तत्त्वसारः – Vyakya
श्रीरस्तु श्रीमते रामानुजाय नमः श्रीवत्सकुलतिलकैः वरदाचार्यैः समनुगृहीतः तत्त्वसारः। रत्नसारिणीव्याख्यासहितः। (मु.) – श्रीविष्णुचित्तपदपङ्कजसंगमाय चेतो मम स्पृहयते किमतः परेण । नो चेन्ममापि यतिशेखरभारतीनां भावः कथं भवितुमर्हति वाग्विधेयः ।। 1 ।। ओं नमो भक्तिसाराय व्यवसायात्मने हरेः । दैत्यान् प्रच्छन्नदैत्यान् वा शस्त्रैः शास्त्रैर्विधून्वते ।। अव. – भगवान् वरदगुरुः, चिकीर्षितस्य ग्रन्थस्याविघ्नेन परिसमाप्त्यर्थं स्मृत्याचारसिद्धं मङ्गळमाचरति —- श्रीविष्णुचित्तेत्यादि व्या. – (मम चेतः) श्रीविष्णुचित्तस्य –विष्णुः चित्ते […]
तत्त्वसारः – Moolam
श्रीरस्तु श्रीमते रामानुजाय नमः श्रीवत्सकुलतिलकैः वरदाचार्यैः समनुगृहीतः तत्त्वसारः रम्यजामातृरूपेण योऽवतीर्णो यतीशिता। विना तस्य पदाब्जाते न मेऽस्ति शरणं क्वचित् ॥ वंदेऽहं वरदार्यं तं वत्साभिजनभूषणम् । भाष्यामृतप्रदानाद्यः संजीवयति मामपि ।। (मंगलाचरणम्) श्रीविष्णुचित्तपदपंकजसंगमाय चेतो मम स्पृहयते किमतः परेण । नो चेन्ममापि यतिशेखरभारतीनां भावः कथं भवितुमर्हति वाग्विधेयः ॥२॥ (स्वाहंकारखण्डनम्) क्व पथि विदुषामेषा प्रौढिः श्रियःप्रभुणा शपे मशकशकनं मन्ये मादृक्प्रभावनिदर्शनम् । […]