फलाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः फलाधिकरणम् ॥ ८ ॥ ऐहिकामुष्मिकम् शास्त्रीयम् फलम् कर्मण एव स्यात् तस्य फल-साधनत्वश्रवणादिति पूर्वपक्षे प्राप्तेऽभिधीयते – फलमत उपपत्तेः ॥३-२-३७॥ कर्मभिराराधितादस्मादेव परमपुरुषात्फलम् । सर्वज्ञस्य सर्वशक्तेः ब्रह्मणस्सेवाराधितराजवत्फलप्रदत्वोपपत्तेः । श्रुतत्वाच्च ॥ ३-२-३८ ॥ स वा एष महानज आत्माऽन्नादो वसुदान*(बृह.६-४-२४) इति तस्यैव फलप्रदत्वस्य श्रुतत्वात् । पूर्वपक्षमाह – धर्मम् जैमिनिरत […]
पराधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः पराधिकरणम् ॥७॥ परमतस्सेतून्मानसम्बन्धभेदव्यपदेशेभ्यः ॥ ३-२-३० ॥ वेदान्ते जगत्कारणतया प्रतिपाद्यमानस्यात्मनः *अथ य आत्मा स सेतुर्विधृतिरि*(छान्.८-४-१)ति सेतुत्वश्रवणात् सेतोश्च प्राप्यान्तरप्रापक-त्वस्यैव दर्शनेन ब्रह्मणोऽपि प्राप्यान्तरप्रापकता प्रतीयते न तु स्वयम्प्रा-प्यता । किञ्च *एतम् सेतुम् तीर्त्वे*(छान्.८-४-१)ति तरितव्यत्वाभि-धानेन एतस्य प्राप्यत्वाभावाविष्करणात् वेदान्तेषु *चतुष्पात् ब्रह्म* (छान्.३-१८-१) *षोडशकलमि*(प्रश्न.६-१)त्युन्मानश्रवणान्नेदमपरिमितम् अपरिमितस्योन्मानासम्भवात् । अतो वेदान्तेषु अपरिमितत्वेन प्रतीय-मानमन्यदेवेति प्रतीयते […]
अहिकुण्डलाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः अहिकुण्डलाधिकरणम् ॥ ६ ॥ उभयव्यपदेशात्त्वहिकुण्डलवत् ॥ ३-२-२६ ॥ *द्वे वाव ब्रह्मणो रूपे*(बृह.४-३-१)इत्यादिनोक्तमचिद्वस्तुनो ब्रह्मरूपत्वम् किम् ब्रह्मस्वरूपस्यैवाचिद्रूपेण परिणामाद्भवति उत परस्मिन् ब्रह्मणि अचिद्वस्तुनि च एकजातियोगात् उत जीववद्ब्रह्मशरीरतया ब्रह्मविशेषण-त्वेनेति सम्शयः । भिन्नाभिन्नत्वरूपोभयव्यपदेशोपपत्तये ब्रह्मैवाचिद्रूपेण परिणमत इति प्रथमःपक्षः । तथा सति ब्रह्मणो निर्दोषता बाध्यत इति एकजातियोगेनेति द्वितीयः पक्षः । एवम् सति *आत्मैवेदम् […]
उभयलिङ्गाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः (पे-२) उभयलिङ्गाधिकरणम् ॥५॥ सम्सारिजीवस्येव ब्रह्मणोऽपि मनुष्यादिदेहान्तरवस्थित्या तत्प्रयुक्त-सुखदुःखभोक्तृत्वमपि प्रसजेत् । यद्यपि परमात्मनो देहान्तरावस्थिति-प्रयुक्तभोक्तृत्वमाशङ्क्य परितो दह्यमानगृहान्तर्वर्तित्वे देवदत्तयज्ञदत्तयोर-विशिष्टेऽपि तत्स्वामिनस्तदभिमानिनो देवदत्तस्येव यज्ञदत्तस्य तत्कृत-दुःखादर्शनवत् देहान्तर्वर्तित्वे जीवपरयोरविशिष्टेऽपि *तयोरन्यः पिप्पलम् स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीती*(मुण्ड.३-१-१)ति श्रुत्यनुसारेण देहाभिमानिजीववन्न परस्य भोक्तृत्वमिति *सम्भोगप्राप्तिरिति चेन्न वैशेष्यादि*(ब्र.सू.१-२-८)ति सूत्रे स्थितम् । तथा स्मृतिपादेऽपि सर्व-स्यापि परमात्मशरीरतया शरीरम् प्रति स्वामित्वमपि परमात्मनो-ऽस्तीति मनुष्यादिशरीरस्वामिनस्तदन्तर्वर्तिनः […]
मुग्धधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः मुग्धधिकरणम् ॥४॥ जाग्रत्स्वप्नसुषुप्तिानामन्यतमो मोह इति पूर्वपक्षे प्राप्त उच्यते – मुग्धेऽर्धसम्पत्तिः परिशेषात् ॥ ३-२-१० ॥ न तावन्मुग्धो जागरितावस्थो भवितुमर्हति इन्द्रियैर्विषयानिरीक्षणात् । नापि स्वप्नान् पश्यति निस्सञ्ज्ञत्वात् । नापि मृतः तस्य प्राणो-ष्मणोरभावात् । न च सुषुप्तः तद्वैलक्षण्यात् । सुप्तो हि प्रसन्नवदनो निमीलितनेत्रश्च । तस्मान्मोहो नाम मृतेरर्धसम्पत्तिः अर्धमृतिरिति […]
कर्मानुस्मृतिशब्दविध्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः कर्मानुस्मृतिशब्दविध्यधिकरणम् ॥३॥ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥३-२-९॥ सुप्तस्य मुक्ताविषयतया ब्रह्मणि लीनस्य पुनर्देहसम्बन्धाभावादन्य एवोत्तिष्ठति सुप्तिरहितपुरुषेषु वैदिककर्मणाञ्च साफल्यम् भविष्यतीति प्राप्त उच्यते – स एव तु – स एवोत्तिष्ठति । कुतः? कर्मानुस्मृतिशब्द-विधिभ्यः । सुप्तेः प्राकृतम् कर्म तेनैव भोक्तव्यम् । अन्यथा कृतहानादि-प्रसङ्गात् । *योऽहम् सुप्तस्सोऽहम् जागर्मी*ति अनुस्मृते: *त इह […]
तदभावाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः तदभावाधिकरणम् ॥ २ ॥ *तद्यत्रैतत्सुप्तस्समस्तस्सम्प्रसन्नः किञ्चिन्न विजानाति आसु तदा नाडीषु सृप्तो भवति ताभिः प्रत्यवसृप्य पुरीतति शेते*(छान्.८-६-३) *य एषोऽन्तर्हृदय आकाशस्तस्मिन् शेते*(बृह.४-१-१७, बृह.४-४-२२) इति नाडीपुरीतद्ब्रह्मणाम् सुषुप्तिस्थानत्वश्रवणात् समुच्चये सप्तम्यवगत-निरपेक्षाधारत्वप्रतीतिभङ्गप्रसङ्गात् युगपदनेकस्थानवृत्त्यसम्भवाच्च विकल्प इति पूर्वपक्षे प्राप्त उच्यते – तदभावो नाडीषु तच्छ्रुतेरात्मनि च ॥ ३-२-७ ॥ तदभाव: पूर्वनिर्दिष्टस्वप्नाभाव: सुषुप्तिरिति यावत् […]
सन्ध्याधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्री शारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य द्वितीयः पादः सन्ध्याधिकरणम् ॥१॥ सन्ध्ये सृष्टिराह हि ॥ ३-२-१ ॥ *न तत्र रथा न रथयोगा*(बृह.६-३-१०) इति वाक्ये सन्ध्ये स्वप्न-स्थाने जीवकर्तृकैव सृष्टिराम्नायते । *स हि कर्ते*(बृह.६-३-१०)ति स्वप्नदृशम् प्राक् प्रस्तुतम् जीवमेव स इति शब्देन परामृश्य तस्य कर्तृत्वम् श्रुतिराह हि । निर्मातारञ्चैके पुत्रादयश्च ॥ ३-२-२ ॥ एके […]