विराटपर्वम् अध्यायः 49-67

श्रीमहाभारतम् ||४ विराटपर्वम् || 049-अध्यायः वैशम्पायन उवाच|| स शत्रुसेनां तरसा प्रणुद्य; गास्ता विजित्याथ धनुर्धराग्र्यः | दुर्योधनायाभिमुखं प्रयातो; भूयोऽर्जुनः प्रियमाजौ चिकीर्षन् ||१|| गोषु प्रयातासु जवेन मत्स्या; न्किरीटिनं कृतकार्यं च मत्वा | दुर्योधनायाभिमुखं प्रयान्तं; कुरुप्रवीराः सहसाभिपेतुः ||२|| तेषामनीकानि बहूनि गाढं; व्यूढानि दृष्ट्वा बहुलध्वजानि | मत्स्यस्य पुत्रं द्विषतां निहन्ता; वैराटिमामन्त्र्य ततोऽभ्युवाच ||३|| एतेन तूर्णं प्रतिपादयेमा; ञ्श्वेतान्हयान्काञ्चनरश्मियोक्त्रान् | जवेन […]

विराटपर्वम् अध्यायः 23-48

श्रीमहाभारतम् ||४ विराटपर्वम् || 023-अध्यायः वैशम्पायन उवाच|| ते दृष्ट्वा निहतान्सूतान्राज्ञे गत्वा न्यवेदयन् | गन्धर्वैर्निहता राजन्सूतपुत्राः परःशताः ||१|| यथा वज्रेण वै दीर्णं पर्वतस्य महच्छिरः | विनिकीर्णं प्रदृश्येत तथा सूता महीतले ||२|| सैरन्ध्री च विमुक्तासौ पुनरायाति ते गृहम् | सर्वं संशयितं राजन्नगरं ते भविष्यति ||३|| तथारूपा हि सैरन्ध्री गन्धर्वाश्च महाबलाः | पुंसामिष्टश्च विषयो मैथुनाय न संशयः ||४|| […]

विराटपर्वम् अध्यायः 01-22

श्रीः श्रीमहाभारतम् ||४ विराटपर्वम् || 001-अध्यायः जनमेजय उवाच|| कथं विराटनगरे मम पूर्वपितामहाः | अज्ञातवासमुषिता दुर्योधनभयार्दिताः ||१|| वैशम्पायन उवाच|| तथा तु स वराँल्लब्ध्वा धर्माद्धर्मभृतां वरः | गत्वाश्रमं ब्राह्मणेभ्य आचख्यौ सर्वमेव तत् ||२|| कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यो युधिष्ठिरः | अरणीसहितं तस्मै ब्राह्मणाय न्यवेदयत् ||३|| ततो युधिष्ठिरो राजा धर्मपुत्रो महामनाः | संनिवर्त्यानुजान्सर्वानिति होवाच भारत ||४|| द्वादशेमानि वर्षाणि राष्ट्राद्विप्रोषिता […]

सभापर्वम् अध्यायः 47-72

श्रीमहाभारतम् ||२ सभापर्वम् || 047-अध्यायः दुर्योधन उवाच|| यन्मया पाण्डवानां तु दृष्टं तच्छृणु भारत | आहृतं भूमिपालैर्हि वसु मुख्यं ततस्ततः ||१|| न विन्दे दृढमात्मानं दृष्ट्वाहं तदरेर्धनम् | फलतो भूमितो वापि प्रतिपद्यस्व भारत ||२|| ऐडांश्चैलान्वार्षदंशाञ्जातरूपपरिष्कृतान् | प्रावाराजिनमुख्यांश्च काम्बोजः प्रददौ वसु ||३|| अश्वांस्तित्तिरिकल्माषांस्त्रिशतं शुकनासिकान् | उष्ट्रवामीस्त्रिशतं च पुष्टाः पीलुशमीङ्गुदैः ||४|| गोवासना ब्राह्मणाश्च दासमीयाश्च सर्वशः | प्रीत्यर्थं ते महाभागा […]

सभापर्वम् अध्यायः 21-46

श्रीमहाभारतम् ||२ सभापर्वम् || 021-अध्यायः वैशम्पायन उवाच|| ततस्तं निश्चितात्मानं युद्धाय यदुनन्दनः | उवाच वाग्मी राजानं जरासन्धमधोक्षजः ||१|| त्रयाणां केन ते राजन्योद्धुं वितरते मनः | अस्मदन्यतमेनेह सज्जीभवतु को युधि ||२|| एवमुक्तः स कृष्णेन युद्धं वव्रे महाद्युतिः | जरासन्धस्ततो राजन्भीमसेनेन मागधः ||३|| धारयन्नगदान्मुख्यान्निर्वृतीर्वेदनानि च | उपतस्थे जरासन्धं युयुत्सुं वै पुरोहितः ||४|| कृतस्वस्त्ययनो विद्वान्ब्राह्मणेन यशस्विना | समनह्यज्जरासन्धः क्षत्रधर्ममनुव्रतः […]

सभापर्वम् अध्यायः 01-20

श्रीः श्रीमहाभारतम् ||२ सभापर्वम् || 001-अध्यायः वैशम्पायन उवाच|| ततोऽब्रवीन्मयः पार्थं वासुदेवस्य संनिधौ | प्राञ्जलिः श्लक्ष्णया वाचा पूजयित्वा पुनः पुनः ||१|| अस्माच्च कृष्णात्सङ्क्रुद्धात्पावकाच्च दिधक्षतः | त्वया त्रातोऽस्मि कौन्तेय ब्रूहि किं करवाणि ते ||२|| अर्जुन उवाच|| कृतमेव त्वया सर्वं स्वस्ति गच्छ महासुर | प्रीतिमान्भव मे नित्यं प्रीतिमन्तो वयं च ते ||३|| मय उवाच|| युक्तमेतत्त्वयि विभो यथात्थ पुरुषर्षभ […]

आदिपर्वम् अध्यायः 197-224

श्रीमहाभारतम् ||१ आदिपर्वम् || 197-अध्यायः धृतराष्ट्र उवाच|| भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः | हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ||१|| यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः | तथैव धर्मतः सर्वे मम पुत्रा न संशयः ||२|| यथैव मम पुत्राणामिदं राज्यं विधीयते | तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ||३|| क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् | तया च देवरूपिण्या […]

आदिपर्वम् अध्यायः 170-196

श्रीमहाभारतम् ||१ आदिपर्वम् || 170-अध्यायः और्व उवाच|| उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा | सर्वलोकविनाशाय न सा मे वितथा भवेत् ||१|| वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे | अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ||२|| यो हि कारणतः क्रोधं सञ्जातं क्षन्तुमर्हति | नालं स मनुजः सम्यक्त्रिवर्गं परिरक्षितुम् ||३|| अशिष्टानां नियन्ता हि शिष्टानां परिरक्षता | स्थाने रोषः प्रयुक्तः स्यान्नृपैः स्वर्गजिगीषुभिः ||४|| […]

आदिपर्वम् अध्यायः 145-169

श्रीमहाभारतम् ||१ आदिपर्वम् || 145-अध्यायः ब्राह्मण्युवाच|| न सन्तापस्त्वया कार्यः प्राकृतेनेव कर्हिचित् | न हि सन्तापकालोऽयं वैद्यस्य तव विद्यते ||१|| अवश्यं निधनं सर्वैर्गन्तव्यमिह मानवैः | अवश्यभाविन्यर्थे वै सन्तापो नेह विद्यते ||२|| भार्या पुत्रोऽथ दुहिता सर्वमात्मार्थमिष्यते | व्यथां जहि सुबुद्ध्या त्वं स्वयं यास्यामि तत्र वै ||३|| एतद्धि परमं नार्याः कार्यं लोके सनातनम् | प्राणानपि परित्यज्य यद्भर्तृहितमाचरेत् ||४|| […]

आदिपर्वम् अध्यायः 122-144

श्रीमहाभारतम् ||१ आदिपर्वम् || 122-अध्यायः वैशम्पायन उवाच|| अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने | अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ||१|| द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः | अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ||२|| ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने | तेन तत्र प्रदीपः स दीप्यमानो निवापितः ||३|| भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत | हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ||४|| तदभ्यासकृतं मत्वा रात्रावभ्यस्त […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.