द्रोणपर्वम् अध्यायः 115-134

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   115-अध्यायः धृतराष्ट्र उवाच|| अहन्यहनि मे दीप्तं यशः पतति सञ्जय | हता मे बहवो योधा मन्ये कालस्य पर्ययम् ||१|| धनञ्जयस्तु सङ्क्रुद्धः प्रविष्टो मामकं बलम् | रक्षितं द्रोणकर्णाभ्यामप्रवेश्यं सुरैरपि ||२|| ताभ्यामूर्जितवीर्याभ्यामाप्यायितपराक्रमः | सहितः कृष्णभीमाभ्यां शिनीनामृषभेण च ||३|| तदा प्रभृति मा शोको दहत्यग्निरिवाशयम् | ग्रस्तान्हि प्रतिपश्यामि भूमिपालान्ससैन्धवान् ||४|| अप्रियं सुमहत्कृत्वा सिन्धुराजः किरीटिनः | […]

द्रोणपर्वम् अध्यायः 92-114

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   092-अध्यायः सञ्जय उवाच|| ते किरन्तः शरव्रातान्सर्वे यत्ताः प्रहारिणः | त्वरमाणा महाराज युयुधानमयोधयन् ||१|| तं द्रोणः सप्तसप्तत्या जघान निशितैः शरैः | दुर्मर्षणो द्वादशभिर्दुःसहो दशभिः शरैः ||२|| विकर्णश्चापि निशितैस्त्रिंशद्भिः कङ्कपत्रिभिः | विव्याध सव्ये पार्श्वे तु स्तनाभ्यामन्तरे तथा ||३|| दुर्मुखो दशभिर्बाणैस्तथा दुःशासनोऽष्टभिः | चित्रसेनश्च शैनेयं द्वाभ्यां विव्याध मारिष ||४|| दुर्योधनश्च महता शरवर्षेण माधवम् […]

द्रोणपर्वम् अध्यायः 71-91

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   071-अध्यायः सञ्जय उवाच|| राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम | कुरूणां पाण्डवानां च यथा युद्धमवर्तत ||१|| भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् | अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ||२|| रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः | अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ||३|| विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः | आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ ||४|| विराटश्च महाराज तावुभौ समरे […]

द्रोणपर्वम् अध्यायः 51-70

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   051-अध्यायः युधिष्ठिर उवाच|| त्वयि याते महाबाहो संशप्तकबलं प्रति | प्रयत्नमकरोत्तीव्रमाचार्यो ग्रहणे मम ||१|| व्याढानीकं वयं द्रोणं वरयामः स्म सर्वशः | प्रतिव्यूह्य रथानीकं यतमानं तथा रणे ||२|| स वार्यमाणो रथिभी रक्षितेन मया तथा | अस्मानपि जघानाशु पीडयन्निशितैः शरैः ||३|| ते पीड्यमाना द्रोणेन द्रोणानीकं न शक्नुमः | प्रतिवीक्षितुमप्याजौ भेत्तुं तत्कुत एव तु […]

द्रोणपर्वम् अध्यायः 23-50

श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   023-अध्यायः धृतराष्ट्र उवाच|| व्यथयेयुरिमे सेनां देवानामपि संयुगे | आहवे ये न्यवर्तन्त वृकोदरमुखा रथाः ||१|| सम्प्रयुक्तः किलैवायं दिष्टैर्भवति पूरुषः | तस्मिन्नेव तु सर्वार्था दृश्यन्ते वै पृथग्विधाः ||२|| दीर्घं विप्रोषितः कालमरण्ये जटिलोऽजिनी | अज्ञातश्चैव लोकस्य विजहार युधिष्ठिरः ||३|| स एव महतीं सेनां समावर्तयदाहवे | किमन्यद्दैवसंयोगान्मम पुत्रस्य चाभवत् ||४|| युक्त एव हि भाग्येन […]

द्रोणपर्वम् अध्यायः 01-22

श्रीः श्रीमहाभारतम् ||७ द्रोणपर्वम् ||   001-अध्यायः -द्रोणाभिषेकपर्व जनमेजय उवाच|| तमप्रतिमसत्त्वौजोबलवीर्यपराक्रमम् | हतं देवव्रतं श्रुत्वा पाञ्चाल्येन शिखण्डिना ||१|| धृतराष्ट्रस्तदा राजा शोकव्याकुलचेतनः | किमचेष्टत विप्रर्षे हते पितरि वीर्यवान् ||२|| तस्य पुत्रो हि भगवन्भीष्मद्रोणमुखै रथैः | पराजित्य महेष्वासान्पाण्डवान्राज्यमिच्छति ||३|| तस्मिन्हते तु भगवन्केतौ सर्वधनुष्मताम् | यदचेष्टत कौरव्यस्तन्मे ब्रूहि द्विजोत्तम ||४|| वैशम्पायन उवाच|| निहतं पितरं श्रुत्वा धृतराष्ट्रो जनाधिपः | […]

भीष्मपर्वम् अध्यायः 106-117

श्रीमहाभारतम् ||६ भीष्मपर्वम् || 106-अध्यायः सञ्जय उवाच|| अर्जुनस्तु रणे राजन्दृष्ट्वा भीष्मस्य विक्रमम् | शिखण्डिनमथोवाच समभ्येहि पितामहम् ||१|| न चापि भीस्त्वया कार्या भीष्मादद्य कथञ्चन | अहमेनं शरैस्तीक्ष्णैः पातयिष्ये रथोत्तमात् ||२|| एवमुक्तस्तु पार्थेन शिखण्डी भरतर्षभ | अभ्यद्रवत गाङ्गेयं श्रुत्वा पार्थस्य भाषितम् ||३|| धृष्टद्युम्नस्तथा राजन्सौभद्रश्च महारथः | हृष्टावाद्रवतां भीष्मं श्रुत्वा पार्थस्य भाषितम् ||४|| विराटद्रुपदौ वृद्धौ कुन्तिभोजश्च दंशितः | […]

भीष्मपर्वम् अध्यायः 93-105

श्रीमहाभारतम् ||६ भीष्मपर्वम् || 093-अध्यायः नवमयुद्धदिवसः सञ्जय उवाच|| ततो दुर्योधनो राजा शकुनिश्चापि सौबलः | दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः ||१|| समागम्य महाराज मन्त्रं चक्रूर्विवक्षितम् | कथं पाण्डुसुता युद्धे जेतव्याः सगणा इति ||२|| ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः | सूतपुत्रं समाभाष्य सौबलं च महाबलम् ||३|| द्रोणो भीष्मः कृपः शल्यः सौमदत्तिश्च संयुगे | न पार्थान्प्रतिबाधन्ते न जाने तत्र […]

भीष्मपर्वम् अध्यायः 72-92

श्रीमहाभारतम् ||६ भीष्मपर्वम् || 072-अध्यायः धृतराष्ट्र उवाच|| एवं बहुगुणं सैन्यमेवं बहुविधं परम् | व्यूढमेवं यथाशास्त्रममोघं चैव सञ्जय ||१|| पुष्टमस्माकमत्यन्तमभिकामं च नः सदा | प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ||२|| नातिवृद्धमबालं च न कृशं न च पीवरम् | लघुवृत्तायतप्रायं सारगात्रमनामयम् ||३|| आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् | असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ||४|| प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च | भिण्डिपालेषु शक्तीषु मुसलेषु […]

भीष्मपर्वम् अध्यायः 50-71

श्रीमहाभारतम् ||६ भीष्मपर्वम् || 050-अध्यायः धृतराष्ट्र उवाच|| तथा प्रतिसमादिष्टः कलिङ्गो वाहिनीपतिः | कथमद्भुतकर्माणं भीमसेनं महाबलम् ||१|| चरन्तं गदया वीरं दण्डपाणिमिवान्तकम् | योधयामास समरे कलिङ्गः सह सेनया ||२|| सञ्जय उवाच|| पुत्रेण तव राजेन्द्र स तथोक्तो महाबलः | महत्या सेनया गुप्तः प्रायाद्भीमरथं प्रति ||३|| तामापतन्तीं सहसा कलिङ्गानां महाचमूम् | रथनागाश्वकलिलां प्रगृहीतमहायुधाम् ||४|| भीमसेनः कलिङ्गानामार्छद्भारत वाहिनीम् | केतुमन्तं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.