विषयवाक्यदीपिका जगद्व्यापारवर्जाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। जगद्व्यापारवर्जाधिकरणम् जगद्व्यापारवर्ज्जं प्रकरणादसन्निहितत्त्वाच्च (ब्र.सू.4.4.17)बृहदारण्यके तृतीयाध्याये चतुर्थब्राह्मणे ।।ब्रह्म वा इदमग्र आसीदेकमेव तदेकँ सन्नव्यभवत तच्छ्रेयोरूपमत्यसृजत क्षत्रम् ।।एकत्वादेव विवृद्धं नाभवत् ।तच्छ्रेयोरूपमत्यसृजत् ।।तच्छ्रेष्ठं शरीरमत्यसृजत क्षत्रम् ।।क्षत्रियाख्यं श्रेष्ठं शरीरमसृजत् ।।तदेव प्रपंचयति ।।यान्येतानि देवत्रा क्षत्राणींद्रो वरुणः ।।इत्यादि।।देवत्रा देवेषु । स्पष्टमन्यत् ।।इति जगद्व्यापारवर्जाधिकरणम् ।। क्षेमाय यःकरुणया क्षितिनिर्ज्जरणां भूमावजंृभयत भाष्यसुधामुदारः ।वामागमाध्वगवदावदतूलवातो […]
विषयवाक्यदीपिका कार्याधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। कार्याधिकरणम् कार्यात्यये सहाध्यक्षेणातः परमभिधानात् (ब्र.सू.4.3.9)परामृतात्परिमुच्यंति सर्वे ।।परामृतं परमात्मानं प्राप्येति ल्यब्लोपे पंचमी ।।इति कार्याधिकरणम्
विषयवाक्यदीपिका अर्चिराद्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अर्चिराद्यधिकरणम् अर्चिरादिना तत्प्रथितेः (ब्र.सू.4.3.1)स वायु मागच्छति तस्मै स तत्र विजिहीते यथा रथचक्रस्य खं तेन स ऊर्ध्वमाक्रमते स आदित्यमागच्छति तस्मै स तत्र विजिहीते यथा डंबरस्य खमिति ।।बृहदारण्यकगतम् । रथचक्रं रध्रं यादृग्भवति तथा प्राप्ताय ब्रह्मविदे स वायुर्विजिहीते मार्गप्रदे (वे) शादवयवान्निस्सारयति ।डंबरशब्दो वाद्यविशेषवाची ।।इत्यर्चिराद्यधिकरणम् ।।
विषयवाक्यदीपिका दक्षिणायनाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। दक्षिणायनाधिकरणम् अतश्चायनेपिदक्षिणे (ब्र.सू.4.2.19)तेषां यदा तत्पर्यवैत्यथेममेवाकाशमभिनिष्पद्यंते ।।इति बृहदारण्यकपंचाग्निविद्यागतं वचनम् । तेषां कर्मिणां यदा कर्मपर्यवैति परिक्षीणं भवति ।।ते चंद्रं प्राप्यान्नं भवंति तांस्तत्र देवा यथा सोमं राजानमाप्यायस्वापक्षीय स्वेत्येवमेनाँस्तत्र भक्षयंति ।।तदा ततश्च्युता द्रवीभूता आकाशसादृश्यं प्राप्नुवंतीत्यर्थः ।।इति दक्षिणायनाधिकरणम्
विषयवाक्यदीपिका अध्यक्षाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। अध्यक्षाधिकरणम् सोऽध्यक्षे तदुपगमादिभ्यः (ब्र.सू.4.2.4)प्रश्नोपनिषदि षष्ठप्रश्ने ।।स ईक्षांचक्रे कस्मिन्नहमुत्क्रांते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति स प्राणमसृजतेति ।।मदुत्क्रांतिप्रतिष्ठासहभूतोत्क्रांतिप्रतिष्ठः को वा स्यादिति विचिंत्य प्राणं जीवोऽसृजदित्यर्थः । अत्र जीवस्य प्राणस्रष्टृत्वमदृष्टद्वारा द्रष्टव्यम् ।।इति अध्यक्षाधिकरणं
विषयवाक्यदीपिका वागधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। वागधिकरणम् अत एव च सर्वाण्यनु (ब्र.सू.4.2.2)तस्मादुपशांततेजाः पुनर्भवमिंद्रियैर्मनसि संपद्यमानैर्यच्चित्तस्तेनैष प्राणमायाति ।।इदं च प्रश्नोपनिषद्गतम् । अस्य चायमर्थः । अपगतदेहौष्ण्यः सन्पुनर्जन्मप्राप्तुं मनसि संपद्यमानैरिंद्रियैः सहितं प्राणमीदृश्या मनोवासनयासहित एव सन्नागच्छतीत्यर्थः ।।।। इति वागाधिकरणम् ।।
विषयवाक्यदीपिका आसीनाधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। आसीनाधिकरणम् अचलत्वंचापेक्ष्य ४ । १ ॥ ९ ॥ छान्दोग्येसप्तमाध्यायेषष्ठखंडेभूमविद्यायाम् ॥ ध्यानंवावचित्ताद्भूयः ध्यायतीवष्टथिवीध्यायतीवांतरिक्षम् ॥ घ्यातुः श्रेष्ठयादेवध्यातारंपृथिव्यादयोप्यनुकुवैति। तस्माद्धयानंश्रेष्ठमित्यर्थः॥ यत्रैकाग्रतातत्राविशेषात् ॥ ४ ॥ १ ॥ ११ ॥ श्वेताश्वतरोपनिषदि ॥ समेशुचौशर्करावह्निवालुकाविवर्जितेशब्दजलाशयादिभिः । मनोनुकूलेनतुचक्षुः पीडने गुहानिवाताश्रयणेप्रयोजयेत् ॥ निम्नोन्नतत्वादिरहितेपरिशुद्धे क्षुद्रपाषाण वह्निवालुकारहिते वाद्यध्वनिजलाशयाद्यत्यंत सामीप्यरहिते मनोनुकूलेचक्षुः पोडनादिहेत्वौष्ण्यादिरहिते गुहादिलक्षणनिवातदेशाश्रयणेन योगमनुतिष्ठेदित्यर्थः ॥ इत्यासीनाधिकरणम् ॥
विषयवाक्यदीपिका आवृत्त्यधिकरणम्
॥ श्रीरस्तु ॥ ॥ श्रीमते रामानुजाय नमः॥ ।। विषयवाक्यदीपिका ।। ।।श्रीरङ्गरामानुजमुनिप्रणीता।। आवृत्त्यधिकरणम् आवृत्तिरसकृदुपदेशात् (ब्र.सू.4.1.1)मुण्डकोपनिषदि तृतीयमुण्डके प्रथमखण्डे ।।ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः ।।ज्ञानहेतुभूतपरमात्मप्रसादेन विशुद्धांतःकरणः सन्निरवयवं परमात्मानं ध्यायमानो ध्यायन्ध्यानेन दर्शनसमानाकारज्ञानविशेषेण परमात्मानं साक्षात्करोतीत्यर्थः । कठवल्ली मंत्रोयम् ॥इत्यावृत्त्यधिकरणम् ।।