द्रोणपर्वम् अध्यायः 165-173

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   165-अध्यायः सञ्जय उवाच|| क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे | रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा ||१|| हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत | छत्राणां चापविद्धानां चामराणां च संयुगे ||२|| भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः | सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाभवत् ||३|| बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम | चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ||४|| वर्तमाने तथा युद्धे घोरे देवासुरोपमे | […]

द्रोणपर्वम् अध्यायः 157-164

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   157-अध्यायः धृतराष्ट्र उवाच|| एकवीरवधे मोघा शक्तिः सूतात्मजे यदा | कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ||१|| तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः | एकवीरवधे कस्मान्न युद्धे जयमादधत् ||२|| आहूतो न निवर्तेयमिति तस्य महाव्रतम् | स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ||३|| ततो द्वैरथमानीय फल्गुनं शक्रदत्तया | न जघान वृषा कस्मात्तन्ममाचक्ष्व सञ्जय ||४|| […]

द्रोणपर्वम् अध्यायः 135-156

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   135-अध्यायः सञ्जय उवाच|| दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः | प्रत्युवाच महाबाहो यथा वदसि कौरव ||१|| प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे | तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह ||२|| शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत् ||२|| अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च | निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम ||३|| ते चापि कौरवीं सेनां […]

द्रोणपर्वम् अध्यायः 115-134

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   115-अध्यायः धृतराष्ट्र उवाच|| अहन्यहनि मे दीप्तं यशः पतति सञ्जय | हता मे बहवो योधा मन्ये कालस्य पर्ययम् ||१|| धनञ्जयस्तु सङ्क्रुद्धः प्रविष्टो मामकं बलम् | रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि ||२|| ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः | सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ||३|| तदा प्रभृति मा शोको दहत्यग्निरिवाशयम् | ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् ||४|| अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः | […]

द्रोणपर्वम् अध्यायः 92-114

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   092-अध्यायः सञ्जय उवाच|| ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः | त्वरमाणा महाराज युयुधानमयोधयन् ||१|| तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः | दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ||२|| विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः | विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ||३|| दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः | चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ||४|| दुर्योधनश्च महता शरवर्षेण माधवम् […]

द्रोणपर्वम् अध्यायः 71-91

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   071-अध्यायः सञ्जय उवाच|| राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम | कुरूणां पाण्डवानां च यथा युद्धमवर्तत ||१|| भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् | अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ||२|| रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः | अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ||३|| विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः | आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ ||४|| विराटश्च महाराज तावुभौ समरे […]

द्रोणपर्वम् अध्यायः 51-70

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   051-अध्यायः युधिष्ठिर उवाच|| त्वयि याते महाबाहो संशप्तकबलं प्रति | प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ||१|| व्याढानीकं वयं द्रोणं वरयामः स्म सर्वशः | प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ||२|| स वार्यमाणो रथिभी रक्षितेन मया तथा | अस्मानपि जघानाशु पीडयन्निशितैः शरैः ||३|| ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः | प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु […]

द्रोणपर्वम् अध्यायः 23-50

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   023-अध्यायः धृतराष्ट्र उवाच|| व्यथयेयुरिमे सेनां देवानामपि संयुगे | आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः ||१|| सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः | तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः ||२|| दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी | अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ||३|| स एव महतीं सेनां समावर्तयदाहवे | किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् ||४|| युक्त एव हि भाग्येन […]

द्रोणपर्वम् अध्यायः 01-22

श्रीः श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   001-अध्यायः -द्रोणाभिषेकपर्व जनमेजय उवाच|| तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् | हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ||१|| धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः | किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ||२|| तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः | पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ||३|| तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् | यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ||४|| वैशम्पायन उवाच|| निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः | […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.