वेदान्तदीप: Ady 02 Pada 02

वेदान्तदीप: ॥अथ द्वितीयाध्याये द्वितीय: पाद:॥ २–२–१ १७५।  रचनानुपपत्तेश्च नानुमानं प्रवृत्तेश्च – साङ्ख्यतन्त्रसिद्ध: प्रधानकरणवाद: किं समीचीनयुक्तिमूल:, उत नेति संशय:।  समीचीनयुक्तिमूल इति पूर्व: पक्ष:।  घटादिवद्विचित्रसन्निवेशं जगत्कार्यम् तद्वदेव स्वसरूपकारणविशेषारब्धम्। सुखदु:खमोहाद्यात्म-कतया सत्त्वाद्यात्मकं जगत्सत्त्वरजस्तमोमूलकम्। तत्र महदादिपृथिव्यन्तानां घटादिवत् परिणामित्वेन कारणापेक्षित्वाविशेषात् ते जगदुत्पत्तौ कारणकाष्ठा न भवन्ति। तेषां परिमितत्वेन अपरिमितजगदुत्पादनाशक्ते:। अन्यूनानतिरिक्तानि साम्यावस्थान्यपरिमितानि सत्त्वरजस्तमांसि अव्यक्तप्रधानादिशब्दाभिधेयानि जगत्कारणम्।  राद्धान्तस्तु – रथप्रासादादिहेतुभूतदार्वादिवदचेतनं प्रधानं स्वस्वभावाद्यभिज्ञचेतनानधिष्ठितं विचित्रजगद्रचनासमर्थमिति न केवलं […]

वेदान्तदीप: Ady 02 Pada 01

वेदान्तदीप: ॥अथ द्वितीयाध्याये प्रथम: पाद:॥ २–१–१ १३९। स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृतनवकाशदोषप्रसङ्गात् –  वेदान्तानां समस्तचिदचिद्वस्तुविलक्षणास्पृष्टहेयगन्धसर्वज्ञताद्यनन्तकल्याणगुणाकरब्रह्मैकपरत्वं प्रतिपादितं। कपिलस्मृतिविरोधेन चालयितुं शक्यम्, उत नेति संशय:। शक्यमिति पूर्व: पक्ष:, श्रुतिविरुद्धाया: स्मृतेरनादरणीयत्वे स्थितेऽपि वेदान्तवेद्यार्थस्य दुर्ग्रहत्वेन अल्पश्रुतैर्मन्दमतिभिराप्तप्रणीतस्मृत्युपबृंहणेन विना तेषां निश्चयो नोपपद्यते। कपिलस्मृति: केवलतत्त्वपरेति तयैव ह्युपबृंहणं न्याय्यम्। अन्यथा आप्तप्रणीताया: केवलतत्त्वपरायास्तस्या अनवकाशप्रसङ्ग इति वेदान्तवेद्यं जगत्कारणं प्रधानम्।  राद्धान्तस्तु – वेदान्तस्य उबृंहणापेक्षत्वेऽपि आप्ततममन्वादिस्मृतिभिर्वेदान्ताविरोधिनीभिः एवोपबृंहणं न्याय्यम्, अन्यथा तासां […]

वेदान्तदीप: Ady 01 Pada 04

श्रीभगवद्रामानुजविरचित वेदान्तदीप: ॥अथ प्रथमाध्याये चतुर्थ: पाद:॥  १–४–१ ११०। आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च –  कठवल्लीषु। इन्द्रियेभ्य: परा ह्यर्था अर्थेभ्यश्च परं मन:। मनसश्च परा बुद्धिर्बुद्धेरात्मा महान्पर:। महत: परमव्यक्तमव्यक्तात्पुरुष: पर:।  पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गति: इत्यत्र किं साङ्ख्योक्तं प्रधानमव्यक्तशब्दाभिधेयमुत नेति संशय:।  प्रधानमिति पूर्व: पक्ष:, महत: परमित्यादितत्तन्त्रप्रक्रियाप्रत्यभिज्ञानात्, पुरुषान्नपरं किञ्चित् इति पञ्चविंशकपुरुषातिरिक्त-तत्त्वनिषेधाच्च।  राद्धान्तस्तु – नाव्यक्तशब्देन प्रधानमिह गृह्यते। पूर्वत्र […]

वेदान्तदीप: Ady 01 Pada 03

श्रीभगवद्रामानुजविरचित वेदान्तदीप: ॥ प्रथमाध्याये तृतीय: पाद: ॥ १।३।१ ६६  द्युभ्याद्यायतनं स्वशब्दात् – आथर्वणे यस्मिन् द्यौ: पृथिवी चान्तरिक्षमोतं मनस्सह प्राणैश्च सर्वैस्तमेवैकं जानथात्मानमन्या वाचो विमुञ्चथ अमृतस्यैष सेतु: इत्यत्र द्युपृथिव्यादीनामायतनं किं जीव:, उत परमात्मेति संशय:। जीव इति पूर्व: पक्ष:, मन: प्रभृतीन्द्रियाधारत्वश्रुते:, उत्तरत्र नाडीसंबन्धात्, जायमानत्वश्रुतेश्च। राद्धान्तस्तु निरुपाधिकात्मत्वामृतसेतुत्वयो: परमात्मधर्मयो: श्रवणात्परमात्मैवायम्।  सर्वं नियन्तृतया आप्नोतीति ह्यात्मा।  अमृतस्य प्रापकतया सेतुश्च स एव।  नाडीसंबन्ध:, […]

वेदान्तदीप: Ady 01 Pada 02

श्रीभगवद्रामानुजविरचित वेदान्तदीप: ॥अथ प्रथमाध्याये द्वितीय: पाद:॥ १।२।१ ३३।  सर्वत्र प्रसिद्धोपदेशात् – छान्दोग्ये श्रूयते सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत, अथ खलु क्रतुमयोऽयं पुरुषो यथा क्रतुरस्मिल्लोके पुरुषो भवति तथेत: प्रेत्य भवति स क्रतुं कुर्वीत मनोमय: प्राणशरीर: इति।  अत्र सर्वं खल्विदं ब्रह्म इति सर्वात्मकत्वेन निर्दिष्टं ब्रह्म किं प्रत्यगात्मा, उत परमात्मेति संशय:। प्रत्यगात्मेति पूर्व: पक्ष:। सर्वत्र तादात्म्योपदेशो हि […]

वेदान्तदीप: Ady 01 Pada 01

श्रीभगवद्रामानुजविरचित वेदान्तदीप: प्रथमाध्याये प्रथम: पाद: श्रिय: कान्तोऽनन्तो वरगुणगणैकास्पदवपु: हताशेषावद्य: परमखपदो वाङ्मनसयो:। अभूमिर्भूमिर्यो नतजनदृशामादिपुरुषो मनस्तत्पादाब्जे परिचरणसक्तं भवतु मे ।। प्रणम्य शिरसाऽऽचार्यांस्तदादिष्टेन वर्त्मना। ब्रह्मसूत्रपदान्तस्थवेदान्तार्थ: प्रकाश्यते ।। अत्रेयमेव हि वेदविदां प्रक्रिया – अचिद्वस्तुनस्स्वरूपतस्स्वभावतश्चात्यन्तविलक्षण: तदात्मभूतः चेतन: प्रत्यगात्मा । तस्माद्बद्धान्मुक्तान्नित्याच्च निखिलहेयप्रत्यनीकतया, कल्याणगुणैकतानतया च, सर्वावस्थचिदचिद्व्यापकतया, धारकतया, नियन्तृतया, शेषितया चात्यन्तविलक्षण: परमात्मा । यथोक्तं भगवता – द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च।  क्षरस्सर्वाणि […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.