श्रीभाष्यम् 03-03-11 हान्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये हान्यधिकरणम्॥११॥ (अधिकरणार्थः – विविधश्रुतिप्रतिपन्नयोरपि विदुषः पुण्य-पापहानोपायनयोः समन्येन सर्वविद्यासु चिन्तनम्) ३८०. हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दस्स्तुत्युपगानवत्तदुक्तम् ॥ ३–३–२६ ॥ (विचारणीयविषयोपस्थापनम्) छन्दोगा आमनन्ति – अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य। धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि (छा.८.१३.१) इति; आथर्वणिकाश्च तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इति; शाट्यायिनस्तु तस्य पुत्रा दायमुपयन्ति सुहृदस्साधुकृत्यां द्विषन्त: पापकृत्याम् इत्यादि; कौषीतकिनस्तु तत्सुकृतदुष्कृते […]
श्रीभाष्यम् 03-03-10 वेधाद्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये वेधाद्यधिकरणम्॥१०॥ (अधिकरणार्थः – शुक्रं प्रविध्येत्येवमादीनां आथर्वणिकादिभिरधीयमानानां मन्त्राणां अध्ययनाङ्गत्वमेव, न विद्याङ्गता) (विचारणीयविषयोपस्थानम्) ३७९. वेधाद्यर्थभेदात् ॥ ३–३–२५ ॥ (विचारणीयविषयोपस्थानम्) आथर्वणिका उपनिषदारम्भे शुक्रं प्रविध्य हृदयं प्रविध्य (अथर्व.उ.१) इत्यादीन्मन्त्रानधीयते; सामगाश्च रहस्यब्राह्मणारम्भे देव सवित: प्रसुव यज्ञं प्रसुव (साम.ब्रा.१.१.१) इत्याद्यामनन्ति, काठकास्तैत्तिरीयकाश्च शं नो मित्रश्शंवरुण: (तै.शि.१) इत्यादिकम्; शाट्यायनिश्च श्वेतोऽश्वो हरिनीलोऽसि इत्यादिकम्; ऐतरेयिणस्तु महाव्रतब्राह्मणमधीयते इन्द्रो ह वै वृत्रं हत्वा महानभवत् इत्यादि; कौषीतकिनोऽपि […]
श्रीभाष्यम् 03-03-09 पुरुषविद्याधिकरणम्
श्रीशारीरकमीमांसाभाष्ये पुरुषविद्याधिकरणम्॥९॥ (पुरुषविद्या तै.ना. 64, छा.उ. 3-16) (अधिकरणार्थः – तैत्तरीयक-छान्दोग्य श्रुत्युक्तयोः पुरुषविद्ययोः. रूपाभेदादिकृतो भेदः) ३७८. पुरुषविद्यायामपि चेतरेषामनाम्नानात् ॥ ३–२–२४ ॥ (विचारणीयविषयोपस्थापनम्) तैत्तिरीयके पुरुषविद्याऽम्नायते तस्यैवं विदुषो यज्ञस्याऽत्मा यजमानश्श्रद्धा पत्नी शरीरमिध्ममुरो वेदिर्लोमानि बर्हि: (तै.नारा.५२) इत्यादिका। छान्दोग्येऽपि पुरुषविद्याऽम्नायते पुरुषो वाव यज्ञस्तस्य यानि चतुर्ंिवशतिवर्षाणि (छा.३.१६.१) इत्यादिका । (संशयकोटिनिर्देशः) तत्र संशय: – किमत्र विद्या भिद्यते, उत नेति । (पूर्वपक्षः सहेतुकः) […]
श्रीभाष्यम् 03-03-08 सम्भृत्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये सम्भृत्यधिकरणम् ॥८॥ (अधिकरणार्थः – शास्त्राविशेषश्रुतानां सम्भृत्यादीनां ब्रह्मगुणानां सर्वविद्यास्वनुपसंहारः) ३७७. सम्भृतिद्युव्याप्त्यपि चात: ॥ ३–३–२३ ॥ (विचारणीयविषयोपस्थापनम्) तैत्तिरीयके नारायणीयानां खिलेषु च ब्रह्म ज्येष्ठा वीर्या सम्भृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमोऽत जज्ञे तेनार्हाति ब्रह्मणा स्पर्धितुं क: इति ब्रह्मणि ज्येष्ठानां वीर्याणां सम्भृति: द्युव्याप्तिश्चेत्यादिगुणजातमाम्नातम् । (अधिकरणीयपूर्वपक्षशरीरम्) तेषामुपासनविशेषमनारभ्याधीतानां गुणानां सर्वासु विद्यासूपसंहारे प्राप्त (सूत्रतः सिद्धान्तार्थः) उच्यते – सम्भृतिद्युव्याप्त्यपि इति […]
श्रीभाष्यम् 03-03-07 सम्बन्धाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये सम्बन्धाधिकरणम्॥७॥ (व्याहृतिशरीरकाक्ष्यादित्यविद्या – बृ. 7-4, 5) (अधिकरणार्थः – उपासनाधिष्ठानभेदात् विद्याभेदनिरूपणम्) ३७४. सम्बन्धादेवमन्यत्रापि ॥ ३–३–२० ॥ (प्रकृतविचारणीयविषयोपस्थापनम्) बृहदारण्यके श्रूयते – सत्यं ब्रह्म (बृ.७.४२) इत्युपक्रम्य तद्यत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो, यश्चायं दक्षिणेऽक्षन् (बृ.७.५.१) इत्युपक्रम्य आदित्यमण्डलेऽक्षिणि च सत्यस्य ब्रह्मणो व्याहृतिशरीरत्वेनोपास्यत्वमुक्त्वा तस्योपनिषदहरित्यधिदैवतम् (बृ.७.५.३) तस्योपनिषदहमिति अध्यात्मम् (बृ.७.५.३) इति द्वे उपनिषदौ – रहस्यनामनी उपासनशेषतया आम्नायेते । (विचारणीयविषये संशयः) […]
श्रीभाष्यम् 03-03-06 समानाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये समानाधिकरणम्॥६॥ (अधिकरणार्थः – अग्निरहस्य-बृहदारण्यकोक्तयोः शाण्डिल्यविद्ययोरैक्यम्) ३७३. समान एवं चाभेदात् ॥ ३–३–१९ ॥ (विचारणीयविषयोपस्थापनम्) वाजसनेयके अग्निरहस्ये शाण्डिल्यविद्याऽऽम्नाता सत्यं ब्रह्मेत्युपासीत, अथ खलु क्रतुमयोऽयं पुरुष: (वाजसनेयके अग्निरहस्ये १०.६) इत्यारभ्य स आत्मानमुपासीत मनोमयं प्राणशरीरं भारूपं सत्यसङ्कल्पमाकाशात्मानम् (वाजसनेयके अग्निरहस्ये १०.६) इति । तथा तस्मिन्नेव बृहदारण्यके पुनरपि शाण्डिल्यविद्याऽऽम्नायते मनोमयोऽयं पुरुषो भास्सत्यं तस्मिन्नन्तर्हृादये यथा व्रीहिर्वा यवो वा स एष सर्वस्य वशी […]
श्रीभाष्यम् 03-03-05 कार्याख्यानाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये कार्याख्यानाधिकरणम्॥५॥ (प्राणवासस्त्वदृष्टिविद्या छा. 5.2, बृ. 8.1.14) (अधिकरणार्थः – आचमनीयानां अपां प्राणं प्रति वासस्त्वानुसन्धानस्याप्राप्तस्य विधिः, न तु आचमनस्य) ३७२. कार्याख्यानादपूर्वम्॥३–३–१८॥ (विचारणीयविषयोपस्थापनम्) पूर्वप्रस्तुतप्राणविद्याशेषभूतमिदानीं चिन्त्यते। छान्दोग्यवाजसनेयकयो: ज्येष्ठं च श्रेष्ठं च प्राणमुपास्यमुक्त्वा प्राणस्य वासस्त्वेनापोऽभिधीयन्ते; छान्दोग्ये तावत् स होवाच किं मे वासो भविष्यतीति । आप इति होचु: । तस्माद्वा एतदशिष्यन्त: पुरस्ताच्चोपरिष्टाच्चाद्भि: परिदधति । लम्भुको ह वासो भवत्यनग्नो भवति (छा.५.२.२) […]
श्रीभाष्यम् 03-03-04 आनन्दाद्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये आनन्दाद्यधिकरणम्॥४॥ (आनन्दमयविद्या – तै.उ. आन) (अधिकरणार्थः – आनन्दादिब्रह्मगुणानां सर्वासु परविद्यासूपसंहारः) (ससङ्गतिः सूत्रावतरणिका) प्राणाविद्याविषयमन्यदपि निरूपणमनन्तरमेव करिष्यते। यथा प्राणस्य वसिष्ठत्वाद्यनुसन्धानेन विना ज्यैष्ठ्यश्रैष्ठ्यानुसन्धनानुपपत्तेरनुक्तानामपि वसिष्ठत्वादीनां कौषीतकिप्राणविद्यायां प्राप्ति:; तथा ब्रह्मस्वरूपानुसन्धानं यैर्गुणैर्विना नोपपद्यते; ते ब्रह्मविद्यासु सर्वास्वप्यनुसन्धेया इत्ययमर्थ: – प्रतिपाद्यते। ३६५. आनन्दादय: प्रधानस्य ॥ ३–३–११ ॥ (विचारणीयो विषयः) अत्र ब्रह्मस्वरूपगुणानां सर्वासु परविद्यासूपसंहारोऽस्ति, नेति विचार्यते। (पूर्वपक्षः युक्तिसहितः) अप्रकरणाधीतानामुपसंहारे प्रमाणाभावात्प्रकरणश्रुतानामेवोपसंहार इति। (सिद्धान्तः सयुक्तिकः) […]
श्रीभाष्यम् 03-03-03 सर्वाभेदाधिकरणम्
श्रीशारीरमीमांसाभाष्ये सर्वाभेदाधिकरणम्॥३॥ (ज्येष्ठश्रेष्ठप्राणविद्या छा.उ. 5-1, बृ.उ. 8-1-14) (अधिकरणार्थः – कौषीतकिप्राणविद्याया छान्दोग्य-वाजसनेयगतप्राणविद्ययोः न नानात्वम्, प्रकारभेदात्) ३६४. सर्वाभेदादन्यत्रेमे ॥ ३–३–१० ॥ छान्दोग्यवाजसनेयकयो: प्राणविद्या आम्नायते यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च (छा.५.१.१) इत्यादि। तत्र ज्यैष्ठ्यश्रैष्ठ्यगुणकं प्राणमुपास्यं प्रतिपाद्य वाक्चक्षुश्श्रोत्रमनस्सु वसिष्ठत्वप्रतिष्ठात्वसम्पत्त्वायतनात्वाख्यान् गुणान् प्रतिपाद्य वागादीनां देहस्य च प्राणायत्तस्थितित्वेन तदायत्ततत्तत्कार्यत्वेन च […]
श्रीभाष्यम् 03-03-02 अन्यथात्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अन्यथात्वाधिकरणम्॥२॥ (उद्गीथप्राणविद्या उद्गातृप्राणविद्या च छा.उ. 1-2 बृ.उ. 3-3) (अधिकरणार्थः – वाजसनेयक-छान्दोग्यगतयोः उद्गीथविद्ययोर्नानात्वम्) ३६०. अन्यथात्वं शब्दादिति चेन्नाविशेषात् ॥ ३–३–६ ॥ (अवान्तरसङ्गतिः) एवं चोदनाद्यविशेषाद्विद्यैकत्वम्, एकत्वे च गुणोपसंहार: कर्तव्य इत्युक्तम्; अत: परं काश्चन विद्या अधिकृत्य प्रत्यभिज्ञाहेतुभूतचोदनाद्यविशेषोऽस्ति, नेति निरूप्य निर्णीयते। (विचारणीयविषयोपस्थापने तच्छुद्धीकरणं च) अस्त्युद्गीथविद्या वाजिनां छन्दोगानां च । वाजिनां तावत् द्वया ह प्राजापत्या देवाश्चासुराश्च (बृ.३.३.१) इत्यारभ्य ते ह […]