Astaksara Sarvaadhikara Samartanam
श्रीमते रामानुजाय नम: । श्री मधुरमंगलं श्रीपेरुंपूदूरु यंबार स्वामि योगीन्द्रेण कृतम् अष्टाक्षरस्य सर्वाधिकार समर्थनम् श्रिय:पति: परमकारुणिक: सर्वेश्वर: संसारिचेतनानां स्वस्वरूपादि याथात्म्यविज्ञानप्रदानेन समस्तसांसारिकदु:ख निबर्हणपूर्वकं “नित्यकिङ्कर: प्रहर्षयिष्यामि” इत्यायुक्तं निरतिशयानन्दं उत्पादयितुं, “मन्त्राणां परमोमन्त्र:” इत्यायुक्त प्रकारेण समस्त वेदमूलभूतं तत्व-हित-पुरुषार्थयातात्म्य प्रतिपादकं श्रीमदष्टाक्षरं स्वयमेव नरनारायणादिरूपेण अवतीर्य व्यासादिमहर्षीणां भगवन्निर्हेतुककटाक्षलब्धदिव्यज्ञानानां पराङ्कुशपरकालादि दिव्यसूरीणां च प्रकाशयामास।तथाच अनुगृहीतम् “नरनारायणनाय् उलहत्तरनूल् शिङ्गामै विरित्तवन् एम्पेरुमान्” (நரநாரணனாய் உலகத்து அறநூல் சிங்காமை […]