श्रीभाष्यम् 02-02-03 समुदायाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये समुदायाधिकरणम् ॥३॥ (सू.17-26) (अधिकरणार्थः  बौद्ध-वैभाषिक-सौत्रान्तिकपक्षयोः निरसनम्) १९१. समुदाय उभयहेतुकेऽपि तदप्राप्ति: ॥ २–२–१७ ॥ (सङ्गतिप्रदर्शनम्) परमाणुकारणवादिनो वैशेषिका निरस्ता:; सौगताश्च जगत: परमाणुकारणत्वं अभ्युपगच्छन्तीत्यनन्तरं तन्मतेऽपि जगदुत्पत्तितद्व्यवहारादिकं नोपपद्यत इत्युच्यते  ॥ (बौद्धप्रभेद-तन्मतानां सामान्यतः प्रदर्शनम्) ते चतुर्विधा: – केचित्पार्थिवाप्यतैजसवायवीयपरमाणुसङ्घातरूपान् भूतभौतिकान् बाह्यांश्चित्तचैत्तरूपांश्च आभ्यन्तरानर्थान् प्रत्यक्षानुमानसिद्धानभ्युपयन्ति, अन्ये तु बाह्यार्थान् सर्वान् पृथिव्यादीन्विज्ञानानुमेयान्वदन्ति; अपरे त्वर्थशून्यं विज्ञानमेव परमार्थसत्, बाह्यार्थास्तु स्वाप्नार्थकल्पा इत्याहु:; त्रयोऽप्येते स्वाभ्युपगतं वस्तु क्षणिकमाचक्षते, उक्तभूतभौतिकचित्तचैत्त-व्यतिरिक्तं […]

श्रीभाष्यम् 02-02-02 महद्दीर्घाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये महद्दीर्घाधिकरणम् ॥२॥ (अधिकरणार्थः – तार्किकाभिमतपरमाणुकारणतावादनिरासः) १८४. महद्दीर्घवद्वाह्रस्वपिरमण्डलाभ्याम् ॥ २–२–१० ॥ (सङ्गतिप्रदर्शनम्) प्रधानकारणवादस्य युक्त्याभासमूलतया विप्रतिषिद्धत्वाच्चासामञ्जस्यमुक्तम्; सम्प्रति परमाणुकारणवादस्याप्यसामञ्जस्यं प्रतिपाद्यते महद्दीर्घवद्वा ह्रस्वपरिमण्डलाभ्याम् – इति। (सूत्राक्षरार्थप्रतिपादनम्) असमञ्जसमिति वर्तते; वाशब्दश्चार्थे। ह्रस्वपरिमण्डलाभ्याम् द्व्यणुकपरमाणुभ्यां, महद्दीर्घवत् – त्रयणुकोत्पत्तिवादवत्, अन्यच्च तदभ्युपगतं सर्वमसमञ्जसम्; परमाणुभ्यो द्व्यणुकादिक्रमेण जगदुत्पत्तिवादवदन्यदप्यसमञ्जसमित्यर्थ: ॥ (उक्तस्य असामञ्जस्यस्य विवरणम्) तथाहि – तन्तुप्रभृतयो ह्यवयवा: स्वांशैष्षड्भि: पार्श्वैस्संयुज्यमाना अवयविनमुत्पादयन्ति, परमाणवोऽपि स्वकीयै: षड्भि: पार्श्वैस्संयुज्यमाना एव द्व्यणुकादीनामुत्पादका भवेयु:, […]

श्रीभाष्यम् 02-02-01 रचनानुपपत्त्यधिकरणम्

श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये द्वितायाध्याये–द्वितीयः (तर्क) पादः (पादार्थः – सांख्यादिपक्षाणां, तर्कतः प्रतिक्षेपः । पाञ्चरात्रतन्त्रप्रामाण्यस्थापनं च) (अधिकरणानि – 8, सूत्राणि – 42) रचनानुपपत्त्यधिकरणम्॥१॥ (अधिकरणार्थः – ब्रह्मानधिष्टितस्य सांख्योक्तप्रधानस्य जगत्कारणत्वायोगः) १७५. रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च ॥ २–२–१ ॥ (आदितः एतावदन्तं शारीरके निरूपिता अर्थाः – सङ्गतिः, द्वितीयपादप्रयोजनं च) उक्तं जगज्जन्मादिकारणं परं ब्रह्मेति; तत्र परैरुद्भाविताश्च दोषा: परिहृता:। इदानीं स्वपक्षरक्षणाय परपक्षा: प्रतिक्षिप्यन्ते; इतरथा कस्यचिन्मन्दधियस्तेषां […]

श्रीभाष्यम् 02-01-10 प्रयोजनवत्त्वाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये प्रयोजनवत्त्वाधिकरणम्॥१०॥ (अधिकरणार्थः – ब्रह्मणः अवाप्तसमस्तकामस्यापि, लीलार्थं सर्वजगत्स्रष्टृत्वोपपत्तिः) (आप्तसमस्तकामस्य भगवतः जगत्सृष्टेः प्रयोजनाभावः) (अतश्च जगत्कारणत्वानुपपत्तिः) १७०. न प्रयोजनवत्त्वात् ॥ २–१–३२ ॥ यद्यपीश्वर: प्राक्सृष्टेरेक एव सन् सकलेतरविलक्षणत्वेन सर्वार्थशक्तियुक्त: स्वयमेव विचित्रं जगत्स्रष्टुं शक्नोति, तथापीश्वरकारणत्वं न सम्भवति, प्रयोजनवत्त्वाद्विचित्रसृष्टे:, ईश्वरस्य च प्रयोजनाभावात्। बुद्धिपूर्वकारिणामारम्भे द्विविधं हि प्रयोजनं – स्वार्थ: परार्थो वा। न हि परस्य ब्रह्मणस्स्वभावत एवावाप्तसमस्तकामस्य जगत्सर्गेण किञ्चन प्रयोजनमनवाप्तमवाप्यते। नापि परार्थ:, […]

श्रीभाष्यम् 02-01-09 कृत्स्नप्रसक्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये कृत्स्नप्रसक्त्यधिकरणम्॥९॥ (अधिकरणार्थः – ब्रह्मणो निरवयवस्यापि जगत्कारणतायाः श्रुतिप्रतिपन्नतया नाऽसाङ्गत्यम्) १६४. कृत्स्नप्रसिक्तिर्निरवयवत्वशब्दकोपो वा ॥ २–१–२६ ॥ (श्रुतिभिः ब्रह्मणि निरवयवत्वरूपैकत्वप्रतिपादनम्) सदेव सोम्येदमग्र आसीत् (छा.६.२.१) इदं वा अग्रे नैव किञ्चनासीत् (तै.यजु.२.अष्ट.२.५) आत्मा वा इदमेक एवाग्र आसीत् (ऐत.१.१.१) इत्यादिषु कारणावस्थायां ब्रह्मैकमेव निरवयवमासीदिति  कारणावस्थायां निरस्तचिदचिद्विभागतया निरवयवं ब्रह्मैवासीदित्युक्तम्; तदविभागमेकं निरवयमेव ब्रह्म बहु स्याम् (छां.६२.३) इति सङ्कल्प्य आकाशवाय्वादिविभागं ब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञविभागं चाभवदिति चोक्तम् ॥ […]

श्रीभाष्यम् 02-01-08 उपसंहारदर्शनाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये उपसंहारदर्शनाधिकरणम् ॥ ८॥ (अधिकरणार्थः – अत्यद्भुतसर्वशक्तेर्ब्रह्मणः, इतरानपेक्षं सङ्कल्पमात्रतो जगत्सृष्टियोगः) १६२. उपसंहारदर्शनान्नेति चेन्नक्षीरवद्धि ॥ २–१–२४ ॥ (अवान्तरसङ्गतिप्रदर्शनम्) परस्य ब्रह्मणस्सर्वज्ञस्य सत्यसङ्कल्पस्य स्थूलसूक्ष्मावस्थसर्वचेतनाचेतनवस्तु शरीरतया सर्वप्रकारत्वेन सर्वात्मत्वं सकलेतरिवलक्षणत्वं चाविरुद्धमिति  स्थापितम्। इदानीं सत्यसङ्कल्पस्य परस्य ब्रह्मण: सङ्कल्पमात्रेण विचित्रजगत्सृष्टियोगो न विरुद्ध इति स्थाप्यते ॥ (एतदधिकरणोत्थापकशङ्कानुदयाक्षेपः) ननु च परिमितशक्तीनां कारककलापोपसंहारसापेक्षत्वदर्शनेन सर्वशक्तेर्ब्रह्मण: कारककलापानुपसंहारेण जगत्कारणत्वविरोध: कथमाशङ्क्यते?; उच्यते – लोके तत्तत्कार्यजननशक्तियुक्तस्यापि तत्तदुपकरणापेक्षत्वदर्शनात्सर्वशक्तियुक्तस्य परस्य ब्रह्मणोऽपि तत्तदुपकरणविरहिण: […]

श्रीभाष्यम् 02-01-07 इतरव्यपदेशाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये इतरव्यपदेशाधिकरणम्॥७॥ (अधिकरणार्थः – जगत्स्रष्टुर्ब्रह्मणः स्वहिताकरणादिदोषप्रसङ्गनिवारणम् सू.21-23) १५९. इतरव्यपदेशाद्धिताकारणादिदोषप्रसक्ति: ॥ २–१–२१ ॥ (अवान्तरसङ्गतिः) जगतो ब्रह्मानन्यत्वं प्रतिपादयद्भि: तत्त्वमसि (छा.६.८.७) अयमात्मा ब्रह्म (बृ.६.४.५) इत्यादिभर्जीवस्यापि ब्रह्मानन्यत्वं व्यपदिश्यत इत्युक्तम्। (सूत्राशयविशदीकरणम्) तत्रेदं चोद्यते; यदीतरस्य जीवस्य ब्रह्मभावोऽमीभिर्वाक्यैर्व्यपदिश्यते, तदा ब्रह्मण: सार्वज्ञ्यसत्यसङ्कल्पत्वादियुक्तस्यात्मनो हितरूपजगदकरणमहितरूपजगत्करणमित्यादयो दोषा: प्रसज्येरन्। आध्यात्मिकाधिदैविक- आधिभौतिकानन्तदु:खाकरं चेदं जगत्; न चेदृशे स्वानर्थे स्वाधीनो बुद्धिमान् प्रवर्तते ॥ जीवाद्ब्रह्मणो भेदवादिन्यश्श्रुतयो जगद्ब्रह्मणोरनन्यत्वं वदता त्वयैव परित्यक्ता:, भेदे […]

श्रीभाष्यम् 02-01-06 आरम्भणाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये आरम्भणाधिकरणम्॥६॥ (अधिकरणार्थः कार्यकारणभावकृतं जगद्ब्रह्मणोः अनन्यत्वम्) १५३. तदनन्यत्वमारम्भणशब्दादिभ्य: ॥ २–१–१५ ॥ (सङ्गतिप्रतिपादनम) असदितिचेन्न प्रतिषेधमात्रत्वात् (ब्र.सू.२.१.७) इत्यादिषु कारणभूताद्ब्रह्मण: कार्यभूतस्य जगतोऽनन्यत्वमभ्युपगम्य ब्रह्मणो जगत्कारणत्वमुपपादितम्, इदानीं तदेवानन्यत्वमाक्षिप्य समाधीयते ॥ (कार्यकारणयोरनन्यत्वे आक्षेपः) (तत्रादौ वैशेषिकाक्षेपः) तत्र काणादा: प्राहु: – न कारणात्कार्यस्यानन्यत्वं सम्भवति, विलक्षणबुद्धिबोध्यत्वात्, न खलु तन्तुपटमृत्पिण्डघटादिषु कार्यकारणविषया बुद्धिरेकरूपा। शब्दभेदाच्च, न हि तन्तव: पट इत्युच्यन्ते, पटो वा तन्तव इति। कार्यभेदाच्च – न […]

श्रीभाष्यम् 02-01-05 भोक्त्रापत्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये भोक्त्रापत्त्यधिकरणम्॥ ५ ॥ (अधिकरणार्थः – परस्य ब्रह्मणः शरीरसम्बन्धाशङ्कितभोक्तृतानिरासः) १५२. भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ २–१–१४ ॥ (सङ्गतिः – सूत्रार्थविवरणम्)                 पुनरपि साङ्ख्य: प्रत्यवतिष्ठते – यदुक्तं, स्थूलसूक्ष्मचिदचिद्वस्तुशरीरस्य परस्य ब्रह्मण: कार्यकारणरूपत्वाज्जीवब्रह्मणोस्स्वभावविभाग उपपद्यते – इति ।       स तु विभागो न सम्भवति – ब्रह्मणस्सशरीरत्वे तस्य भोक्तृत्वापत्ते:, सशरीरत्वे जीवस्येवेश्वरस्यापि सशरीरत्वप्रयुक्तसुखदु:खयो: भोक्तृत्वस्यावर्जनीयत्वात्  ॥ (अधिकरणारम्भाक्षेपपरिहारौ)                 ननु च सम्भोगप्राप्तिरितिचेन्न वैशेष्यात् (शारी.१.२.८) इत्यत्रेश्वरस्य भोगप्रसङ्गपरिहार […]

श्रीभाष्यम् 02-01-04 शिष्टापरिग्रहाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये शिष्टापरिग्रहाधिकरणम्॥४॥ (अधिकरणार्थः – वेदापरिगृहीतसर्वक्षप्रतिक्षेपः) १५१. एतेन शिष्टापरिग्रहा अपि व्याख्याता: ॥ २–१–१३ ॥ (सूत्रार्थविवरणम्) शिष्टा: – परिशिष्टा:, न विद्यते वेदपरिग्रहो येषामित्यपरिग्रहा:; शिष्टाश्चापरिग्रहाश्च शिष्टापरिग्रहा: एतेन वेदापरिगृहीतसाङ्ख्यपक्षक्षपणेन परिशिष्टाश्च वेदापरिगृहीता: कणभक्षाक्षपादक्षपणकभिक्षुपक्षा: क्षपिता वेदितव्या: ॥ (अधिकाशङ्का-परिहारयोः स्फुटीकरणम्) परमाणुकारणवादेऽमीषां सर्वेषां संवादात्कारणवस्तुविषयस्य तर्कस्याप्रतिष्ठितत्वं न शक्यते वक्तुमित्यधिकाशङ्का॥ तावन्मात्रसंवादेऽपि तर्कमूलत्वाविशेषात्परमाणुस्वरूपेऽपि शून्यात्मकत्वाशून्यात्मकत्व-ज्ञानात्मकत्व-अर्थात्मकत्वक्षणिकत्वनित्यत्वैकान्तत्वानेकान्तत्वसत्यासत्यात्मकत्वादि-विसंवाद-दर्शनात् च अप्रतिष्ठितत्वमेवेति परिहार:॥१३॥ इति श्रीशारीरकमीमांसाभाष्ये शिष्टापरिग्रहाधिकरणम्॥ ४॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.