विषयवाक्यदीपिका यथाश्रयभावाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। यथाश्रयभावाधिकरणम् समाहारात् (ब्र.सू.3.3.61)छान्दोग्ये प्रथमप्रपाठके पंचमखण्डे ।।अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरति ॥अपि दुरुद्गीथं वेदनहीनमप्युद्गीथमित्यर्थः । होतृषदनात् होतृकर्तृकोद्गीथ प्रणवैक्यज्ञानादित्यर्थः । होतृषदनेत्यत्र पूर्वपदादिति षत्वम् । अयं भावः । उद्गीथप्रणवैकत्वविज्ञानं होत्रापि कर्त्तव्यमुद्गात्रापि कर्तव्यं, प्रणवे होतुरुद्गीथ उद्गातुश्च कर्तृत्वात् । तत्रोद्गातुरेतादृशैकत्वविज्ञानाभावेन दोषयुक्तमप्युद्गात्रा […]
विषयवाक्यदीपिका पूर्वविकल्पाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। पूर्वविकल्पाधिकरणम् पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् (ब्र.सू.3.3.44)बृहदारण्यके वाजसनेयके अग्निरहस्ये ।।तत् षट्त्रिंशतं सहस्राण्यपश्यदात्मनोऽग्नीनर्कान्मनोमयान्मनश्चितः ॥तन्मन एव षट्त्रिंशत्सहस्रदिनात्मकपुरुषायुषान्तर्गतैकैकदिनप्रभवमानसवृत्तिसङ्धानग्नित्व-दृष्ट्योपास्यमानान्मनश्चितः आत्मनःसंबंधिनः । अत एव अर्कान् अर्चनीयान्मनोमयान्मनोनिष्पाद्यानपश्यदित्यर्थः । कर्मण्यग्न्याख्यायामिति मनश्चीयत इत्यर्थे श्येनचिदादिशब्दवदसौ क्विबन्तो निष्पन्नः मनश्चितो नामाग्नीनित्यर्थः ॥तेषु मनसैवाऽऽधीयन्त मनसाऽचीयन्त मनसैषु ग्रहा अगृह्यन्त मनसाऽस्तुवन्मनसाऽशंसन् ॥एषु मनश्चिदाद्यग्निषु उपयुक्तान्याधानचयनग्रहणस्तोत्रशस्त्राण्यपि मनोनिष्पाद्यान्येवेत्यर्थः । न च सर्वेषां मनोव्यापाराणामग्नित्वदृष्ट्या क्रोडीकृतत्वादाधानचयनग्रहणस्तोत्र शस्त्रादिदृष्टिविषयो […]
विषयवाक्यदीपिका लिङ्गभूयस्त्वाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। लिङ्गभूयस्त्वाधिकरणम् लिंगभूयस्त्वात्तद्धि बलीयस्तदपि (ब्र.सू.3.3.43)तैत्तिरीयके षष्ठप्रश्ने दशमानुवाके ।।दह्रं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसंस्थम् ।तत्रापि दह्रं गगनं विशोकस्तस्मिन्यदंतस्तदुपासितव्यम् ।।अथ यदिदमस्मिन्ब्रह्मपुरे दहरं पुंडरीकं वेश्म दहरोऽस्मिन्नंतराकाशस्तस्मिन्यदंतस्तदन्वेष्टव्यमिति च्छांदोग्योक्तरीत्योपास्यतया सन्निहितस्य परस्य ब्रह्मणः पुरभूतस्योपासकस्य शरीरस्य मध्ये संस्थितं दहरमल्पं विपाप्मं निरस्तपापं परमात्मनोऽवरवेश्मभूतं यद्धृदयपुण्डरीकं तत्रापि यदल्पं विशोकोपलक्षितापहतपाप्मत्वादिगुणकं गगनं गगनवदपरिच्छेद्यं ब्रह्म तस्मिन्नंतश्च यत्तदुभयमप्युपासितव्यमित्यर्थः । अत्र […]
विषयवाक्यदीपिका अन्तरत्वाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अन्तरत्वाधिकरणम् अंतरत्वाधिकरणंसू. ॥ अन्तराभूतग्रामवत्स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् ॥(ब्र.सू.3.3.35)बृहदारण्यके पंचमाध्याये चतुर्थब्राह्मणारम्भे ॥अथ हैनमुषस्तश्चाक्रायणः पप्रच्छ ॥नाम्ना उषस्तः । चक्रस्य गोत्रापत्यम् । नडादिभ्यः फक् । चाक्रायणः ॥याज्ञवल्क्येति होवाच यत्साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वांतरस्तन्मे व्याचक्ष्वेति ।।अपरोक्षादपरोक्षमित्यर्थः । सुपां सुलुगित्यादिना आदादेशः । अपरोक्षत्वं नाम सर्वदेशकालसन्निहितत्वम् । देशकालसन्निकर्षे ह्यापरोक्ष्यदर्शनाद्यदपरोक्षं साक्षाद्ब्रह्म । […]
विषयवाक्यदीपिका वेधाद्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। वेधाद्यधिकरणम् वेधाद्यर्थभेदात् (ब्र.सू.3.3.24)आथर्वणिका उपनिषदारंभे अधीयते ।।शुक्रं प्रविध्य हृदयं प्रविध्य धमनीः प्रविध्य शिरोभिव्रज्य त्रिधा विवृत्त इति ॥अभिचारकर्मणि देवताप्रार्थनार्थो मंत्रः । अस्य चायमर्थः । हे देवते मच्छत्रोः शुक्रं तेजिष्ठमंगं प्रविध्य । लोण्मध्यमैकवचनम् । विदारयेत्यर्थः । हृदयं प्रविध्य हृदयं च विदारयेत्यर्थः । धमनीः – सिराः प्रविध्य […]
विषयवाक्यदीपिका पुरुषविद्याधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। पुरुषविद्याधिकरणम् पुरुषविद्यायामपि चेतरेषामनाम्नात् (ब्र.सू.3.3.24)छान्दोग्ये तृतीयप्रपाठके षोडशखण्डारंभे दीर्घायुष्ट्वफलिका पुरुष विद्या प्रस्तूयते ।।पुरुषो वाव यज्ञस्तस्य यानि चतुर्विँशतिवर्षाणि तत्प्रातःसवनम् ॥षोडशोत्तरशतवर्षपरिमिते पुरुषायुषे आद्यानि चतुर्विंशतिवर्षाणि प्रातः सवनम् । तत्र हेतुमाह ।चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातस्सवनम् ।।प्रातःसवनस्य गायत्रीछंदस्त्वाद् गायत्रीछंदसश्चतुर्विंशत्यक्षरात्मकत्वात् चतुर्विंशतिवर्षे प्रातःसवनत्वाध्यासो युज्यत इति भावः ॥तदस्य वसवोऽन्वायत्ताः ।।अस्योपासकस्य तत्प्रातः सवनं । वसवः […]
विषयवाक्यदीपिका संभृत्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। संभृत्यधिकरणम् संभृतिद्युव्याप्त्यपिचातः (ब्र.सू.3.3.23)तैत्तिरीयके राणायनीयानां खिलेषु च ।।ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्माग्रे ज्येष्ठं दिवमाततान ।ब्रह्म भूतानां प्रथमोऽथ जज्ञे तेनार्हति ब्रह्मणा स्पर्द्धितुं क इति ॥ब्रह्म ब्रह्मणेत्यर्थः । ज्येष्ठा ज्येष्ठानि । सुपां सुलुगिति लुकि नलोपे च रूपम् । वीर्या वीर्याणि । पराक्रमविशेषाः । अत्रापि पूर्ववद्रूपम् । संभृतानि […]
विषयवाक्यदीपिका सम्बन्धाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। सम्बन्धाधिकरणम् सबंधादेवमन्यत्रापि (ब्र.सू.3.3.20)बृहदारण्यके सप्तमाध्याये चतुर्थब्राह्मणादौ ।।हृदयस्य प्रजापतित्वेनोपासनमुक्त्वा सत्यत्वेनोपासनमाह -य एवमेतन्महद्यक्षं प्रथमजं वेद सत्यं ब्रह्मेति सत्यं ह्येव ब्रह्मेति ॥प्रस्तुत्य व्याहृतिशरीरकब्रह्मविद्या श्रूयते ॥तद्यत्सत्यमसौ स आदित्यः य एष एतस्मिन्मंडले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः ।।यत्प्रसिद्धं सत्यमसौ स आदित्यः स क इत्यत्राह । य एष एतस्मिन्मंडले पुरुष इति । य […]
विषयवाक्यदीपिका समानाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। समानाधिकरणम् समान एवं चाभेदात् । (ब्र.सू. 3.3.19)वाजसनेयके च ॥ किं मे वास इति । वागादय ऊचुरापो वास इति तद्विद्वाग्सः श्रोत्रिया अशिष्यन्त आचामन्त्यशित्वा चामन्त्येतमेव तदनमनग्नं कुर्वन्तो मन्यन्ते, तस्मादेवं विदशिष्यन्नाचामेदशित्वा चाचामेदेतमेव तदनमनग्नं कुर्वन्त इति ॥ सू ॥ समान एवं चाभेदात् (ब्र.सू. 3-3-19) । समानाधिकरणम् ॥
विषयवाक्यदीपिका कार्याख्यानाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। कार्याख्यानाधिकरणम् कार्याख्यानादपूर्वम् (ब्र.सू.3.3.18)छान्दोग्ये पंचमप्रपाठके द्वितीयखण्डे ।।स होवाच किं मेऽन्नं भविष्यतीति ।।वागादीन् किंमेऽन्नं भविष्यतीति प्राणः पप्रच्छेत्यर्थः ।।यत्किंचिददमाश्वभ्य आशकुनिभ्य इति होचुः ।।सर्वप्राणिनां यदन्नजातं तत्सर्वं तवेति वागादयः प्रत्यूचुः । श्रुतिः स्वेन रूपेणाह ॥तद्वा एतदनस्यान्नम् ।।यत् किंचिल्लोके प्राणिभिरद्यते तदेतदनस्य प्राणस्यान्नम् । प्राणेनैव तददद्यत इत्यर्थः ।।अनो ह वै नाम […]