श्रीभाष्यम् 03-04-05 सर्वापेक्षाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये सर्वापेक्षाधिकरणम्॥५॥ (अधिकरणार्थः – कर्माधिकृताश्रमिणां तु ब्रह्मविद्या कर्मसापेक्षैव निष्पन्ना भवेत्) ४४४. सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ॥ ३–४–२६ ॥ (गृहिष्वपि कर्मापेक्षाराहित्यशङ्का, तन्निरासश्च) यदि विद्या यज्ञाद्यनपेक्षैवामृतत्वं साधयति; तर्हि गृहस्थेष्वपि तदनपेक्षैव साधयितुमर्हति, यज्ञादिश्रुतिरपि विविदिषन्ति (बृ.६.४.२२) इति शब्दात्कर्मणो वेदनाङ्गतां न प्रतिपादयतीति – अत आह – सर्वापेक्षा इति। अग्निहोत्रादिसर्वकर्मापेक्षैव विद्या कर्मवत्सु गृहस्थेषु; कुत:? यज्ञादिश्रुते:। तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन […]
श्रीभाष्यम् 03-04-04 अग्नीन्धनाद्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अग्नीन्धनाद्यधिकरणम्॥ ४॥ (अधिकरणार्थः – परिव्राजिकानां विद्यासिद्धिः, स्वाश्रमविहितकर्मापेक्षैव, न तु अग्न्याधानपूर्वककर्मापेक्षा) ४४३. अत एव चाग्नीन्धनाद्यनपेक्षा ॥ ३–४–२५ ॥ (पूर्वाधिकरणयोः प्रासङ्गिकता, प्रकृतसङ्गतिश्च) स्तुतिप्रसङगादवान्तरसङ्गतिविशेषेणार्थद्वयं चिन्तितम् । विद्यावन्त ऊर्ध्वरेतस आश्रमिण: सन्तीत्युक्तम् ऊर्ध्वरेतस्सु च शब्दे हि (शारी.३.४.२७) इत्यादिभिस्सूत्रै:। (पूर्वपक्षसिद्धान्तौ) इदानीमूर्ध्वरेतसो यज्ञाद्यभावात्तदङ्गिका विद्या न सम्भवतीत्याशङ्क्याह – अत एव चाग्नीन्धनाद्यनपेक्षा – इति । यत ऊर्ध्वरेतस आश्रमिणो विद्यासम्बन्धित्वेन श्रुत्या परिगृह्यन्ते ब्रह्मसंस्थोऽमृतत्वमेति (छा.२.२३.१) […]
श्रीभाष्यम् 03-04-03 पारिप्लवार्थाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये पारिप्लवार्थाधिकरणम्॥३॥ (अधिकरणार्थः – उपनिषत्सूपलभ्यमानानां आख्यानानां विद्याविध्यर्थत्वमेव न तु अश्वमेधाङ्गपारिप्लवनामकशस्त्रार्थत्वम्) ४४१. पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ३–४–२३ ॥ (विचारणीयो विषयः ससंशयः) प्रतर्दनो ह वै दैवोदासिरिन्द्रस्य प्रियं धामोपजगाम (कौ.३.१) श्वेतकेतुर्हारुणेय आस (छा.६.१.१) इत्येवमादीनि वेदान्तेष्वाख्यानानि किं पारिप्लवप्रयोगार्थानि, उत विद्याविशेषप्रतिपादनार्थानीति चिन्तायाम् – (पूर्वपक्षः) आख्यानानि शंसन्ति (?) इत्याख्यानानां पारिप्लवे विनियोगान्न विद्याप्रधानत्वं न्याय्यमिति चेत् (सिद्धआन्तार्थः) न सर्वाण्याख्यानानि पारिप्लवप्रयोगे […]
श्रीभाष्यम् 03-04-02 स्तुतिमात्राधिकरणम्
श्रीशारीरकमीमांसाभाष्ये स्तुतिमात्राधिकरणम् ॥२॥ (अधिकरणार्थः – स एष रसानां इत्यादिवाक्यानां उद्गीथादौ रसतमादिदृष्टिविधिपरत्वमेव) ४३९. स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ३–४–२१ ॥ (विचारणीयो विषयः ससंशयः) इदमिदानीं चिन्त्यते स एष रसानां रसतम: परम: परार्थ्योऽष्टमो यदुद्गीथ: (छा.१.१.३) इति एवंजातीयकानि वाक्यानि क्रत्ववयवभूतोद्गीथादिस्तुतिमात्रपराणि, आहोस्विदुद्गीथादिषु रसतमादिदृष्टिविधानार्थानीति । (तन्निर्धारणानियमाधिकरणस्य एतदधिकरणोपजीव्यत्वम्) अत्र प्रतिपादितमुपासनपरत्वमङ्गीकृत्योपासनस्य पुरुषार्थत्वेन क्रतुषूपादानानियम उक्त:। (पूर्वः पक्षः सयुक्तिकः) किं युक्तम्? स्तुतिमात्रपराणीति । कुत:? उद्गीथाद्युपादानात्। क्रत्वङ्गभूतानि ह्युद्गीथादीन्युपादाय […]
श्रीभाष्यम् 03-04-01 पुरुषार्थाधिकरणम्
श्रीभगवद्रामानुजविरचितेश्रीशारीरकमीमांसाभाष्ये तृतीये साधनाध्याये – चतुर्थ: अङ्गपाद: (पादार्थः – मोक्षोपायतया वेदान्तविहितविद्याङ्गभूतकर्मादिविषयिणी चिन्ता) पुरुषार्थाधिकरणम्॥१॥ (अधिकरणानि – 1 – 15 सूत्राणि – 1 – 51) (अधिकरणार्थः – कर्माङ्गकादुपासनादेव परमपुरुषार्थावाप्तिः, न तु वेदनाङ्गकात् कर्मणः) ४१९. पुरुषार्थोऽतश्शब्दादिति बादरायण: ॥ ३–४–१ ॥ (ईशावास्यविद्याविचारः 3-4-33) (अस्याधिकरणस्य पूर्वपादेन सह सङ्गतिः विचारणीयोंशश्च) गुणोपसंहारानुपसंहारफला विद्यैकत्वनानात्वचिन्ता कृता; इदानीं विद्यात: पुरुषार्थ:, उत विद्याङ्गकात्कर्मण इति चिन्त्यते। (सिद्धान्त्यभिमतोऽर्थः) […]
श्रीभाष्यम् 03-03-26 यथाश्रयभावाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये यथाश्रयभावाधिकरणम्॥२६॥ (अधिकरणार्थः – उद्गीथाद्यङ्गाश्रितानामुपासनानां पृथक्फलतायाः उद्गीथाद्यनङ्गतायाश्च दर्शनात् क्रतुषूपादानानियमो दृढैव) ४१३. अङ्गेषु यथाश्रयभाव: ॥ ३–३–५९ ॥ (विषयसंशययोः प्रदर्शनम्) उद्गीथादिक्रत्वङ्गेष्वाश्रिता: ओमित्येतदक्षरमुद्गीथमुपासीत (छा.१.१.१) इत्यादिकाः विद्या: किमुद्गीथादिवत्क्रत्वर्थतया क्रतुषु नियमेनोपादेया:, उत गोदोहनादिवत्पुरुषार्थतया यथाकाममिति विशये – (पूर्वः पक्षः) नियमेनोपादेया इति युक्तम् । (अधिकरणस्यास्य कृतकरत्वशङ्कापरिहारः) ननु चासां पुरषार्थत्वेनानियम: प्रतिपादित: तन्निर्धारणानियमस्तद्दृष्टे: पृथग्ध्यप्रतिबन्ध: फलम् (शारी.३.३.४१) इत्यत्र । सत्यम्; तदेव द्रढयितुं कैश्चिल्लिङ्गदर्शनैर्युक्त्या चाक्षिप्यते । […]
श्रीभाष्यम् 03-03-25 विकल्पाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये विकल्पाधिकरणम् ॥२५॥ (अधिकरणार्थः – ब्रह्मप्राप्त्यर्थं एकैकस्या एव विद्यायाः विकल्पेनानुष्ठेयता, न समुच्चयेन सर्वस्या अपि ) ४११. विकल्पोऽविशिष्टफलत्वात् ॥ ३–३–५७ ॥ (सङ्गतिसंशययोः प्रदर्शनम्) ब्रह्मप्राप्तिफलानां सद्विद्यादहरविद्यादीनां नानात्वमुक्तम्; इदानीमासां विद्यानामेकस्मिन् पुरुषे प्रयोजनवत्त्वेन समुच्चयोऽपि सम्भवति, उत प्रयोजनाभावाद्विकल्प एवेति विशये – (सयुक्तिकः पूर्वः पक्षः) किं युक्तम्? समुच्चयोऽपि सम्भवतीति; कुत: एकफलानां भिन्नशास्त्रार्थानामपि समुच्चयदर्शनात्। दृश्यते ह्येकस्यैव स्वर्गादेस्साधनानामग्निहोत्रदर्शपूर्णमासादीनां तस्यैव स्वर्गस्य भूयस्त्वापेक्षयैकत्र पुरुषे समुच्चय:; एवमिहापि […]
श्रीभाष्यम् 03-03-24 शब्दादिभेदाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये शब्दादिभेदाधिकरणम्॥२४॥ (अधिकरणार्थः – ब्रह्मप्राप्त्येकफलानामपि वेदान्तोदितानां विद्यानां शब्दादिभेदतः स्वरूपभेदः) ४१०. नाना शब्दादिभेदात् ॥ ३–३–५६ ॥ (विचारणीयार्थोपस्थापनम्) इह ब्रह्मविद्यास्सर्वा: ब्रह्मप्राप्तिरूपमोक्षैकफला: सद्विद्याभूमविद्यादहरविद्योपकोसल-विद्याशाण्डिल्यविद्यावैश्वानरविद्यानन्दमयविद्याक्षरविद्यादिका एकशाखागताश्शाखान्तरगताश्च उदाहरणम्; अन्या: प्राणाद्येकविषयफलाश्च । (विचारौपयिकः संशयः) किमत्र विद्यैक्यम्, उत विद्याभेद इति संशय्यते। (कर्मकाण्डोक्तन्यायतः पौनरुक्त्यशङ्काया निरासः) अत्रैवासां परस्परभेदे समर्थिते सत्येकस्या दहरविद्यादिकायास्सर्ववेदान्तप्रत्ययन्याय:। (पूर्वः पक्षः सयुक्तिकः) किं युक्तम्? विद्यैक्यमिति। कुत:? वेद्यस्य ब्रह्मण एकत्वात्; वेद्यं हि विद्याया रूपम्; […]
श्रीभाष्यम् 03-03-23 भूमज्यायस्त्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये भूमज्यायस्त्वाधिकरणम्॥२३॥ (अधिकरणार्थः – वैश्वानरविद्यायां त्रैलोक्यशरीरस्य वैश्वानरात्मनः उपासनं, समस्तस्यैव) ४०९. भूम्न: क्रतुवज्ज्यायस्त्वं तथाहि दर्शयति ॥ ३–३–५५ ॥ (वैश्वानरविद्यायां विचारणीयो विषयः) प्राचीनशाला औपमन्यव: (छां.५.११.१) इत्यारभ्य वैश्वानरविद्या आम्नाता। तत्र वैश्वानर: परमात्मा त्रैलोक्यशरीर उपास्यश्श्रुत: स्वर्लोकादित्यवाय्वाकाशाप्पृथिव्यवयव:; तत्र द्यौर्मूर्धा, आदित्यश्चक्षु:, वायु: प्राण:, आकाशस्सन्देह: – मध्यकाय इत्यर्थ; आपो वस्ति:; पृथिवी पादावित्यवयवविशेषा:। (विचारौपयिकः संशयः) तत्र संशय: – किमस्य त्रैलोक्यशरीरस्य व्यस्तस्योपासनं कर्तव्यम्, उत […]
श्रीभाष्यम् 03-03-22 अङ्गावबद्धाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अङ्गावबद्धाधिकरणम् ॥२२॥ (अधिकरणार्थः – उद्गीथाद्यङ्गाश्रयाणां उपासनानां उद्गीथादिवत् सर्वशाखास्थक्रतुष्वप्यन्वयः) ४०७. अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ३–३–५३ ॥ (विचारणीयविषयोपस्थापनम्) ओमित्येतदक्षरमुद्गीथमुपासीत (छा.१.१.१) लोकेषु पञ्चविधं सामोपासीत (छा.२.२.१) उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थम् इयमेव पृथिवी (ऐतरेय आ.२.१.२) अयं वाव लोक एषोऽग्निचित: (अग्निरहस्यं) इत्येवमाद्या: क्रत्वङ्गाश्रया: उपासना: भवन्ति । (विचारौपयिकः संशयः) ता: किं यासु शाखासु श्रूयन्ते, तास्वेव नियता:, उत सर्वासु […]