विषयवाक्यदीपिका कार्याख्यानाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। कार्याख्यानाधिकरणम् कार्याख्यानादपूर्वम् (ब्र.सू.3.3.18)छान्दोग्ये पंचमप्रपाठके द्वितीयखण्डे ।।स होवाच किं मेऽन्नं भविष्यतीति ।।वागादीन् किंमेऽन्नं भविष्यतीति प्राणः पप्रच्छेत्यर्थः ।।यत्किंचिददमाश्वभ्य आशकुनिभ्य इति होचुः ।।सर्वप्राणिनां यदन्नजातं तत्सर्वं तवेति वागादयः प्रत्यूचुः । श्रुतिः स्वेन रूपेणाह ॥तद्वा एतदनस्यान्नम् ।।यत् किंचिल्लोके प्राणिभिरद्यते तदेतदनस्य प्राणस्यान्नम् । प्राणेनैव तददद्यत इत्यर्थः ।।अनो ह वै नाम […]

विषयवाक्यदीपिका सर्वाभेदाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। सर्वाभेदाधिकरणम्   सर्वाभेदादन्यत्रेमे (ब्र.सू.3.3.10)छान्दोग्ये पंचमप्रपाठकारम्भे प्राणविद्या प्रस्तूयते ।।यो ह वै ज्येष्ठं च श्रेष्ठं च वेद ज्येष्ठश्च ह वै श्रेष्ठश्च भवति ।।ज्येष्ठत्वश्रेष्ठत्वगुणकं प्राणं यो वेद स तत्क्रतुन्यायेन स्वयमपि ज्येष्ठश्च श्रेष्ठश्च भवति । ज्येष्ठत्वं वृद्धत्वम् । “वृद्धस्य च” (अष्टा. 5.3.62) इति वृद्धशब्दस्य ज्यादेशविधानात् । श्रेष्ठत्वं प्रशस्ततमत्वम् […]

विषयवाक्यदीपिका अन्यथात्वाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अन्यथात्वाधिकरणम् अन्यथात्वं शब्दादिति चेन्नाविशेषात् (ब्र.सू.3.3.6)छान्दोग्ये प्रथमप्रपाठकारम्भे ब्रह्मविद्यौपयिकं कर्माङ्गविषयमादावुपासनमुपदिश्यते ॥ओमित्येतदक्षरमुद्गीथमुपासीत ॥उद्गीथभक्त्यवयवभूतम् ओमित्येतदक्षरमुपासीतेत्यर्थः । उद्गीथावयव ओंकारे उद्गीथ शब्दस्य लक्षणा । स्वयमेव श्रुतिरोंकारस्योद्गीथशब्दप्रतिपाद्यत्वे हेतुमाह ।ओमित्युद्गायति ॥लोके ओमिति ह्यारभ्यैवोद्गायति । अत उद्गीथावयवत्वादुद्गीथशब्दप्रतिपाद्यत्वं युक्तमित्यर्थः ॥तस्योपव्याख्यानम् ॥तस्याक्षरस्यैवमुपासनमेवं विभूतिरेवं फलमित्यादिकथनमुपव्याख्यानं क्रियत इति शेषः ॥एषां भूतानां पृथिवी रसः ॥एषां स्थावरजंगमात्मकभूतानां पृथिवी रसः […]

विषयवाक्यदीपिका उभयलिङ्गाधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। उभयलिङ्गाधिकरणम् प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति च भूयः (ब्र.सू. 3.2.21)बृहदारण्यके चतुर्थाध्याये तृतीयब्राह्मणारंभे ॥द्वे वाव ब्रह्मणो रूपे । मूर्त्तं चामूर्त्तं च । मर्त्यं चामृतं च । स्थितं च यच्च । सच्च त्यच्च ॥ब्रह्मणो द्वे शरीरे । वावशब्दः प्रसिद्धौ । मूर्त्तं कठिनम् । अमूर्त्तमकठिनम् । मर्त्यं […]

विषयवाक्यदीपिका तदन्तरप्रतिपत्त्यधिकरणम्

॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। तदन्तरप्रतिपत्त्यधिकरणम् तदन्तरप्रतिपत्तौ रंहति संपरिष्वक्तः प्रश्ननिरूपणाभ्याम् । (ब्र.सू. 3.1.1)छान्दोग्ये पञ्चमप्रपाठके तृतीयखण्डे ॥प्रकृतिविविक्तजीवयाथात्म्यविषयां पंचाग्निविद्यां संसृतिवैराग्याय प्रस्तौति ।।श्वेतकेतुर्हारुणेयः पंचालानाँ समितिमेयाय ।।अरुणस्यापत्यमारुणिः । तस्यापत्यमारुणेयः पंचालानां जनपदानां समितिं सभामाजगाम ।।तँ ह प्रवाहणो जैवलिरुवाच ।।जीवलस्यापत्यं जैवलिः नामतः प्रवाहणः पंचालराज उक्तवान् ।।कुमारानु त्वा शिषत्पितेति ।।हे कुमार त्वां तव पिता अन्वशिषत्किम् । […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.