विषयवाक्यदीपिका वाक्यान्वयाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। वाक्यान्वयाधिकरणम् वाक्यान्वयात् ।1।4।19।।बृहदारण्यके चतुर्थे षष्ठे च मैत्रेयीब्राह्मणं किंचिद्भेदभिन्नमाम्नातम् । तत्र चतुर्थेमैत्रेयी ब्राह्मणं व्याख्यायते ।।मैत्रेयीति होवाच याज्ञवल्क्यः ।।मित्रायाः अपत्यं मैत्रेयी तां मैत्रेयीत्यामंत्र्याह ।।उद्यास्यन्वाअहमस्मात्स्थानादस्मि हंत तेऽनया कात्यायन्यांतं करवाणीति ।।मैत्रेयि । अहमस्मात्स्थानात् गार्हस्थ्यलक्षणादाश्रमादुद्यास्यन्नस्मि ऊर्ध्वं गंतु मिच्छन्नस्मि । हंत । तव अनया कात्यायन्या सह अंतं युवयोः कलहशांतये द्रव्यविभागनिर्णयं करवाणीति […]
विषयवाक्यदीपिका जगद्वाचित्वाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। जगद्वाचित्वाधिकरणम् जगद्वाचित्वात् (ब्र.सू.1.4.16)ऋुग्वेदांतर्गतकौषीतकि (की) ब्राह्मणोपनिषदि चतुर्थाध्याये ।।गार्ग्यो ह वै बालाकिरनूचानः सं(सु) स्पष्ट आस ।।बलाकस्यापत्यं बालाकिः गोत्रतो गार्ग्यः । अनूचानः अं (सां) गाध्यायी अं (सां) गाध्याय्यनूचान इति स्मृतेः । संस्पष्टःसम्यग् विद्यया ख्यातः । एवंभूतः सन्नास बभूव ।।स होवासोशीनरेषु सत्त्वमत्स्येषु कुरुपांचालेषु काशीविदेहेष्विति ।।स बालाकिः उशीनरेषु सत्त्वप्रचुरेषु […]
विषयवाक्यदीपिका कारणत्वाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। कारणत्वाधिकरणम् कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः (ब्र.सू.1.4.14)बृहदारण्यके तृतीयाध्याये चतुर्थब्राह्मणे ।।तध्देदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियते ।।ह शब्दो वृत्तार्थस्मरणे । तदिदं मिथुनादिलक्षणं जगत्तर्हि तदा सृष्टेः प्रागव्याकृतमासीद व्यक्तमासीत् । अव्यक्तशरीरकं ब्रह्मासीदित्यर्थः । नामरूपाभ्यां न व्याकृतमितिव्युत्पत्त्याऽव्याकृतशब्दस्याव्यक्तवचनत्वात् । अव्यक्तत्वं च नामरूपविशिष्टतयाऽनभिव्यक्तत्वम् ।अव्याकृतशब्दस्य तच्छरीरकब्रह्मपरत्वे युक्तिः समनंतरमेव स्पष्टयिष्यते । तत् अव्याकृतशरीरकं ब्रह्म । नामरूपाभ्यमितीत्थंभावे तृतीया […]
विषयवाक्यदीपिका चमसाधिकरणं
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। चमसाधिकरणं चमसवदविशेषात् (ब्र.सू.1.4.8)अथमंत्रिकोपनिषत्”विकारजननीमज्ञामष्टरूपामजांघ्रुवाम् ।ध्यायतेऽध्यासिता तेन तन्यते प्रेर्यते पुनः ।।सूयते पुरुषार्थं च तेनैवाधिष्ठिता जगत् ।गौरनाद्यंतवती सा जनित्री भूतभाविनी ।।सितासिता च रक्ता च सर्वकामदुधा विभोः ।पिंबत्येनामविषमामविज्ञाताः कुमारकाः ।।सर्वसाधारणीं दोग्घ्रीं पीड्यमानां तु यज्वभिः ।एकस्तु पिबते देवः स्वच्छंदोऽत्रवशानुगाम् ।।ध्यानक्रियाभ्यां सततं भुङ्क्तेऽसौ प्रसभं विभुः ।चतुर्विंशतिसंख्याकमव्यक्तं व्यक्तमुच्यते ।।” इति ।।विकारजननीमित्यादि […]
विषयवाक्यदीपिका अर्थान्तरत्वादिव्यपदेशाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अर्थान्तरत्वादिव्यपदेशाधिकरणम् सुषुप्त्युक्रांत्योर्भेदेन (ब्र.सू.1.3.43)न संख्योपसंग्रहादपि नानाभावादतिरेकाच्च (ब्र.सू.1.4.10)संध्ये सृष्टिराह हि (ब्र.सू.3.2.1)प्रतिषेधादिति चेन्न शारीरात् (ब्र.सू.4.2.12)एतद्विषयवाक्यार्थनिर्णयाय बृहदारण्यकषष्ठाध्यायगतवाक्यान्यत्यंतोपयुक्तानि व्याख्यायंते ।।अस्तमित आदित्ये याज्ञवल्क्य चंद्रमस्यस्तमिते शांतेऽग्नौ शांतायां वाचि किंज्योतिरेवायं पुरुष इत्यात्मैवास्य ज्योतिर्भवतीत्यात्मनैवायं ज्योतिषास्ते पल्ययते कर्म कुरुते विपल्येतीति ।।स्वप्ने बाह्येंद्रियाणामुपरतत्वादादित्यादिप्रकाशकाभावाच्चात्मैव स्थितिगतिहेतुभूत प्रकाशको भवतीत्यर्थः ।आत्मैवास्यज्योतिरित्यत्रात्मशब्दनिर्दिश्यमानं पुरुषस्वरूपं किमिति पृच्छति ।कतम आत्मेति ।।हृत्कमलमध्यगतः प्राणशब्दितेंद्रियमध्यगः विज्ञानधर्मक […]
विषयवाक्यदीपिका अपशूद्राधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अपशूद्राधिकरणम् शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि (ब्र.सू.1.3.33)छांदोग्ये चतुर्थाध्यायारम्भे ।।जानश्रुतिर्हि पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस ।।जनश्रुतस्या (तेर) पत्यं जानश्रुतिः । ह शब्दः प्रसिद्धौ । पुत्रसंज्ञस्य पुत्रःपौत्रः । तस्यापत्यं पौत्रायणः । श्रद्धापुरःसरं देयमस्य सः श्रद्धादेयः । अर्थिभ्यो बहुदातुं शीलमस्य स बहुदायी । बह्वस्य गेहेऽन्नं पक्तव्य स बहुपाक्यः आस।।स […]
विषयवाक्यदीपिका मध्वधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। मध्वधिकरणम् मध्वादिष्संभवादनधिकारंजैमिनिः (ब्र.सू.1.3.30)छान्दोग्ये तृतीयाध्यायारंभे मधुविद्या प्रस्तूयते ।।असौ वा आदित्यो देवमधु ।।वस्वादीनां देवानामामोदहेतुत्वान्मधु । अत्र मधुत्वदृष्टिः कर्तव्येत्यर्थः । मधुत्वोपयोगिनीं दृष्टिं संपादयति ।।तस्य द्यौरेव तिरश्चीनवँशः ।।तस्यऽऽदित्याख्यमधुनो द्युलोक एवाधारभूतस्तिर्यक्प्रसारितो वंशः ।।अंतरिक्षमपूपः ।।अंतरिक्षं मध्वपूपः । मध्वाश्रयापूपो हि तिरश्चीनवंशलग्नः सन् लंबते एवमंतरिक्षमपि द्युलोकलग्नं लंबत इव भातीत्यतोमध्वपूपत्वम् ।।मरीचयः पुत्राः ।।मरीचिशब्देन […]
विषयवाक्यदीपिका दहराधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। दहराधिकरणम् दहर उत्तरेभ्यः (ब्र.सू. 1.3.13)आकाशोऽर्थान्तरत्वादिव्यपदेशात् (ब्र.सू.1.3.42)न च कार्ये प्रत्यभिसंधिः (ब्र.सू.4.3.13)कृत्स्नभावात्तु गृहिणोपसंहारः (ब्र.सू.3.4.47)इत्यादिविषयवाक्यार्थज्ञानाय प्रायशश्छांन्दोग्याष्टमप्रपाठको व्याख्यायते ।अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म ।।विद्यांतरारम्भदर्शनार्थोऽयमथशब्दः । उपास्यतया सन्निहितस्य परब्रह्मणः स्थानतया नवद्वारवत्त्वादिना च पुरशब्दिते उपासकशरीरे पुण्डरीकाकारमल्पं हृदयाख्यं परस्य ब्रह्मणो वेश्म ।दहरोऽस्मिन्नंतराकाशस्तस्मिन्यदंतस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्य मिति ।अस्मिन्वेश्मनि दहरः सूक्ष्मः आकाशः य […]
विषयवाक्यदीपिका ईक्षतिकर्माधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। ईक्षतिकर्माधिकरणम् ईक्षतिकर्म व्यपदेशात् सः (ब्र.सू.1.3.12)प्रश्नोपनिषदि पंचमप्रश्ने ।अथ हैनं शैष्यं सत्यकामः प्रपच्छ ।।स्पष्टोऽर्थः ।।स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत कतमं वा व स तेन लोकं जयति ।।ह वा इति प्रसिद्ध्यर्थः । तदित्यव्ययं स य इत्येतदधिकारिसामान्यपरम् । अयमर्थः हे भगवन्पूजार्ह । योऽधिकारी मनुष्याणां मध्ये मरणान्तम् एतदोंकारमभिध्यायति […]
विषयवाक्यदीपिका अक्षराधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अक्षराधिकरणम् अक्षरमंबरांतधृतेः (ब्र.सू. 1.3.9)बृहदारण्यके पंचमाध्यायेऽष्टमे गार्गीब्राह्मणे ।।सा होवाच अहं वै वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वा उग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवंतौ शरौ सपत्नातिव्याधिनौ हस्ते धृत्वोपोत्तिष्ठे देवमेव त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थां तौ मे ब्रूहीति ।।काशीदेशभवो विदेहदेशभवो हि शूरवंश्यः उत्सृष्टज्यं धनुः पुनरधिज्यं कृत्वा द्वौ […]