विलक्षणत्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ विलक्षणत्वाधिकरणम् ॥३॥ मन्वादिस्मृतिभिरेवोपबृम्हणम् कार्यमित्युक्तमयुक्तम् तासाम् तर्क विरुद्धत्वात्। अतस्तर्कानुगृहीतया साङ्ख्यस्मृत्यैवोपबृम्हणम् कार्यमिति प्रत्यवस्थानात्सङ्गतिः। न विलक्षणत्वादस्य तथात्वम् च शब्दात् ॥२–१–४॥ ब्रह्मणो जगद्विलक्षणत्वेनोपादानत्वम् न सम्भवति। घटरुचकादिषु सलक्षणानामेव मृत्सुवर्णादीनामुपादानत्वम् दृष्टम्। प्रकृते च ब्रह्मजगतो-र्विलक्षणत्वम् *विज्ञानञ्चाविज्ञानञ्चे*( तै.आन.६-३)ति विज्ञानत्व-प्रतिपादकशब्दादेवावगम्यते ननु जगतोऽचेतनत्वेन *तम् पृथिव्यब्रवीदि*(तै.यजुः सम्.५-५-२) ति अचेतनाया मृदो वक्तृत्वम् नोपपद्यते तत्राह – अभिमानिव्यपदेशस्तु […]
योगप्रत्युक्त्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयाध्यायस्य प्रथम पादः ॥ योगप्रत्युक्त्यधिकरणम् ॥२॥ अत्रापि विषयसम्शयपूर्वपक्षसिद्धान्तहेतवः पूर्ववद्द्रष्टव्याः। हिरण्यगर्भस्य भ्रमासम्भवात् तत्कृतशास्त्रस्येश्वराभ्युपगमेन श्वेताश्वत-रोपनिषदाद्युक्त योगानुष्ठानवर्णनेन च कपिलादि स्मृतिवैलक्षण्येन च वेदान्तान्तरङ्गत्वात्तेनोपबृह्मणम् कार्यमित्यधिकाशङ्का। ईश्वराधिष्ठित – प्रधानकारणतया च ब्रह्मकारणत्वमपि युक्तमित्ये-तदयुक्तम्। हिरण्यगर्भस्यापि क्षेत्रज्ञत्वेन भ्रमसम्भवात् तत्कृतशास्त्रा-स्यापि भ्रममूलत्वसम्भवादब्रह्मात्मकप्रधानकारणवादस्य निमित्तमात्रे-श्वरस्याभ्युपगमाद्वेदान्तोदितध्येयापेक्षया विलक्षणध्येयविधानाच्च विरुद्धत्वेन न हिरण्यगर्भस्मृतिरनुरोद्धव्येति परिहारश्च द्रष्टव्यः। एतेन योगः प्रत्युक्तः ॥२–१–३॥ एतेन निमित्तोपादानभेदनिराकरणेनैव हिरण्यगर्भमतमनादर-णीयमिति सूत्रार्थः ॥ […]
स्मृत्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् द्वितीयोऽद्ध्यायः ॥ द्वितीयाध्यायस्य प्रथम पादः ॥ स्मृत्यधिकरणम् ॥१॥ स्मृतयनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥२–१–१॥ अतीतपञ्चत्रिम्शदधिकरणन्यायातिदेशरूपत्वात्सङ्गतिः। पूर्वस्मिन्नध्याये सर्वज्ञम् सत्यसङ्कल्पम् ब्रह्मैव जगतो निमित्त-मुपादानकारणम् चेति श्रुतयः प्रतिपादयन्तीत्युक्तम्। तत्र सम्भावितसर्व-विधविरोधसमाधानेन तदेव स्थिरीकर्तुम् द्वितीयाध्याय आरभ्यते। तत्र प्रथमाधिकरणे साङ्ख्यस्मृतिविरोधेन वेदान्तानामन्यपरत्वाशङ्का निरा- क्रियते। ननु स्मृतिविरोधे श्रुतेरान्यपर्यशङ्का निरालम्बना, पूर्वतन्त्रे औदुम्बरीसर्वस्पर्शनस्मृत्या श्रुतेरन्यपरत्वस्य निरस्तत्वादिति चेन्न। वेदान्तानामतिगहननानाप्रकाराणाम् स्फुटार्थानामपि वेदार्थोऽयम् स्वयम् ज्ञातस्तत्राज्ञानम् […]