कैवल्यशतदूषणी
॥ श्रीः॥ ॥ अथ कैवल्यशतदूषणी ॥ यत्पादपद्मरसिका परिषद्गुरूणा- मात्मानुभूतिमतिदूरतराज्जहाति- तन्नौमि दिव्यपुरुषं वननानराद्यै- र्विस्मारिताभिजनमञ्जनशैललोलम् ॥ यद्गाथया विनिद्रा हेतिवाराद्याः परावनेव्यग्रतं भट्टनाथमीडे केवलकरुणापराधीनम् ॥ लोके समस्तमुनिमानसपद्मकोशा यद्भाष्यभानुपरिरम्भणः स्फुटन्ति । यस्यैवते विकसिताश्च विहारभूमि स्तौ भावये परमहंसवराननन्यौ ॥ कमलनयनकान्ताकामनाकल्पवल्ली परिणतिफलभूतार्यगोष्ठीं विभाव्य। प्रतिमतशतदूषण्युग्रकैवल्यचिन्तां कलयति कुतुकाच्छीशैलयोगीशदासः ॥ तत्र तावद् भवदहनदन्दह्यमानसकल जीवसंजीवनोपदेशा भट्टनाथपराङ्कुशादयः कैवल्यमेव प्रथमत स्त्याजयन्ति। तत्र च निदानं तन्नित्यानिबन्धनं निरतिशयक्रौर्यमेव । तत्र […]