सर्वे भावा न सन्ति कुतः? उत्पत्त्य-निरूपणात् । न च घटादिभावानामभावात्तावदुत्पत्तिस्सम्भवति । पिण्डादेरनुपमृदितात् स्वेन रूपेण घटाद्युत्पत्त्यदर्शनात् । नाप्यभावात् – अभावात्तावदुत्पद्यमानो घटादिरभाव एव स्यादिति माध्यमिकस्य सर्वशून्यवादस्सम्यगिवेति चेत्, अत्र भावाभावशब्दयोस्तद्बुध्योश्च प्रमाणेन उपलभ्यमानस्यैव वस्तुनोऽवस्थाविशेष एव विषयः । वर्तमानतयोप-लभ्यमानोऽवस्थाविशेषो भावबुद्धिविषयः तद्विरोध्यवस्थाविशेषोऽभाव-बुद्धिविषय इति उत्पत्त्यनिरूपणहेतुरसिद्ध इति दूषणम् […]

उपलब्ध्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य द्वितीय: पाद: उपलब्ध्यधिकरणम् ॥ ४ ॥    ज्ञानमेव तत्वम् नान्यत्परमाणुसमुदायरूपम् तदारब्धावयविरूपम् किञ्चिदस्ति । परमाणूनाम प्रामाणिकत्वात् तेषाम् क्षणिकानाम् समुदायभावासम्भवात् परमाणुसम्योगस्य व्याप्यवृत्तित्वाव्याप्य वृत्तित्व-विकल्पदुस्थत्वेन अवयवेषु अवयविनः कृत्स्नैकदेशविकल्पदुस्स्थत्वेन च परस्परसम्युक्ता वयवतदाश्रितावयव्यसम्भवाच्च बाह्यर्थानामान्तरविज्ञान-सम्बन्धानिरूपणे तद्विषयत्वासम्भवाच्च सम्बन्धम् विना विषयत्वे सर्वविषयानामेकस्मिन्नेव ज्ञानेऽवभासप्रसङ्गात्। न च बाह्यार्थाभावे नीलपीतादिज्ञानानाम् निरालम्बनत्वापातः। ज्ञानानामेव नीलपीताद्या-कारत्वात् । नीलादिकम् ज्ञानाभिन्नम् ज्ञानोपलम्भव्याप्योपलम्भ-विषयत्वात् ज्ञानवत् व्याप्यत्वस्याभेदेऽपि सम्भवेन न […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.