सर्वापेक्षाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ सर्वापेक्षाधिकरणम् ॥ ५ ॥ यदि ब्रह्मविद्या यज्ञाद्यनपेक्षा तदा गृहस्थेष्वपि सा अग्नीन्धना-द्यनपेक्षैव । न च विविदिषा वाक्यात् यज्ञादीनाम् तादर्थ्यप्रतीतिरिति वाच्यम् । तेनैव वाक्येन यज्ञादीनाम् विविदिषार्थत्वोपलम्भेऽपि विद्यार्थत्वाप्रतीतेरिति पूर्वपक्षे प्राप्त उच्यते । सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३-४-२६ ॥ सिद्धान्तस्तु – यथा गमनसाधनभूतोऽश्वः परिकरबन्धसापेक्षः तथा गृहस्थेषु विद्या यज्ञादिसर्वकर्मापेक्षैव […]
आग्नीन्धनाद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ आग्नीन्धनाद्यधिकरणम् ॥ ४ ॥ ऊर्ध्वरेतसः यज्ञाद्यभावात् तदङ्गिका विद्या न सम्भवतीति पूर्वपक्षे प्राप्त उच्यते – अत एव चाग्नीन्धनाद्यनपेक्षा ॥३-४-२५॥ *एतमेव प्रव्राजिनो लोकमिच्छन्तः प्रव्रजन्ति*(बृह.६-४-२२) *यदिच्छन्तो ब्रह्मचर्यञ्चरन्ति*(कठ.१-२-१५) *ये चेमेऽरण्ये श्रद्धाम् तप इत्युपासते*(छान्.५-१०-१) इति वाक्यैः ऊर्ध्वरेतस्सु ब्रह्मविद्यायाः प्रमाण-प्रतिपन्नत्वात् तेषु ब्रह्मविद्या अग्नयाधानलक्षणाग्निपूर्वकाग्निहोत्राद्यन-पेक्षैव । इति अग्नीन्धनाद्यधिकरणम् ॥
पारिप्लवाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ पारिप्लवाधिकरणम् ॥ ३ ॥ पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ३-४-२३ ॥ वाजसनेयके – *अथ ह याज्ञवल्क्यस्य द्वे भार्ये बभूवतुरि*(बृह.६-५-२)त्याद्याख्यानानाम् *सर्वाण्याख्यानानि पारिप्लवे शम्सन्ती* ति अश्वमेधगतपारिप्लवनामकशम्सने विनियुक्तत्वात् पारिप्लवार्थान्या ख्यानानि न तु विद्योपयोगीनीति चेन्न – विशेषितत्वात् । न सर्वाण्या-ख्यानानि पारिप्लवार्थानि भवितुमर्हन्ति । *सर्वाण्याख्यानानि पारिप्लवे शम्सन्ती*ति विधाय *मनुर्वैवम्वतो […]
स्तुतिमात्राधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ स्तुतिमात्राधिकरणम् ॥२॥ स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ३-४-२१ ॥ *स एष रसानाम् रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथ* (छान्.१-१-३)इति वाक्यानि क्रत्ववयवोद्गीथादिस्तुतिमात्रपराणि वा उद्गीथादिषु रसतमत्वादिदृष्टिविधायकानि वेति चिन्तायाम् क्रत्वङ्गभूतोद्गीथादि-ग्रहणपूर्वकम् रसतमत्वकथनात् *इयमेव जुहूः स्वर्गो लोक आहवनीय* इत्यस्य जुह्वादीनाम् पृथिव्यादित्वप्रतिपादकस्य स्तुतिपरत्ववत् *स एष रसानाम् रसतम*(छान्.१-१-३) इति वाक्यस्यापि स्तुतिमात्र-परत्वमिति चेन्न अपूर्वत्वात् – अप्राप्तत्वात् । […]
पुरुषार्थाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥ पुरुषार्थाधिकरणम् ॥ १ ॥ पुरुषार्थोऽतश्शब्दादिति बादरायणः ॥ ३-४-१ ॥ गुणोपसम्हारानुपसम्हारसिद्धिहेतुभूता विद्यैकत्वनानात्वचिन्ता कृता । इदानीम् कर्माङ्गिकया विद्यया पुरुषार्थो वा, विद्याङ्गकात्कर्मण इति वेति चिन्तायाम् *ब्रह्मविदाप्नोति परम्*(तै.आन.१ अनु) *तमेवम् विद्वानमृत इह भवती*(पुरुषसूक्तम्)त्यादिश्रुतिभिः विद्ययैव पुरुषार्थ इति बादरायण आचार्यो मन्यते । अथ पूर्वपक्षिमतम् – शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥ ३-४-२ […]
यथाश्रयभावाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ यथाश्रयभावाधिकरणम् ॥२६॥ अङ्गेषु यथाश्रयभावः ॥ ३-३-५९ ॥ अङ्गेष्वाश्रितानामुपासनानाम् क्रतोर्बहिःप्रयोगासम्भवेनाश्रयतन्त्र-त्वस्य वक्तव्यतया प्रयोगवचनेनाश्रयाणामुद्गीथादीनाम् समुच्चयनियमे-नाश्रितानामपि समुच्चयनियमो युक्तः । इतरथा तदाश्रितत्वानुपपत्ते-रित्यर्थः । शिष्टेश्च ॥ ३-३-६० ॥ *गोदोहनेन पशुकामस्य प्रणयेदि*(आप श्रौत.दर्शे)तिवदधिकारान्त- राश्रवणेव *उद्गीथमुपासीते*(छान्.१-१-१)त्युद्गीथाङ्गतयोपासनविधानाच्च नियमेनोपासनोपादेया । न च वीर्यवत्तरत्वरूपफलार्थत्वस्य *तन्निर्धार-णानियम*(ब्र.सू.३-२-४१) इत्यत्रोक्तत्वात्कथम् तस्योद्गीथङ्गत्वमिति वाच्यम् । *उद्गीथमुपासीते*(छान्.१-१-१)ति वाक्योनोपासनस्योद्गीथ-रूपाश्रयसम्बन्धे वीर्यवत्तरत्वरूपफलसम्बन्धे च बोध्यमाने वाक्यभेद-प्रसङ्गात् । […]
विकल्पाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ विकल्पाधिकरणम् ॥ २५ ॥ सद्विद्यादीनाम् ब्रह्मप्राप्तिफलकानामेकस्मिन् पुरुषे समुच्चयो वा विकल्पो वेति सम्शये अग्निहोत्रदर्शपूर्णमासादीनाम् स्वर्गैकफलानाम् भूयस्त्वापेक्षया यथैकस्मिन्नधिकारिणि समुच्चयः तथा एकस्मिन्नेव पुरुषे ब्रह्मानुभवभूयस्त्वापेक्षया समुच्चयस्स्यादिति पूर्वपक्षे प्राप्त उच्यते – विकल्पोऽविशिष्टफलत्वात् ॥३-३-५७॥ तासाम् विद्यानाम् विकल्प एव । ब्रह्मानुभवविरोध्यनाद्यविद्याकर्म-निरसनपूर्वकानवधिकातिशयानन्द ब्रह्मानुभवरूपफलस्य सर्वविद्यासाधा-रण्यात् विकल्प एव । काम्यास्तु यथाकामम् समुच्चीयेरन्न वा पूर्वहेत्वभावात् […]
शब्दाभेदाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ शब्दाभेदाधिकरणम् ॥२४॥ नानाशाखागतानाम् मोक्षैकफलानाम् सद्विद्याभूमविद्यादीनाम् किमेक-विद्यात्वम् उत विद्याभेद इति सम्शये सर्वासु विद्यासु वेद्यस्य ब्रह्मण एकत्वेन रूपभेदाभावात् विद्यैक्यमिति पूर्वपक्षे प्राप्त उच्यते – नाना शब्दादिभेदात् ॥ ३-३-५६ ॥ विद्याः परस्परम् विभिन्ना एव पूर्वकाण्डोदितशब्दान्तराभ्यासादि-विधेयभेदापादकहेतुसद्भावात् । यद्यपि वेद उपसीतेत्यादि शब्दानाम् पर्यायत्वेनाविच्छिन्नस्मृतिसन्ततिरूपैकार्थबोधकत्वात् तादृशस्मृतीनाम् च ब्रह्मैकविषयत्वम् तथापि तत्तद्विद्याप्रकरणप्रतिपादितजगदेककारणत्वा-पहतपाप्मत्वादिविभिन्नविशेषणविशिष्टब्रह्मविषयप्रत्ययावृत्तिबोधकत्वेन विद्यानाम् […]
भूमज्यायस्त्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ भूमज्यायस्त्वाधिकरणम् ॥ २३ ॥ छान्दोग्ये वैश्वानरविद्यायाम् द्युमूर्धादिव्यस्तोपासनेषु औपमन्यवादि-भिरुक्तेषु *अत्यन्नम् पश्यति प्रियम् भवत्यस्य ब्रह्मवर्चसम् कुले य एते वैश्वानरमुपास्त*(छान्.५-१२-२) इति व्यस्तोपासनेषु फलश्रवणाद्व्यस्तो-पासनमेव प्रामाणिकम् । *यस्त्वेतमेवम् प्रादेशमात्रमभिविमानमात्मानम् वैश्वानरमुपास्ते स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मस्वन्नमत्ती* (छान्.५-१८-१)ति व्यस्तोपासनसमुदायानुवाद एव । न तु समस्तो-पासनविधिः । अथवा अनेन वाक्येन समस्तोपासनमपि विधीयते […]
अङ्गावबद्धाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ अङ्गावबद्धाधिकरणम् ॥ २२ ॥ *ओमित्येतदक्षरमुद्गीथमुपासीते*(छान्.१-१-१)त्यादौ निर्विशेष-सामान्येन व्यवहारासम्भवाद्विशेषाकाङ्क्षायाम् तत्तच्छाखागतानामेवो- द्गीथव्यक्तीनाम् सन्निहितत्वात् तन्मात्रविषयत्वमेव उद्गीथश्रुतेर्युक्तम् । ततश्च ताण्डिशाखागतरसतमत्वकामाप्तिहिरण्मयपुरुषाकाशादिदृष्टि-विशिष्टोपासने ताण्डिशाखागतोद्गीथव्यक्तेरेव क्रतुमध्यप्रयुक्ताया उपास्यत्वम् न तु शाखान्तरगतोद्गीथव्यक्तेः । न च सर्वशाखा गतोद्गीथा-नामैक्यम् शङ्क्यम् स्वरादिभेदेन उद्गीथव्यक्तीनाम् भिन्नत्वात् । न चोद्गीथश्रुतेस्सङ्कोचलक्षण बाधप्रसङ्ग इति वाच्यम् । शुक्लपटमान-येत्यादौ पटशब्दस्य व्यक्तिविशेषार्थकत्वेऽपि *जातिव्यक्ती गृहीत्वेह वयन्तु श्रुतलक्षिते […]