सभापर्वम् अध्यायः 47-72
श्रीमहाभारतम् ||२ सभापर्वम् || 047-अध्यायः दुर्योधन उवाच|| यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत | आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ||१|| न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् | फलतो भूमितो वापि प्रतिपद्यस्व भारत ||२|| ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् | प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ||३|| अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् | उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ||४|| गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः | प्रीत्यर्थं ते महाभागा […]
सभापर्वम् अध्यायः 21-46
श्रीमहाभारतम् ||२ सभापर्वम् || 021-अध्यायः वैशम्पायन उवाच|| ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः | उवाच वाग्मी राजानं जरासन्धमधोक्षजः ||१|| त्रयाणां केन ते राजन्योद्धुं वितरते मनः | अस्मदन्यतमेनेह सज्जीभवतु को युधि ||२|| एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः | जरासन्धस्ततो राजन्भीमसेनेन मागधः ||३|| धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च | उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ||४|| कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना | समनह्यज्जरासन्धः क्षत्रधर्ममनुव्रतः […]
सभापर्वम् अध्यायः 01-20
श्रीः श्रीमहाभारतम् ||२ सभापर्वम् || 001-अध्यायः वैशम्पायन उवाच|| ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ | प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ||१|| अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः | त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ||२|| अर्जुन उवाच|| कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर | प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ||३|| मय उवाच|| युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ […]