श्रीघटिकाचलमाहात्म्यम्

श्रीः श्रीमते रामानुजाय नमः महर्षिवेदव्यासविरचिते ब्रह्मकैवर्त्तपुराणान्तर्गते श्रीघटिकाचलमाहात्म्यम्       श्रीमदखण्डभूमण्डलमण्डनायमानचोलसिम्हपुरवरनिकटोल्लसद्घटि-काद्रौ कृतावतारस्य प्रह्लादाह्लादनैकहेतोः निजकटाक्षवीक्षणामृतलहरी-निष्यन्दपोप्लूयमान मरालायमानाञ्जनेयस्य भवगतो नृसिम्हमूर्तेः माहात्म्यप्रतिपादकः व्यासोक्तब्रह्मकैवर्त्तमहापुराणान्तर्गतद्वाविम्शति- सङ्ख्याकाध्यायसम्मितग्रन्थः । ध्यानश्लोक: श्रीवत्साञ्चितवत्समध्यविलसच्छ्रीकौस्तुभोद्यन्मणिः प्राचीनोक्तिविलासिनीप्रविलसच्छ्रीमन्तमुक्तामणिः । शश्वत्सेवकचित्तजाड्यतिमिरप्रच्छेदनद्योमणिः पायान्नो घटिकाद्रिशेखरमणिस्सङ्कल्पचिन्तामणिः ॥ प्रथमोऽध्यायः श्रीपराशरः – अथ ते प्रीतमनसस्सनकाद्यास्सुरर्षयः । ऊचुः प्राञ्जलयस्सर्वे ब्रह्माणम् ब्रह्मवादिनम् ॥ १ ॥ ऋषयः – श्रीमद्वेङ्कटशैलस्य माहात्म्यम् वदता त्वया । मध्ये किञ्चिदुपन्यस्तमिन्द्रद्युम्नस्य वैभवम् ॥ २ ॥ राज्ञस्तस्य महाबाहोः […]

श्रीरङ्गमाहात्म्यम् Part 04

श्रीरङ्गमाहात्म्यम् Part 04  श्रीरङ्गमाहात्म्यम्–१ ०२ राजानं प्रति पक्षीकृत तत्वोपदेशः   मार्कण्डेयः – अथालक्ष्य नृपश्रेष्ठ भूपतिं विनयान्वितम् । शुश्रूषुमनघं दीनं तमुवाच द्विजोत्तमः ।। (१ ) पक्षी – कस्त्वं यस्तत्व नियतां श्रोतुं स्पृहयसे भुवि । वाणीं परमनिर्वाणसुखक्षेमवहामिमाम्।। (२) राजा – सोमवम्शे समुत्पन्नः क्षत्रियोत्तम भूषिते । अयं जयधरो नाम सुतः कीर्तिधरस्य हि ।। (३) कृत्वा पुष्करणी स्नानं रङ्गधामाऽभिवन्द्य […]

श्रीरङ्गमाहात्म्यम् Part 03

श्रीरङ्गमाहात्म्यम् – Part 03 श्रीरङ्गमाहात्म्यम्– ७१ कदम्बतीर्थ कदंबवृक्ष माहात्म्यम् भरद्वाजः सुमहानुच्छ्रितस्कंधः पादपः पर्वतोपमः। आरात्संदृश्यते यस्तु मुनिसंघैर्निषेवितः ।। (१) तथा मंदानिलो वाति दिव्यगंधवहाश्शुभः । श्रूयते च महान् घोषोह्याम्नायानामतोऽपि च।। (२) तत्राश्चर्यं महद्ब्रह्मन्नस्तीति प्रतिभाति मे। आचक्ष्वैतद्गुरो सर्वं विस्तरेण महाद्भुतम्।। (३) वाल्मीकिः – कदंबतीर्थं तद्विद्धि कदंबमुरुशाखिनम् । पादपं पर्वताकारं तपस्विजनसंश्रयम्।। (४) तत्र या तप्यमधुना मामन्वे हि महामुने । […]

श्रीरङ्गमाहात्म्यम् Part 02

श्रीरङ्गमाहात्म्यम् – Part 02 श्रीरङ्गमाहात्म्यम्–३६ चन्द्रकृत–भगवत्स्तुतिः नागदन्तः – यथा च देवदेवेशं परं ब्रह्म सनातनम् । जन्मादिभिरसंस्पृष्टं मनसामप्यगोचरम्।। (१) परं स्तौति स्म तं देवमिन्दुस्तोत्रं च तद्वद । श्रोतुमिच्छामि भगवंत्सर्वार्ति व्यपनुत्तये।। (२) व्यासः – मुने तुभ्यं प्रवक्ष्यामि यथा चन्द्रस्तुतिं पुरा। चक्रे चक्रायुधस्त्येव तथा स्वस्त्ययनं स्तवम्।। (३) चन्द्रः – नमो जगन्मङ्गळदायिने नमो जगत्प्रसूतिस्थितिनाशहेतवे। नमो जगत्पावन नाम कर्मणे नमो […]

श्रीमदहोबिलमाहात्म्यम् Part 3

श्रीः श्रीमते रामानुजाय नमः ॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥ श्रीब्रह्माण्डपुराणे श्रीमदहोबिलमाहात्म्यम् ॥ (Continued) ॥ श्रीमदहोबिलमाहात्म्ये षष्ठोऽध्यायः ॥ ऋषयः कथमेतद्वधम् चक्रे भगवान् पुरुषोत्तमः । कथम् वा ब्रह्मणा दत्तमरक्षत्वरमात्मनः ॥ १ ॥ हिरण्यकशिपोश्चैव प्रह्लादस्य महात्मनः । कथमासीन्महद्वैरम् तन्मेब्रूहि सविस्तरम् ॥ २ ॥ श्रीनारदः विप्रचित्तसुतस्यास्य हिरण्यस्य सुरद्विषः । चत्वारस्तनया आसन् बलवीर्यगुणालयाः ॥ ३ ॥ अनुह्लादश्च ह्लादश्च सम्ह्लादश्चैव धर्मवित् । प्रह्लादश्च महावीर्यो दैत्यवम्शविवर्धनः ॥ ४ ॥ तेषाम् मध्ये महाभागः समदृक् सचराचरे । प्रह्लादः परमाम् भक्तिम् य उवाह जनार्दने ॥ ५ ॥ स तु बाल्ये विवेकात्मा गुरोर्वचनगौरवात् । पपाठ बालवाक्यानि गुरुगेहे महर्षिभिः ॥ ६ ॥ कदाचिद् गुरुणा सार्धम् जगाम पितृमन्दिरम् । पानासक्तस्य पुरतो हिरण्यकशिपोः पदम् ॥ ७ ॥ कराभ्याम् प्रतिजग्राह सुतमुत्थाप्य सोऽसुरः । हिरण्यकशिपु प्राह प्रह्लादम् धर्मवित्तमम् ॥ ८ ॥ सुभाषितम् सारतमम् वत्स प्रह्लाद कथ्यताम् । शिक्षितम् गुरुणा यत्तु कालेनैतावता त्वया ॥ ९ ॥ प्रह्लाद: वक्ष्यामि शृणु तातेदम् सारभूतम् तवाज्ञया । चित्तम् समाहितम् कृत्वा यन्मे मनसि सम्स्थितम् ॥ १० ॥ आदिमध्यान्तरहितमवृद्धिक्षयमव्ययम् । प्रणतोऽस्मि सदानन्दम् सर्वकारणकारणम् ॥ ११ ॥ श्रुत्वैतद्वचनम् घोरम् कोपेन स्फुरिताधरः । तद्गुरुम् प्राक्षितम् प्राह किमेतदिति चिन्तयन् ॥ १२ ॥ किमेतत् कृतवान् मूढो विपक्षस्तुतिसम्युतम् । बालम् हि मूढमाचेख्युः पुनर्मूढमुपागतम् ॥ १३ ॥ गुरुः दैत्येन्द्र मयि कोपोऽयमकाण्डे कल्पितः प्रभो । मयोक्तम् वचनम् किञ्चिन्न गृह्लाति तवात्मजः ॥ १४ ॥ हिरण्यः प्रह्लाद कथ्यतामेतत् शिक्षायाः कस्य […]

श्रीरङ्गमाहात्म्यम् Part 01

श्रीः श्रीमते रामनुजाय नमः श्रीगारुडपुराणे श्रीरङ्गमाहात्म्य-प्रारंभः शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ।। यस्य द्विरदवत्राद्याः पारिषद्याः परश्शतम् । विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ।। व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् । पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ।। व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे। नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ।। नारायणं नमस्कृत्य नरं चैव नरोत्तमम्। देवीं सरस्वतीं व्यासं […]

श्रीमदहोबिलमाहात्म्यम् Part 2

श्रीः श्रीमते रामानुजाय नमः ॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥ श्रीब्रह्माण्डपुराणे श्रीमदहोबिलमाहात्म्यम् ॥ ॥ श्रीमदहोबिलमाहात्म्ये प्रथमोऽध्यायः ॥ नारायणम् नमस्कृत्य नरम् चैव नरोत्तमम् । देवीम् सरस्वतीम् व्यासम् ततो जयमुदीरयेत् ॥ प्रणम्य परमात्मानम् परमानन्दकारणम् । प्रवक्ष्यामि यथापूर्वम् माहात्म्यम् हयमेधसः ॥ १ ॥ पुरा तु जाह्नवीतीरे मुनयः शौनकादयः । कृतात्मानः परप्रीत्या पप्रच्छुर्नारदम् मुनिम् ॥ २ ॥ भगवन् ज्ञानिनाम् […]

श्रीमदहोबिलमाहात्म्यम् Part 1

॥श्रीरस्तु॥ अथ ब्रह्माण्डपुराणोक्त नृसिंहाष्टोत्तर शतनामश्लोकाः हरिः ओम्॥ अस्य श्रीनृसिंहाष्टोत्तर शतनामस्तोत्र महामन्त्रस्य। रुद्रनारदप्रह्लादा ऋषयः। अनुष्टुप्छन्दः। श्रीनरसिंहो देवता॥ ओं क्षं ह्रीं बीजानि, रं श्रीं क्लीं शक्तयः। नमो वज्रनखायेति कीलकम्। मम सकलदुरितक्षयपूर्वक श्रीनृसिंह प्रसादसिद्धिद्वारा सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः॥ ओं क्षं श्रीं रं ह्रीं आं क्लीं नृसिंहाय वज्रनखाय स्वाहेति षडङ्गन्यासः॥ ध्यानम्॥ सिंहास्यं तीक्ष्णदंष्ट्रं तिणयन मुदयद्भानुकोटिप्रकाशं हस्तैर्दम्भोळि धारापटुशितनखरै र्दैवत्यवक्षोविदार्य दत्वा देवव्रजस्याभय […]

श्रीबृन्दारण्यक्षेत्रमाहात्म्यम् Part 2

श्री रुक्मिणीसमेत श्री पार्थसारथि (वेङ्कटकृष्ण) स्वामिने नमः   श्रीबृन्दारण्यक्षेत्रमाहात्म्यम् श्रीशैलेशदयापात्रम् धीभक्त्यादिगुणार्णवम् । यतीन्द्रप्रवणम् वन्दे रम्यजामातरम् मुनिम् । लक्ष्मीनाथसमारम्भाम् नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणम् प्रपद्ये ।। माता पिता युवतयस्तनया विभूतिः सर्वम् यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुलाभिरामम् श्रीमत्तदङ्घ्रियुगलम् प्रणमामि मूर्ध्ना ।। भूतम् सरश्च महदाह्वयभट्टनाथश्रीभक्तिसारकुलशेखरयोगिवाहान् […]

श्रीबृन्दारण्यक्षेत्रमाहात्म्यम् Part 1

श्रीः श्री पार्थसारथि सुप्रभातम् ॥   श्रीशैलेशदयापात्रम् धीभक्त्यादिगुणार्णवम् । यतीन्द्रप्रवणम् वन्दे रम्यजामातरम् मुनिम् ॥ लक्ष्मीनाथसमारम्भाम् नाथयामुनमध्यमाम् । अस्मदाचार्यपर्यन्ताम् वन्दे गुरुपरम्पराम् ॥ यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने । अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणम् प्रपद्ये ॥ माता पिता युवतयस्तनया विभूतिः सर्वम् यदेव नियमेन मदन्वयानाम् । आद्यस्य नः कुलपतेर्वकुलाभिरामम् श्रीमत्तदङ्घ्रियुगलम् प्रणमामि मूर्ध्ना ॥ भूतम् सरश्च महदाह्वयभट्टनाथश्रीभक्तिसारकुलशेखरयोगिवाहान् । भक्ताङ्घ्रिरेणुपरकालयतीन्द्रमिश्रान् श्रीमत्पराङ्कुशमुनिम् […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.