आनन्दतारतम्यखण्डनम्
श्रीः श्रीमते रामानुजाय नमः श्रीश्रीनिवासविरचितम् आनन्दतारतम्यखण्डनम् शेषाशेषाय निर्दोषगुणभूषाय शेषिणे । निर्मलानन्दनिर्माणधर्मिणे ब्रह्मणे नमः ॥ [आनन्दतारतम्ये युक्तिप्रदर्शनम्] इह केचिद्देवमनुष्यादीनाम् मुक्तानाम् परस्परमानन्दे तारतम्यम् आचक्षते । तद्धि साधनतारतम्यायत्तम् दुरपह्नवम् । मुक्तिसाधनम् हि ज्ञानम् । तत्तारतम्यम् च लोकत एवावगतम् । देवानाम् च ऋषीणाञ्च बहुतरतपश्चर्याप्रतिपादकपुराणावगतम् च प्रयत्नाधिक्यम्, फलाधिक्य-गमकम् । अन्यथा प्रयत्नानर्थक्यप्रसङ्गात् । फलवता नाम प्रयत्नेन भवितव्यम् । न च […]