नायमात्मा भाष्यम्
श्रीः श्रीमते रामानुजाय नमः मोर्मुन्नारय्यपरनामधेय वरदाचार्येण कृता नायमात्मेति श्रुतिव्याख्या नायमात्मा भाष्यम् “नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लभ्य स्तस्यैष आत्मा विवृणुते तनूं स्वाम्” (कठोपनिषत्-२-२३) इति श्रुतिः। अस्या स्त्वर्थोद्वेधा भाष्यकारै रभिहितः। साधनलक्षणस्य द्वितीयचरणे “परमतस्सेतून्मान” (शा-मी-३-२-३०) इत्याद्यधिकरणे “उपपत्तेश्च” (शा-मी-३-२-३४) इति सूत्रस्य विषयत्वेन इमां श्रुतिमुदाहृत्य अस्या अर्थ स्सङ्ग्रहेण “अनन्योपायत्व श्रवणात्” इत्युक्तः; प्रथमसूत्रे परमपुरुषवरणीयताहेतुगुणविशेषपरत्वेन […]