श्रीभाष्यम् 04-04-06 जगद्व्यापारवर्जाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये जगद्व्यापारवर्जाधिकरणम् ॥६॥ (अधिकरणार्थः – मुक्तात्मनां ब्रह्मणा परमसाम्यं भगवदसाधारणान् धर्मान्विहायैव) ५४०. जगद्व्यापारवर्जं प्रकरणादसन्निहितत्वाच्च ॥ ४–४–१७ ॥ (विचारोपयोगी संशयः) किं मुक्तस्यैश्वर्यं जगत्सृष्ट्यादि परमपुरुषासाधारणं सर्वेश्वरत्वमपि, उत तद्रहितं केवलपरमपुरुषानुभवविषयमिति संशय:। (युक्त्या पूर्वः पक्षः) किं युक्तम् ? जगदीश्वरत्वमपीति। कुत:? निरञ्जन: परमं साम्यमुपैति (मु.३.१.३) इति परमपुरुषेण परमसाम्यापत्तिश्रुते: सत्यसङ्कल्पत्वश्रुतेश्च। (मुक्तैश्वर्यस्य जगन्नियमनाविनाभावशङ्का) न हि परमसाम्यसत्यसङ्कल्पत्वे सर्वेश्वरासाधारणजगन्नियमनेन विनोपपद्येते । अतस्सत्यसङ्कल्पत्वपरमसाम्योपपत्तये समस्तजगन्नियमनरूपमपि मुक्तस्यैश्वर्यमिति ॥ […]
श्रीभाष्यम् 04-04-05 अभावाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अभावाधिकरणम्॥५॥ (अधिकरणार्थः – मुक्तस्यात्मनः सशरीरत्वाशरीरत्वयोर्द्वयोरपि न्याय्यतास्थापनम्) ५३३. अभावं बादिरराह ह्येवम् ॥४–४–१०॥ (विचारार्थः संशयः) किं मुक्तस्य देहेन्द्रियाणि न सन्ति, उत सन्ति, अथवा यथासङ्कल्पं सन्ति न सन्ति चेति विशये – (तत्र बादरेर्मतम्, सप्रमाणम्) शरीरेन्द्रियाणामभावं बादरिराचार्यो मन्यते; कुत:? आह ह्येवं – न ह वै सशरीरस्य सत: प्रियाप्रिययोरपहतिरस्ति। अशरीरं वा व सन्तं न प्रियाप्रिये स्पृशत: (छां.८.१२.१) इति शरीरसम्बन्धे […]
श्रीभाष्यम् 04-04-04 सङ्कल्पाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये संकल्पाधिकरणम्॥४॥ (अधिकरणार्थः – मुक्तात्मनोऽपि ज्ञात्यादिरूपेष्टार्थसम्पत्तिः) ५३१. संकल्पादेव तच्छ्रुते: ॥ ४–४–८॥ (अवान्तरसङ्गतिः – विचारणीयो विषयश्च) मुक्त: परं ब्रह्मोपसम्पद्य ज्ञानस्वरूपोऽपहतपाप्मत्वादिसत्यसङ्कल्पत्वपर्यन्तगुणक आविर्भवतीत्युक्तम्; तमधिकृत्य सत्यसङ्कल्पत्वप्रयुक्ता व्यवहारा: श्रूयन्ते स तत्र पर्येति जक्षत्क्रीडन्रममाण: स्त्रीभिर्वायानैर्वा ज्ञातिभिर्वा (छां.८.१२.३) इति । (विचारोपयोगी संशयः) किमस्य ज्ञात्यादिप्राप्ति: प्रयत्नान्तरसापेक्षा, उत परमपुरुषस्येव सङ्कल्पमात्रादेव भवतीति विशये; (युक्तितः पूर्वः पक्षः) लोके राजादीनां सत्यसंकल्पत्वेन व्यवह्रियमाणानां कार्यनिष्पादने प्रयत्नान्तरसापेक्षत्वदर्शनादस्यापि तत्सापेक्षा – (सूत्रतः […]
श्रीभाष्यम् 04-04-03 ब्राह्माधिकरणम्
श्रीशारीरकमीमांसाभाष्ये ब्राह्माधिकरणम्॥३॥ (अधिकरणार्थः – मुक्तौ आत्मस्वरूपाविर्भावः, विज्ञानस्वरूपेण अपहतपाप्मत्वादिना चेति) ५२८. ब्राह्मेण जैमिनिरुपन्यासादिभ्य: ॥ ४–४–५ ॥ (भावान्तरसङ्गतिप्रदर्शनम्) प्रत्यगात्मन: परं ज्योतिरुपसम्पद्य निवृत्ततिरोधानस्य स्वरूपाविर्भाव एवेत्युक्तम् । (विचारणीयो विषयः, प्रकृतः संशयश्च) तत्र येन स्वरूपेणायमाविर्भवति; तत्स्वरूपं श्रुतिवैविध्याद्विचार्यते। किमपहतपाप्मत्वादिकमेवास्य स्वरूपमिति तेन रूपेणायमाविर्भवति, उत विज्ञानमात्रमेवेति तेन रूपेण, अथोभयोरविरोध इत्युभयरूपेणेति । (जैमिनेर्मतानुवादः) किं तावत्प्राप्तम्? ब्राह्मेणेति जैमिनिराचार्यो मन्यते । ब्राह्मेण – अपहतपाप्मत्वादिनेत्यर्थ:। अपहतपाप्मत्वादयो हि […]
श्रीभाष्यम् 04-04-02 अविभागेनदृष्टत्वाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अविभागेनदृष्टत्वाधिकरणम् (अधिकरणार्थः – मुक्तस्य मोक्षदशायां स्वानुभवः, स्वात्मभूतपरमात्मापृथग्भावेनेति निरूपणम्) ५२७. अविभागेन दृष्टत्वात् ॥ ४–४–४ ॥ (विचारोपयोगी विषयगर्भः संशयः) किमयं परं ज्योतिरुपसम्पन्न: सर्वबन्धविनिर्मुक्त: प्रत्यगात्मा स्वात्मानं परमात्मन: पृथग्भूतमनुभवति, उत तत्प्रकारतया तदविभक्तम् – इति विशये (पूर्वः पक्षः) सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपिश्चता (तै.आन.१.२) यदा पश्य: पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्। तदा विद्वान् पुण्यपापे विधूय निरञ्जन: परमं साम्यमुपैति […]
श्रीभाष्यम् 04-04-01 सम्पद्याविर्भावाधिकरणम्
श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्याये चतुर्थः मुक्तिपाद: (पादार्थः – भक्त्यानुष्ठानतः निष्पन्नमोक्षोपायत्वात् अर्चिरादिना मार्गेण गतानां मुक्तानामैश्वर्यप्रकारस्य चिन्तनम्) सम्पद्याविर्भावाधिकरणम्॥१॥ (अधिकरणार्थः – मुक्तात्मनां ब्रह्मोपसम्पत्या प्राप्यो दशाविशेषः स्वाभाविकस्वरूपाविर्भाव एव) ५२४. सम्पद्याविर्भावस्स्वेनशब्दात् ॥ ४–४–१ ॥ (पादसङ्गत्यर्थं पूर्वोत्तरार्थसङ्क्षेपः) परं ब्रह्मोपासीनानामात्मानं च प्रकृतिवियुक्तं ब्रह्मात्मकमुपासीनानामर्चिरादिना मार्गेणापुनरावृत्तिलक्षणा गतिरुक्ता; इदानीं मुक्तानामैश्वर्यप्रकारं चिन्तयितुमारभते । (प्रकृतविचारार्थः संशयः) इदमाम्नायते – एवमेवैष संप्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते (छा.८.१२.२) इति। किमस्माच्छरीरात्समुत्थाय परज्योतिरुपसम्पन्नस्य […]
श्रीभाष्यम् 04-03-05 कार्याधिकरणम्
श्री शारीरकमीमांसाभाष्ये कार्याधिकरणम्॥६॥ (अधिकरणार्थः – अर्चिरादिरातिवाहिको गणः ब्रह्मात्मकं प्रकृतिवियुक्तात्मानं च उपासीनानेव ब्रह्मपदं नयति, न तु कार्यं हिरण्यगर्भादिकमुपासीनान्) ५१४. कार्यं बादरिरस्य गत्युपपत्ते: ॥ ४–३–६ ॥ (अवान्तरसङ्गतिप्रदर्शनम्) अर्चिरादिनैव गच्छति विद्वान्; अर्चिरादिरमानवान्तश्च गण आतिवाहिको विद्वांसं ब्रह्म गमयतीत्युक्तम्। (प्रकृताधिकरणार्था चिन्ता) इदमिदानीं चिन्त्यते । किमयमर्चिरादिको गण: कार्यं हिरण्यगर्भमुपासीनान्नयति, उत परमेव ब्रह्मोपासीनान्, अथ परं ब्रह्मोपासीनान् प्रत्यगात्मानं ब्रह्मात्मकतयोपासीनांश्च – इति विशये – […]
श्रीभाष्यम् 04-03-04 आतिवाहिकाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये आतिवाहिकाधिकरणम् (अधिकरणार्थः – ब्रह्मप्रेप्सोर्मध्येमार्गं श्रुतानामर्चिरादीनाम्, अतिवोढृदेवताविशेषत्वमेव न मार्गचिह्नत्वं, नापि भोगभूमित्वम्) ५१२. आतिवाहिकास्तल्लिङ्गात् ॥ ४–३–४ ॥ (अधिकरणोपयोगिनी चिन्ता) इदमिदानीं चिन्त्यते – किमर्चिरादयो मार्गचिह्नभूता:, उत भोगभूमय:, अथवा विदुषां ब्रह्म प्रेप्सतामतिवोढार: इति किं तावद्युक्तम्? मार्गचिह्नभूता इति । कुत:? उपदेशस्य तथाविधत्वात्; दृश्यते हि लोके ग्रामादीन् प्रति गन्तॄणामेवंविधो देशिकैरुपदेश: – इतो निष्क्रम्यामुकं वृक्षममुकां नदीममुकं च पर्वतपार्श्वं गत्वाऽमुकं ग्रामं गच्छ […]
श्रीभाष्यम् 04-03-03 वरुणाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये वरुणाधिकरणम्॥३॥ (अधिकरणार्थः – अर्चिरादिपथगतस्य वरुणस्य विदुषोऽनन्तरमेव) ५११. तटितोऽधि वरुणस्सम्बन्धात् ॥ ४–३–३ ॥ (पूर्वोक्तार्थदृढीकरणपूर्वकं निरूपणीयांशोपस्थापनम्) कौषीतकिनां, स एतं देवयानं पन्थानमापद्याग्निलोकमागच्छति स वायुलोकं स वरुणलोकं स आदित्यलोकं स इन्द्रलोकं स प्रजापतिलोकं स ब्रह्मलोकम् (कौषी.१.३) इत्यत्राग्निलोकशब्दस्यार्चि: पर्यायत्वेन प्राथम्यमविगीतम् । वायोश्च संवत्सरादूर्ध्वं निवेश उक्त: । आदित्यस्याप्यत्र प्राप्तपाठक्रमबाधेन देवलोकादादित्यमादित्याद्वैद्युतम् (बृ.८.२.१५) इति वाजसनेयकोक्तश्रुतिक्रमाद्देवलोक-शब्दाभिहिताद्वायोरुपरि निवेशस्सिद्ध:। इदानीं वरुणेन्द्रादिषु चिन्ता। (विचारौपयिकः संशयः) किमेते […]
श्रीभाष्यम् 04-03-02 वाय्वधिकरणम्
श्रीशारीरकमीमांसाभाष्ये वाय्वधिकरणम्॥२॥ (अधिकरणस्यार्थः – अर्चिरादिपथगत वायु-देवलोक शब्दयोरेकार्थता, अतः तत्र गच्छतां आदित्यतः पूर्वं वायोरेव प्राप्तिः) ५१०. वायुमब्दादविशेषविशेषाभ्याम् ॥४–३–२॥ (विचारणीयविषयोपस्थापनम् तदर्थं विषयशोधनं च) अर्चिरादिनैव गच्छन्ति विद्वांस इत्युक्तम्; तत्रार्चिरादिके मार्गे छन्दोगा: मासादित्ययोरन्तराले संवत्सरमधीयते, मासेभ्य: संवत्सरं संवत्सरादादित्यम् (छा.४.१५.५) इति। वाजसनेयिनस्तु तयोरेवान्तराले देवलोकं मासेभ्यो देवलोकं देवलोकादादित्यम् (बृ.८.२.१५) इति। उभयत्रापि मार्गस्यैकत्वादुभावुभयत्रोपसंहार्यौ। तत्र मासादूर्ध्वमभिहितयोस्संवत्सरदेवलोकयो: पञ्चम्याऽभिहितस्य श्रौतक्रमस्य तुल्यत्वेऽपि अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्यमाणपक्षाद्यान् षडुदङ्ङेतिमासांस्तान् (छां.४.१५.५) इत्यधिककालानां […]