यादवाद्रिदर्शनम् Part 6
श्रीरस्तु श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीसात्त्वतसंहितान्तर्गत–श्रीमद्यादवगिरिमाहात्म्यम् * * * अतः परं प्रवक्ष्यामि भूलोकस्य च विस्तरम् । योजनानामियं पृथ्वी पञ्चाशत्कोटिसंमिता ।। (१) विस्तीर्णा सर्वतो दिक्षु तथा वै कोटियोजना । द्वीपानि सप्त सर्वत्र तावन्तस्तोयराशयः ।। (२) अङ्गुळीयकवत्सर्वे भूमेरुपरि वेष्टिताः । भूभागो मध्यतो जंबूद्वीपमानं कथञ्चन ।। (३) लक्षयोजनविस्तारं सर्वतस्तदनन्तरम् । विस्तारो वारिधेस्तावान् यावद्वीपमनन्तरम् ।। (४) उत्तरोत्तरमेकैकं […]
यादवाद्रिदर्शनम् Part 5
श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीपद्मपुराणान्तर्गत–श्रीमद्यादवगिरिमाहात्म्यम् * * * वसिष्ठः – शृणु राजन्प्रवक्ष्यामि प्रभावं माघमासजम् । यमाकर्ण्य नरो भक्त्या सर्वपापैः प्रमुच्यते ।। (१) पुरा राधन्तरे कल्पे वर्तमाने कृते युगे । कुत्सोऽभूत्समुनिः श्रीमान् ब्रह्मसूनुरकल्मषः ।। (२) स कर्दममुतां कन्याम् उपयेमे विधानतः । तस्याञ्च तस्य पुत्रोऽभूत् कौत्सो वंशविवर्धनः ।। (३) पश्चमेऽब्दे पिता तस्य कुत्सो ब्रह्मोपदिष्टवान् । […]
यादवाद्रिदर्शनम् Part 4
श्रीरस्तु श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीकाशीमाहात्म्यान्तर्गत–श्रीमद्यादवगिरिमाहात्म्यम् * * * अथ प्रथमोऽध्यायः पार्वती – न काशीसदृशं क्षेत्रं वैष्णवं जन्मपावनम् । इति श्रुतं मया कान्त तन्मे विस्तरतो वद ।। (१) न तेऽस्ति सदृशः कश्चित् विष्णुशास्त्रप्रवर्तकः । तद्दासस्तत्परो नित्यं तदीयाराधने रतः ।। (२) न तेऽस्त्यविदितं किञ्चित् त्रिषु लोकेषु सर्वतः । अतो निस्संशयं ब्रूहि काशी येनाऽधिका पुरी […]
यादवाद्रिदर्शनम् Part 3
।। श्रीरस्तु ।। श्रीमते नारायणाय नमः श्रीमते रामानुजाय नमः श्रीमत्स्यपुराणान्तर्गतश्रीमद्यादवगिरिमाहात्म्यम् ॥ हरिः ओम् ॥ अथ प्रथमोऽध्यायः शौनककृत–यादवगिरिवैभवविषयकप्रश्नः श्रीसूतः – श्रीपुण्यारण्यशरणाः पुण्यशीला महाबुधाः । वैभवं क्षेत्रतीर्थानां वर्णितं पापनाशनम् ।। (१) युष्मत्सन्निधिमात्रेण चोदितेन मया द्विजाः । दयाशीलाः प्रसन्नोऽहं किं भूयश्श्रोतुमर्हथ ।। (२) शौनकः – सा ते धर्मविशेषज्ञ सर्वशास्त्रविशारद । गङ्गादिसर्वतीर्थानां क्षेत्राणां पुष्करस्य च ।। (३) कुरुक्षेत्रस्य माहात्म्यं […]
यादवाद्रिदर्शनम् Part 2
यादवाद्रिदर्शनम् Part 2 श्रीयदुगिरिनायकीस्तवः वाधूल–श्रीनिवासार्य–कृपासंपन्न–वैभवम् । कौशिक–श्रीनृसिंहार्यं कल्याणगुणमाश्रये ।। श्रियं देवीमशरणश्श्रये संश्रित-वत्सलाम् । पत्न्या यया भगवतः पारम्यमवगम्यते ।। (१) ईषदुन्मिषितापाङ्गायत्त-तत्त्वत्रयोदयाम् । यतिराजस्नुषामिडे यदुशैलेशवल्लभाम् ।। (२) क्षीराम्भोधितपःफलं कमलिनी-सौगन्ध्य-सारोदयः सर्वस्वं पुरुषोत्तमस्य शरणं चास्माकमार्द्रागसाम् । माङ्गल्यं भुवनोदरस्य महिमा वात्सल्यकारुण्ययोः क्षेमायास्तु सदा समस्तजगतां श्रीर्यादवाद्रीश्वरी ।। (३) मादृक्षशिक्ष्यजनतत् क्षणरक्षणाय प्रेयोनि-योजनचणप्रणयावलोकाम् । नारायणप्रणयिनीं यदुशैलनेत्रीं देवीमनन्यशरणः शरणं प्रपद्ये ।। (४) हे श्रीः […]
यादवाद्रिदर्शनम् Part 1
|| यद्वद्रि सम्बन्धि सन्दोहः || || यादवाद्रिदर्शनम् || Part 1 (सुप्रभात–मङ्गलाशासन–प्रपत्ति–स्तव–माहात्म्यादि–अनेकस्तोत्र–पुरस्स्कृतम्) श्री यदुगिरीश सुप्रभातस्तोत्रदर्शनम् ॐ अस्मद् गुरुभ्यो नमः। अस्मत् परमगुरुभ्यो नमः। अस्मत् सर्वगुरुभ्यो नमः। श्रीमते रामानुजाय नमः श्रीरामसुप्रभातम् कौसल्या-सुप्रजा-राम! पूर्वा सन्ध्या प्रवर्तते । उत्तिष्ठ नरशार्दूल! कर्तव्यं दैवमाह्निकम् ।। (१) (श्री रामायणे विश्वामित्रस्य) श्री कृष्ण सुप्रभातम् उत्तिष्ठोत्तिष्ठ गोविन्द! उत्तिष्ठ गरुडध्वज! उत्तिष्ठ कमलाकान्त! त्रैलोक्यं मङ्गळं कुरु ।। […]