हान्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ हान्यधिकरणम् ॥ ११ ॥ छन्दोगा: *धूत्वा शरीरमि*(छान्.८-१३-२)ति पुण्यपापयोर्हानिम्, शाट्यायनिनः *सुहृदस्साधुकृत्याम्*(शप्यायिनः अथर्वणिकाः) इत्यादिना प्रियाप्रियेषु सङ्क्रमणम्, कौषीतकिनः *तत्सुकृतदुष्कृते धूनुते*(कौषी.२-४) इत्यादिना पुण्यपापयोर्हानिसङ्क्रमणे च प्रतिपादयन्ति । हान्युपाय-नोभयचिन्तनानाम् किम् वैकल्पिकत्वम् उत समुच्चय इति सम्शये पृथगाम्नानात् समुच्चयाङ्गीकारे तस्य कौषीतकिवाक्यसिद्धत्वेन शाखा-न्तराम्नानवैयर्थ्यप्रसङ्गाच्च वैकल्पिकत्वमेव । न चानेकशाखापाठस्या-ध्येतृभेदेन परिहरणीयता अविशेषपुनश्श्रवणाभावादिति पूर्वपक्षे प्राप्त उच्यते – […]
वेधाद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ वेधाद्यधिकरणम् ॥ १० ॥ आथर्वणिकादीनाम् तत्तदुपनिषदारम्भे पठितानाम् *शुक्रम् प्रविध्ये* (आथर्वणिकाः)त्यादीनाम् मन्त्राणाम् *देवासुराह ह वै सत्रम् निषेदुः* (छान्.१-२-१)इत्यादि बृहदारण्यकारम्भपठितब्राह्मणप्रतिपादितप्रवर्ग्यादेश्च कर्मणो लिङ्गादिबलेन अन्यत्र विनियुक्तत्वेऽपि विद्यासन्निधिपाठानर्थ-क्यपरिहाराय विद्यार्थत्वमिति प्राप्त उच्यते – वेधाद्यर्थभेदात् ॥३-३-२५॥ सन्निधिपाठस्य दिवाकीर्त्यत्वारण्यपाठ्यत्वादिकार्यार्थतयाप्युपपत्तेः बलवद्भिर्लिङ्गादिभिः अभिचाराध्ययनज्योतिष्टोमाद्यर्थत्वावसायात् मन्त्रप्रतिपाद्यस्य वेधाद्यर्थस्य विद्यार्थत्वाभावेन विद्यार्थाद्भेदात् न तत्प्रकाशनद्वारा विद्याशेषत्वम् अपि त्वभिचारादिशेषत्वमिति सिद्धान्तः । […]
पुरुषविद्याधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ पुरुषविद्याधिकरणम् ॥ ९ ॥ *तस्यैवम् विदुषो यज्ञस्यात्मा यजमान*(तै.महाना.५२ अनु) इति श्रुतायाः पुरुषविद्याया: *पुरुषो वा व यज्ञ*(छान्.३-१५-१) इति छान्दोग्यश्रुता पुरुषविद्या न भिन्ना पुरुषविद्येति समाख्यैक्यात् पुरुष-सन्बन्धिषु यज्ञावयवत्वकल्पनासामान्यात् मरणावभृथसाम्याच्चेति पूर्वपक्षे प्राप्त उच्यते – पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ३-३-२४ ॥ उभयत्राम्नातयोः पुरुषविद्यात्वेऽपि विद्याभेदोऽस्त्येव कुतः ? इतरेषा-मनाम्नात् । *यत्सायम् प्रातर्मध्यन्दिनम् […]
सम्भृत्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ सम्भृत्यधिकरणम् ॥ ८ ॥ ब्रह्मज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठम् दिवमाततान । ब्रह्मा भूतानाम् प्रथमो हि जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुम् कः*(तै.यजु.अष्ट. २-४-७) इति राणायनीयानाम् खिलमन्त्रश्श्रूयते । अत्र परिच्छेदातीते ब्रह्मणि व्यापकत्वादिकथनस्य स्वरूपोपदेशार्थत्वाभावेन उपासनार्थत्वस्य सिद्धतया स्वप्रकारतयोपासन विध्यश्रवणेन अनारभ्याधीतस्य द्यु॒व्याप्त्यादेः प्रकरणान्तरगतविद्यार्थत्वे वक्तव्ये नियामकाभावादस्थूल-त्वादिवत् सत्यत्वादिवच्च सर्वविद्यार्थत्वे प्राप्त उच्यते – […]
सम्बन्धाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ सम्बन्धाधिकरणम् ॥ ७ ॥ *य एष एतस्मिन्मण्डले पुरुषो यश्चायम् दक्षिणेऽक्षन्नि*(बृह.५-५-२)त्यादिना अक्ष्यादित्यवर्तितया व्याहृतिशरीरकतया चोपास्यत्वे-नोपदिष्टस्य ब्रह्मणः *तस्योपनिषदहरित्यधिदैवतम्*(बृह.७-५-३) *तस्योपनिषदहमित्यध्यात्ममि*(बृह.७-५-३)ति ये अहरित्यहमिति च रहस्यनामनी उपदिष्टे किम् स्थानविशेषनियते अतश्चाहरिति नाम आदित्यमण्डलस्थानविशिष्टस्यैव अहमिति च नामाक्षिस्थपुरुषस्यैवेति नियमोऽस्ति उत नेति चिन्तायाम् पूर्वपक्ष उच्यते – सम्बन्धादेवमन्यत्रापि ॥३-३-२०॥ यथा मनोमयत्वादिविशिष्टस्यैकत्वादुपास्यैक्येन विद्यैक्यात् शाण्टडिल्यविद्यायाम् गुणोपसम्हारः, एवमक्ष्यादित्यसम्बन्धिनो […]
समानाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ समानाधिकरणम् ॥ ६ ॥ एकस्यामेव वाजसनेयाखायाम् अग्निरहस्ये *स आत्मानमुपासीत मनोमयम् प्राणशरीरम् भारूपम् सत्यसङ्कल्पमाकाशात्मानमि*(वाज- सनेयके अग्निरहस्ये)ति श्रुतशाण्डिल्यविद्यात: *मनोमयोऽयम् पुरुषो भास्सत्यम् तस्मिन्नन्तर्हृदये यथा व्रीहिर्वा यवो वा, स एष सर्वस्य वशी सर्वस्येशानः सर्वस्याधिपतिस्सर्वमिदम् प्रशास्ति यदिदम् किञ्चे*(बृह.७-६-२)ति श्रुता शाण्डिल्यविद्या भिद्यते । सत्यसङ्कल्पत्वरूपवशित्वरूपगुणभेदादिति प्राप्त उच्यते – समान एवम् चाभेदात् […]
कार्याख्यानाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ कार्याख्यानाधिकरणम् ॥ ५ ॥ *लम्भुको ह वासो भवती*(छान्.५-२-२)त्यर्थवादोपबृम्हितात् *किम् मे वासो भविष्यतीत्याप इति होचुस्तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चो-परिष्टाच्च अद्भिः परिदधती*(छान्.५-२-२)ति छान्दोग्ये श्रवणात् अपाम् वासस्त्वानुसन्धानम् प्रतीयते । बृहदारण्यके काण्वशाखायाम् – *आपो वास इति तद्विद्वाम्सः श्रोत्रिया अशिष्यंत आचामन्ति अशित्वा चाचा-मन्ति एतमेव तदनमनग्नम् कुर्वन्तो मन्यन्ते तस्मादेवम्विदशिष्य-न्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नम् कुरुत*(बृह.८-१-१४) […]
आनन्दाद्यधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ आनन्दाद्यधिकरणम् ॥ ४ ॥ यथा विद्यान्तरे श्रुतानाम् सम्यद्वामत्वादीनाम् गुणानाम् न विद्यान्तरे उपसम्हारः तथा सत्यत्वज्ञानत्वादीनामपि विद्याविशेषप्रकरणश्रुतानाम् न विद्यान्तरे उपसम्हारः प्रापकाभावादिति पूर्वपक्षे प्राप्ते उच्यते – आनन्दादयः प्रधानस्य ॥ ३-३-११ ॥ प्रधानस्य गुणिनो ब्रह्मणः सर्वेषु उपासनेष्वभेदाद्गुण्यपृथग्भूतानाम् आनन्दादीनाम् गुणानामपि सर्वेषु उपासनेषु उपसम्हारः ॥ नन्वेवम् प्रियशिरस्त्वादीनामपि सर्वेषूपासनेषूपसम्हारः प्राप्नोति । […]
सर्वाभेदाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ सर्वाभेदाधिकरणम् ॥ ३ ॥ छान्दोग्यवाजसनेयकयोः कौषीतकिनामुपनिषदि च दशमेऽध्याये *यो ह वै ज्येष्ठम् च श्रेष्ठम् च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवती*(छान्.५-१-१) त्यारभ्य प्राणविद्या पठ्यते । तत्र सर्वगतस्य प्राणस्य ज्यैष्ठ्यश्रैठ्य-गुणकत्वम् वाक्चक्षुश्श्रोत्रमनसाम् वसुमत्तासम्पादकत्वसमविषमभूतलादि-प्रदर्शकत्वसम्पद्धेतु भूतवेदशास्त्रतदर्थश्रवणादिसम्पादकत्वस्रक्चन्दनादि-विषयज्ञानरूपभोगायतनत्वलक्षणवसिष्ठत्व प्रतिष्ठात्वसम्पत्त्वायतनत्व-रूपगुणवत्त्वम् वागादीनाम् च श्रैष्ठ्यविषयपरस्परविवादेन ब्रह्मसभो-पसर्पणम् *यस्मिन्व उत्क्रान्ते शरीरम् पापिष्ठतरम् दृश्यते स वश्श्रेष्ठ* […]
अन्यथात्वाधिकरणम्
॥श्रीशारीरकशास्त्रार्थदीपिका ॥ श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥ श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तृतीयः पादः ॥ अन्यथात्वाधिकरणम् ॥२॥ वाजिनाम् तावत् *द्वया ह वै प्राजापत्या देवाश्चासुराश्चे*(बृह.३-१-१) त्यारम्भ *ते ह देवा ऊचुर्हन्तासुरान्यज्ञ उद्गीथेनात्ययामे*(बृह.३-१-१) ति उद्गीथेनासुरविध्वम्सनम् प्रतिज्ञायोद्गीथे वागादिमनःपर्यन्तदृष्टा-वसुरैरभिभवमुक्त्वा *अथ हेममासन्यम् प्राणमूचुरि*(बृह.३-३-१-७) त्यादिनोद्गीथे प्राणदृष्ट्याऽसुरपरिभवमुक्त्वा *भवत्यात्मना पराऽस्य द्विषन् भ्रातृव्यो भवति य एवम् वेद*(बृह.३-३-१-७) इति शत्रुपराजय-फलायोद्गीथे प्राणदृष्टिर्विहिता । एवम् छन्दोगानामपि *देवासुरा ह वै यत्र सम्येतिर*(छान्.१-२-१) इत्यारभ्य […]