श्रीभाष्यम् 04-02-02 मनोऽधिकरणम्
श्रीशारीरकमीमांसाभाष्ये मनोऽधिकरणम्॥२॥ (अधिकरणार्थः – सर्वेन्द्रिययुक्तस्य मनसः संयोगरूपा प्राणे सम्पत्तिः) ४९१. तन्मन: प्राण उत्तरात् ॥ ४–२–३ ॥ (सूत्रविवृत्या सिद्धान्तार्थवर्णनम्) तत् – सर्वेन्द्रियसंयुक्तं मन: प्राणे सम्पद्यते – प्राणेन संयुज्यते; न मनोवृत्तिमात्रम्। कुत:? उत्तरात् – मन: प्राणे (छा.६.८.६) इति वाक्यात्। (अधिकरणौपयिकी अधिकाशङ्का) अधिकाशङ्का तु अन्नमयं हि सोम्य मन: (छा.६.६.५) इति वचनान्मनसोऽन्नप्रकृतित्वमवगम्यते; अन्नस्य च ता अन्नमसृजन्त (छा.६-२-४) इत्यम्मयत्वं सिद्धम्, […]
श्रीभाष्यम् 04-02-01 वागधिकरणम्
श्रीभगवद्रामानुजविरचिते श्रीशारीरकमीमांसाभाष्ये चतुर्थे फलाध्याये–द्वितीय: उत्क्रान्तिपाद: (अधिकरणानि – 11, सूत्राणि 20) (पादार्थः – ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता) वागधिकरणम्॥१॥ (अधिकरणार्थः – ब्रह्मविदुषो गतिप्रकारचिन्तायां प्रथममुत्क्रान्तिचिन्ता) ४८९. वाङ्मनसि दर्शनाच्छब्दाच्च ॥ ४–२–१ ॥ (अधिकरणार्थः – प्रयतो जीवस्योक्ता वाचो मनसि सम्पत्तिः, वाक्स्वरूपसम्पत्तिरेव, न तु तद्वृत्तिमात्रस्य) इदानीं विदुषो गतिप्रकारं चिन्तयितुमारभते । प्रथमं तावदुत्क्रान्तिश्चिन्त्यते। तत्रेदमाम्नायते अस्य सोम्य पुरुषस्य प्रयतो वाङ्मनसि सम्पद्यते मन: प्राणे प्राणस्तेजसि तेज: […]
श्रीभाष्यम् 04-01-11 इतरक्षपणाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये इतरक्षपणाधिकरणम् (अधिकरणार्थः – विदुषो ब्रह्मसम्पत्तिः, आरब्धकार्यपुण्यपापयोः फलभोगेन क्षपणानन्तरमेव) ४८८. भोगेन त्वितरे क्षपयित्वाऽथ संपद्यते ॥ ४–१–१९ ॥ (विचारौपयिकः संशयः) ययो: पुण्यपापयोरश्लेषविनाशावुक्तौ, ताभ्यामितरे आरब्धकार्ये पुण्यपापे किं विद्यायोनिशरीरावसाने, उत तच्छरीरावसाने शरीरान्तरावसाने वेत्यनियम इति संशये, (युक्त्या पूर्वः पक्षः) तस्य तावदेव चिरं यावन्न विमोक्ष्ये (छा.६.१४.२) इति तच्छरीरविमोक्षावसानत्वश्रवणात् तदवसाने ॥ (सूत्रार्थतः सिद्धान्तः) इति प्राप्त उच्यते – भोगेन तु इति। […]
श्रीभाष्यम् 04-01-10 अग्निहोत्राद्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अग्निहोत्राद्यधिकरणम् (अधिकरणार्थः – अग्निहोत्रादिकं नित्य-नैमित्तिकरूपं कर्म अनुष्ठेयविद्यार्थत्वात् अवश्यं कर्तव्यमेव) ४८५. अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ ४–१–१६ ॥ (अवान्तरसङ्गतिः) इतरस्याप्येवमसंश्लेष: (शारी.४-१-१४) इति विद्याबलात्सुकृतस्याप्यसंश्लेष उक्त:, (पूर्वपक्षः युक्त्या) अग्निहोत्रादीनां नित्यनैमित्तिकानां स्वाश्रमधर्माणामपि सुकृतत्वसामान्येन तत्फलस्याश्लेषादनिच्छतोऽननुष्ठाने प्राप्त (सूत्रतः सिद्धान्तः) उच्यते, अग्निहोत्रादि तु – इति। तुशब्दस्सुकृतान्तरेभ्यो विशेषणार्थ:; अग्निहोत्रादि आश्रमधर्मा: फलाश्लेषासम्भवादनुष्ठेया एव; तदसम्भवश्च तत्कार्यार्थत्वात्तेषाम्; विद्याख्यकार्यायैव हि विदुषोऽग्निहोत्राद्यनुष्ठानम्; कथमिदमवगम्यते? तद्दर्शनात्; दृश्यते हि तमेतं […]
श्रीभाष्यम् 04-01-09 अनारब्धकार्याधिकरणम्
श्रीशारीरकमीमांसाभाष्ये अनारब्धकार्याधिकरणम्॥९॥ (अधिकरणार्थः – भगवदुपासकस्योक्तः सुकृतादिविनाशः फलदानप्रवृत्तपुण्यपापमात्रविषयः) ४८४. अनारब्धकार्ये एव तु पूर्वे तदवधे: ॥ ४–१–१५ ॥ (अवान्तरसङ्गतिः) ब्रह्मविद्योत्पत्ते: पूर्वोत्तरभाविनोस्सुकृतदुष्कृतयोरश्लेषविनाशावुक्तौ । (विचारोपयोगी संशयः) तत: पूर्वभाविनो: सुकृतदुष्कृतयो: किमविशेषेण विनाश:, उतानारब्धकार्ययोरेवेति विशये – (युक्त्या पूर्वः पक्षः) सर्वे पाप्मान: प्रदूयन्ते (छा.५.२४.३) इति विद्याफलस्याविशेषश्रवणाद्विद्योत्पत्युत्तर-कालभाविन्याश्च शरीरस्थिते: कुलालचक्रभ्रमणादिवत् संस्कारवशादप्युपपत्तेरविशेषेण – (सूत्रार्थतः सिद्धान्तः) इति प्राप्ते उच्यते: अनारब्धकार्ये एव तु पूर्वे – इति […]
श्रीभाष्यम् 04-01-08 इतराधिकरणम्
श्रीशारीरकमीमांसाभाष्ये इतराधिकरणम्॥८॥ (अधिकरणस्यार्थः – ब्रह्मविदो निष्पन्नोपासनस्य पापानामिव पुण्यामप्यश्लेष-विनाशौ) ४८३. इतरस्याप्येवमसंश्लेष: पाते तु ॥ ४–१–१४ ॥ (पुण्येऽप्युक्तन्यायातिदेशः) उत्तरपूर्वाघयोर्विद्यया अश्लेषविनाशावुक्तौ; इतरस्य – पुण्यस्यापि एवम् – उक्तेन न्यायेनाश्लेषविनाशौ विद्यया स्याताम्, विद्याफलविरोधित्वसामान्याद्व्यपदेशाच्च । भवति च व्यपदेश: – उभे सुकृतदुष्कृते निर्दिश्य सर्वे पाप्मानोऽतो निवर्तन्ते (छा.८.४.१) इति, तत्सुकृतदुष्कृते धूनुते (कौषी.१.४) इति च। मुमुक्षोरनिष्टफलत्वात्सुकृतस्यापि पाप्मशब्देन व्यपदेश:। (सौत्रस्य न्यायातिदेशस्य प्रयोजनम्) सुकृतस्यापि शास्त्रीयत्वात्तत्फलस्य केषांचिदिष्टत्वदर्शनाच्च […]
श्रीभाष्यम् 04-01-07 तदधिगमाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये तदधिगमाधिकरणम्॥७॥ (अधिकरणार्थः – ब्रह्मविद्यालाभे सति तन्माहात्म्यात् पश्चात्तनानां पाप्मनामश्लेषः, प्राक्तनानां च तेषां विनाशश्च) ४८२. तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेशात् ॥ ४–१–१३ ॥ (पेटिकासङ्गतिः) एवं विद्यास्वरूपं विशोध्य विद्याफलं चिन्तयितुमारभते । (विचारणीयविषयोपस्थापनम्) ब्रह्मविद्याप्राप्तौ पुरुषस्योत्तर-पूर्वाघयोरश्लेषविनाशौ श्रूयेते तद्यथा पुष्करपलाश आपो न श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते (छा.४.१४.३) तस्यैवाऽत्मा पदवित्तं विदित्वा न कर्मणा लिप्यते पापकेन (बृ.६.४.२३) इत्युत्तराघाश्लेष: तद्यथेषीकतूलमग्नौ प्रोतं प्रदूयेतैवं हास्य […]
श्रीभाष्यम् 04-01-06 आप्रयाणाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये आप्रयाणाधिकरणम्॥६॥ (अधिकरणार्थः मोक्षोपायभूतं ध्यानं देहपातं यावत् प्रत्यहमनुवर्तनीयम्, न तु एकस्मिन्नेवाहनि निर्वर्त्यम्) ४८१. आप्रयाणात्तत्रापि हि दृष्टम् ॥ ४–१–१२ ॥ (अधिकरणीयः संशयः) तदिदमपवर्गसाधनमुक्तलक्षणमुपासनमेकाह एव संपाद्यम्, उताप्रयाणात्प्रत्यहं अनुवर्तनीयमिति विशये (युक्त्या पूर्वःपक्षः) एकस्मिन्नेवाहनि शास्त्रार्थस्य कृतत्वात्तावतैव परिसमापनीयम् (सिद्धान्तः सूत्रतः) इति प्राप्त उच्यते – आप्रयाणात् – इति। आमरणादनुवर्तनीयम्; कुत:? तत्रापि हि दृष्टम् – उपासनोद्योगप्रभृत्याप्रयाणान्मध्ये य: काल: तत्र सर्वत्रापि दृष्टमुपासनं, स […]
श्रीभाष्यम् 04-01-05 आसीनाधिकरणम्
श्रीशारीरकमीमांसाभाष्ये आसीनाधिकरणम्॥५॥ (अधिकरणार्थः – मोक्षार्थोपासनरूपं ध्यानं सापाश्रये आसीनस्यैव पुरुषस्य) ४७६. आसीनस्सम्भवात् ॥ ४–१–७ ॥ (अवान्तरसङ्गतिप्रदर्शनम्) मोक्षसाधनतया वेदान्तशास्त्रैर्विहितं ज्ञानं ध्यानोपासनादिशब्दवाच्यमसकृदावृत्तं सन्ततस्मृतिरूपमित्युक्तम्। (संसयगर्भितः पूर्वपक्षः) तदनुतिष्ठन्नासीनश्शयानस्तिष्ठन् गच्छंश्च विशेषाभावात् अनियमेनानुतिष्ठेत् – (सिद्धान्तार्थः सूत्रतः) इति प्राप्ते उच्यते – आसीन: इति । आसीन उपासनमनुतिष्ठते; कुत:? सम्भवात् – आसीनस्यैव ह्येकाग्रचित्ततासम्भव:; स्थितिगत्यो: प्रयत्नसापेक्षत्वात्, शयने च निद्रासम्भवात्। पश्चार्धधारणप्रयत्ननिवृत्तये सापाश्रये आसीन: कुर्यात्॥ ७॥ (ध्यानकाले ऐकाग्र्यस्यावश्यकता) […]
श्रीभाष्यम् 04-01-04 आदित्यादिमत्यधिकरणम्
श्रीशारीरकमीमांसाभाष्ये आदित्यादिमत्यधिकरणम्॥ (अधिकरणार्थः – क्रत्वङ्गाश्रितेषूपासनेषु उद्गीथादावेव आदित्यादिदृष्टिः कार्या, न आदित्यादावुद्गीथादिदृष्टिः) ४७५. आदित्यादिमतयश्चाङ्ग उपपत्ते: ॥ ४–१–६ ॥ (विषयसंशयौ) य एवासौ तपति तमुद्गीथमुपासीत (छा.१.३.१) इत्यादिषु कर्माङ्गाश्रयेषूपासनेषु संशय: – किमुद्गीथादौ कर्माङ्गे आदित्यादिदृष्टि: कर्तव्या, उतादित्यादिषूद्गीथादिदृष्टि: इति । उत्कृष्टदृष्टिर्निकृष्टे कर्तव्येति न्यायात्, उद्गीथादीनां च फलसाधनभूतकर्माङ्गत्वेनाफलेभ्य आदित्यादिभ्य: उत्कृष्टत्वादादित्यादिषूद्गीथादिदृष्टि:- (सूत्रार्थतः सिद्धान्तः) इति प्राप्तेऽभिधीयते – आदित्यादिमतयश्चाङ्गे – इति। चशब्दोऽवधारणे; क्रत्वङ्गे उद्गीथादावादित्यादिदृष्टय एव कार्या:; कुत:? […]