अश्वमेधिकपर्वम् अध्यायः 66-96

श्रीमहाभारतम् ||१४ अश्वमेधिकपर्वम् || 066-अध्यायः वैशम्पायन उवाच|| उत्थितायां पृथायां तु सुभद्रा भ्रातरं तदा | दृष्ट्वा चुक्रोश दुःखार्ता वचनं चेदमब्रवीत् ||१|| पुण्डरीकाक्ष पश्यस्व पौत्रं पार्थस्य धीमतः | परिक्षीणेषु कुरुषु परिक्षीणं गतायुषम् ||२|| इषीका द्रोणपुत्रेण भीमसेनार्थमुद्यता | सोत्तरायां निपतिता विजये मयि चैव ह ||३|| सेयं ज्वलन्ती हृदये मयि तिष्ठति केशव | यन्न पश्यामि दुर्धर्ष मम पुत्रसुतं विभो […]

अश्वमेधिकपर्वम् अध्यायः 34-65

श्रीमहाभारतम् ||१४ अश्वमेधिकपर्वम् || 034-अध्यायः ब्राह्मण्युवाच|| नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना | बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ||१|| उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः | तन्मन्ये कारणतमं यत एषा प्रवर्तते ||२|| ब्राह्मण उवाच|| अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः | तपःश्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ||३|| ब्राह्मण्युवाच|| यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् | ग्रहीतुं येन तच्छक्यं […]

अश्वमेधिकपर्वम् अध्यायः 01-33

श्रीः श्रीमहाभारतम् ||१४ अश्वमेधिकपर्वम् || 001-अध्यायः युधिष्ठिरसांत्वनम् वैशम्पायन उवाच|| कृतोदकं तु राजानं धृतराष्ट्रं युधिष्ठिरः | पुरस्कृत्य महाबाहुरुत्तताराकुलेन्द्रियः ||१|| उत्तीर्य च महीपालो बाष्पव्याकुललोचनः | पपात तीरे गङ्गाया व्याधविद्ध इव द्विपः ||२|| तं सीदमानं जग्राह भीमः कृष्णेन चोदितः | मैवमित्यब्रवीच्चैनं कृष्णः परबलार्दनः ||३|| तमार्तं पतितं भूमौ निश्वसन्तं पुनः पुनः | ददृशुः पाण्डवा राजन्धर्मात्मानं युधिष्ठिरम् ||४|| तं दृष्ट्वा […]

आश्रमवासिकपर्वम् अध्यायः 01-47

श्रीः श्रीमहाभारतम् ||१५ आश्रमवासिकपर्वम् || 001-अध्यायः धृतराष्ट्रशुश्रूषा जनमेजय उवाच|| प्राप्य राज्यं महाभागाः पाण्डवा मे पितामहाः | कथमासन्महाराजे धृतराष्ट्रे महात्मनि ||१|| स हि राजा हतामात्यो हतपुत्रो निराश्रयः | कथमासीद्धतैश्वर्यो गान्धारी च यशस्विनी ||२|| कियन्तं चैव कालं ते पितरो मम पूर्वकाः | स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ||३|| वैशम्पायन उवाच|| प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः | धृतराष्ट्रं पुरस्कृत्य […]

मौसलपर्वम् अध्यायः 01-09

श्रीः श्रीमहाभारतम् ||१६ मौसलपर्वम् || 001-अध्यायः वैशम्पायन उवाच|| षट्त्रिंशे त्वथ सम्प्राप्ते वर्षे कौरवनन्दनः | ददर्श विपरीतानि निमित्तानि युधिष्ठिरः ||१|| ववुर्वाताः सनिर्घाता रूक्षाः शर्करवर्षिणः | अपसव्यानि शकुना मण्डलानि प्रचक्रिरे ||२|| प्रत्यगूहुर्महानद्यो दिशो नीहारसंवृताः | उल्काश्चाङ्गारवर्षिण्यः प्रपेतुर्गगनाद्भुवि ||३|| आदित्यो रजसा राजन्समवच्छन्नमण्डलः | विरश्मिरुदये नित्यं कबन्धैः समदृश्यत ||४|| परिवेषाश्च दृश्यन्ते दारुणाः चन्द्रसूर्ययोः | त्रिवर्णाः श्यामरूक्षान्तास्तथा भस्मारुणप्रभाः ||५|| एते […]

महाप्रस्थानिकपर्वम् अध्यायः 01-03

श्रीः श्रीमहाभारतम् ||१७ महाप्रस्थानिकपर्वम् || 001-अध्यायः–महाप्रस्थानिकपर्व पाण्डवप्रव्रजनम् जनमेजय उवाच|| एवं वृष्ण्यन्धककुले श्रुत्वा मौसलमाहवम् | पाण्डवाः किमकुर्वन्त तथा कृष्णे दिवं गते ||१|| वैशम्पायन उवाच|| श्रुत्वैव कौरवो राजा वृष्णीनां कदनं महत् | प्रस्थाने मतिमाधाय वाक्यमर्जुनमब्रवीत् ||२|| कालः पचति भूतानि सर्वाण्येव महामते | कर्मन्यासमहं मन्ये त्वमपि द्रष्टुमर्हसि ||३|| इत्युक्तः स तु कौन्तेयः कालः काल इति ब्रुवन् | अन्वपद्यत […]

स्वर्गारोहणपर्वम् अध्यायः 01-05

श्रीः श्रीमहाभारतम् ||१८ स्वर्गारोहणपर्वम् || 001-अध्यायः–स्वर्गारोहणपर्व स्वर्गे नारदवाक्यम् जनमेजय उवाच|| स्वर्गं त्रिविष्टपं प्राप्य मम पूर्वपितामहाः | पाण्डवा धार्तराष्ट्राश्च कानि स्थानानि भेजिरे ||१|| एतदिच्छाम्यहं श्रोतुं सर्वविच्चासि मे मतः | महर्षिणाभ्यनुज्ञातो व्यासेनाद्भुतकर्मणा ||२|| वैशम्पायन उवाच|| स्वर्गं त्रिविष्टपं प्राप्य तव पूर्वपितामहाः | युधिष्ठिरप्रभृतयो यदकुर्वत तच्छृणु ||३|| स्वर्गं त्रिविष्टपं प्राप्य धर्मराजो युधिष्ठिरः | दुर्योधनं श्रिया जुष्टं ददर्शासीनमासने ||४|| भ्राजमानमिवादित्यं […]

स्त्रीपर्वम् अध्यायः 01-27

श्रीः श्रीमहाभारतम् ||११ स्त्रीपर्वम् || 001-अध्यायः-विशोकपर्व जनमेजय उवाच|| हते दुर्योधने चैव हते सैन्ये च सर्वशः | धृतराष्ट्रो महाराजः श्रुत्वा किमकरोन्मुने ||१|| तथैव कौरवो राजा धर्मपुत्रो महामनाः | कृपप्रभृतयश्चैव किमकुर्वत ते त्रयः ||२|| अश्वत्थाम्नः श्रुतं कर्म शापश्चान्योन्यकारितः | वृत्तान्तमुत्तरं ब्रूहि यदभाषत सञ्जयः ||३|| वैशम्पायन उवाच|| हते पुत्रशते दीनं छिन्नशाखमिव द्रुमम् | पुत्रशोकाभिसन्तप्तं धृतराष्ट्रं महीपतिम् ||४|| ध्यानमूकत्वमापन्नं […]

सौप्तिकपर्वम् अध्यायः 01-18

श्रीः श्रीमहाभारतम् ||१० सौप्तिकपर्वम् || 001-अध्यायः कौशिकदर्शनम् सञ्जय उवाच|| ततस्ते सहिता वीराः प्रयाता दक्षिणामुखाः | उपास्तमयवेलायां शिबिराभ्याशमागताः ||१|| विमुच्य वाहांस्त्वरिता भीताः समभवंस्तदा | गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते ||२|| सेनानिवेशमभितो नातिदूरमवस्थिताः | निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः ||३|| दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन् | श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम् ||४|| अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः | ते मुहूर्तं […]

शाल्यपर्वम् अध्यायः 51-64

श्रीमहाभारतम् ||९ शाल्यपर्वम् || 051-अध्यायः वृद्धकन्योपाख्यानम् जनमेजय उवाच|| कथं कुमारी भगवंस्तपोयुक्ता ह्यभूत्पुरा | किमर्थं च तपस्तेपे को वास्या नियमोऽभवत् ||१|| सुदुष्करमिदं ब्रह्मंस्त्वत्तः श्रुतमनुत्तमम् | आख्याहि तत्त्वमखिलं यथा तपसि सा स्थिता ||२|| वैशम्पायन उवाच|| ऋषिरासीन्महावीर्यः कुणिर्गार्ग्यो महायशाः | स तप्त्वा विपुलं राजंस्तपो वै तपतां वरः ||३|| मानसीं स सुतां सुभ्रूं समुत्पादितवान्विभुः ||३|| तां च दृष्ट्वा भृशं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.