श्रीमदहोबिलमाहात्म्यम् Part 3
श्रीः श्रीमते रामानुजाय नमः ॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥ श्रीब्रह्माण्डपुराणे श्रीमदहोबिलमाहात्म्यम् ॥ (Continued) ॥ श्रीमदहोबिलमाहात्म्ये षष्ठोऽध्यायः ॥ ऋषयः कथमेतद्वधम् चक्रे भगवान् पुरुषोत्तमः । कथम् वा ब्रह्मणा दत्तमरक्षत्वरमात्मनः ॥ १ ॥ हिरण्यकशिपोश्चैव प्रह्लादस्य महात्मनः । कथमासीन्महद्वैरम् तन्मेब्रूहि सविस्तरम् ॥ २ ॥ श्रीनारदः विप्रचित्तसुतस्यास्य हिरण्यस्य सुरद्विषः । चत्वारस्तनया आसन् बलवीर्यगुणालयाः ॥ ३ ॥ अनुह्लादश्च ह्लादश्च सम्ह्लादश्चैव धर्मवित् । प्रह्लादश्च महावीर्यो दैत्यवम्शविवर्धनः ॥ ४ ॥ तेषाम् मध्ये महाभागः समदृक् सचराचरे । प्रह्लादः परमाम् भक्तिम् य उवाह जनार्दने ॥ ५ ॥ स तु बाल्ये विवेकात्मा गुरोर्वचनगौरवात् । पपाठ बालवाक्यानि गुरुगेहे महर्षिभिः ॥ ६ ॥ कदाचिद् गुरुणा सार्धम् जगाम पितृमन्दिरम् । पानासक्तस्य पुरतो हिरण्यकशिपोः पदम् ॥ ७ ॥ कराभ्याम् प्रतिजग्राह सुतमुत्थाप्य सोऽसुरः । हिरण्यकशिपु प्राह प्रह्लादम् धर्मवित्तमम् ॥ ८ ॥ सुभाषितम् सारतमम् वत्स प्रह्लाद कथ्यताम् । शिक्षितम् गुरुणा यत्तु कालेनैतावता त्वया ॥ ९ ॥ प्रह्लाद: वक्ष्यामि शृणु तातेदम् सारभूतम् तवाज्ञया । चित्तम् समाहितम् कृत्वा यन्मे मनसि सम्स्थितम् ॥ १० ॥ आदिमध्यान्तरहितमवृद्धिक्षयमव्ययम् । प्रणतोऽस्मि सदानन्दम् सर्वकारणकारणम् ॥ ११ ॥ श्रुत्वैतद्वचनम् घोरम् कोपेन स्फुरिताधरः । तद्गुरुम् प्राक्षितम् प्राह किमेतदिति चिन्तयन् ॥ १२ ॥ किमेतत् कृतवान् मूढो विपक्षस्तुतिसम्युतम् । बालम् हि मूढमाचेख्युः पुनर्मूढमुपागतम् ॥ १३ ॥ गुरुः दैत्येन्द्र मयि कोपोऽयमकाण्डे कल्पितः प्रभो । मयोक्तम् वचनम् किञ्चिन्न गृह्लाति तवात्मजः ॥ १४ ॥ हिरण्यः प्रह्लाद कथ्यतामेतत् शिक्षायाः कस्य […]
श्रीमदहोबिलमाहात्म्यम् Part 2
श्रीः श्रीमते रामानुजाय नमः ॥ श्रीमते श्रीलक्ष्मीनृसिम्हपरब्रह्मणे नमः ॥ ॥ श्रीब्रह्माण्डपुराणे श्रीमदहोबिलमाहात्म्यम् ॥ ॥ श्रीमदहोबिलमाहात्म्ये प्रथमोऽध्यायः ॥ नारायणम् नमस्कृत्य नरम् चैव नरोत्तमम् । देवीम् सरस्वतीम् व्यासम् ततो जयमुदीरयेत् ॥ प्रणम्य परमात्मानम् परमानन्दकारणम् । प्रवक्ष्यामि यथापूर्वम् माहात्म्यम् हयमेधसः ॥ १ ॥ पुरा तु जाह्नवीतीरे मुनयः शौनकादयः । कृतात्मानः परप्रीत्या पप्रच्छुर्नारदम् मुनिम् ॥ २ ॥ भगवन् ज्ञानिनाम् […]
श्रीमदहोबिलमाहात्म्यम् Part 1
॥श्रीरस्तु॥ अथ ब्रह्माण्डपुराणोक्त नृसिंहाष्टोत्तर शतनामश्लोकाः हरिः ओम्॥ अस्य श्रीनृसिंहाष्टोत्तर शतनामस्तोत्र महामन्त्रस्य। रुद्रनारदप्रह्लादा ऋषयः। अनुष्टुप्छन्दः। श्रीनरसिंहो देवता॥ ओं क्षं ह्रीं बीजानि, रं श्रीं क्लीं शक्तयः। नमो वज्रनखायेति कीलकम्। मम सकलदुरितक्षयपूर्वक श्रीनृसिंह प्रसादसिद्धिद्वारा सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः॥ ओं क्षं श्रीं रं ह्रीं आं क्लीं नृसिंहाय वज्रनखाय स्वाहेति षडङ्गन्यासः॥ ध्यानम्॥ सिंहास्यं तीक्ष्णदंष्ट्रं तिणयन मुदयद्भानुकोटिप्रकाशं हस्तैर्दम्भोळि धारापटुशितनखरै र्दैवत्यवक्षोविदार्य दत्वा देवव्रजस्याभय […]