ब्रह्मपदशक्तिवादः
॥ श्रीमते रामानुजाय नमः ॥ ॥ श्रीमते रम्यजामातृमुनये नमः ॥ ॥ श्रीमद्वेङकटलक्ष्मणार्यसम्यमिने नमः ॥ श्रीशैललक्ष्मणयतीन्द्रैः विरचितः ब्रह्मपदशक्तिवादः अखिलभुवनबन्धोन्मोचने बद्धदीक्षः प्रकृतिमनपहाय स्वेच्छयेहावतीर्णम्। वृषगिरिशिखरस्थैस्सर्वधा भुज्यमानम् कमपि पुरुषमीडे कान्तया नित्यजुष्टम्॥ नत्व च यतिवरचरणौ स्मृत्वाऽनन्तार्यपादकाधूलीः। ब्रह्मपदशक्तिवादम् तनुते श्रीशैलयोगिराजसुधीः॥ श्रुतिस्मृतिपुराणज्ञास्सम्प्रदाये सुशिक्षिताः। श्रीशादनन्यागम् प्राहुः ब्रह्मशब्दम् निमित्ततः॥ तदेतदपरिज्ञाय शब्दजालम् प्रयुञ्जताम्। मौनमुद्राविधानेन जयत्वेषा कृतिर्मम॥ ब्रह्मशब्दो हि बृहबृहि वृद्धाविति धातोरौणादिककर्त्रर्थकमनिन्प्र-त्ययान्तः। तत्र घातूक्ता वृद्धिर्नाम सूक्ष्मावस्थाप्रहाण-पूर्वकस्थूलावस्थायोग […]