तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -अद्रव्यसरः

॥अद्रव्यसरः पञ्चमः ॥ 5॥ 4.361  तत्तद्द्रव्येषु दृष्टं नियतिमदपृथक्सिद्धमद्रव्यजातं तद्वद्विश्वं परस्य व्यवधिनियमनान्न स्वरूपेऽस्य दोषः । इत्थं निर्धार्य भाव्ये भगवति विविधोदाहृतिव्यक्तिसिद्ध्यै निर्बाधान् द्रव्यधर्मान्निरनुगतिगलद्दुर्नयान्निर्णयामः ॥ १ ॥ इत्थं द्रव्यवर्गं विचार्य अद्रव्यं विचारयिष्यंस्तद्विचारस्य प्रधानप्रयोजनमाह – तत्तदिति ॥ तेषुतेषु द्रव्येषु दृष्टं नियतिमत् – यस्य द्रव्यस्य यदुचितं तत्तत्रैव नियतमित्यर्थः । तच्च तत्रतत्रापृथक्सिद्धमद्रव्यजातम् । तद्वदेव विश्वमपि परस्यापृथक्सिद्धम् । एवं च सति विशेषणगतानां […]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -बुद्धिसरः

॥ बुद्धिसरः चतुर्थः ॥ 4 ॥ 4.226   धीत्वाद्वेद्मीति सिद्धा स्वयमितरमतिर्बुद्धिलक्ष्मादिधीव- द्यद्वा सर्वज्ञधीवन्न स मतियुगवान्नापि चैकोनवेदी । नो चेद्धारामतौ सा प्रथममपि सती नावबुद्धेति धीः स्यात् स्वस्यां वृत्तेर्विरोधोऽप्युपशमनमियादुक्तदृष्टान्तनीत्या ॥ १ ॥ आत्मतत्त्वं परमपरं च निरूपितम् । अथ यथोद्देशस्थणं तद्धर्मभूता बुद्धिश्चिन्त्यते । तत्र प्रथमं तत्स्वरूपस्य स्वतस्सिद्धिमाह – धीत्वादिति ॥ इतरमतिः – विप्रतिपन्ना बुद्धिः । स्वयं सिद्धा – स्वगोचरज्ञाननिरपेक्षव्यवहारानुगुणेत्यर्थः […]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -नायकसरः

नायकसरः तृतीयः व्याप्त्याद्यव्याकुलाभिः श्रुतिभिरधिगतो विश्वनेता स विश्वं क्रीडाकारुण्यतन्त्रः सृजति समतया जीवकर्मानुरूपम् । रोषोऽपि प्रीतये स्यात्सुनिरसविषयस्तस्य निस्सीमशक्तेः स्वेच्छा[यां]तस्सर्वसिद्धिं वदति भगवतोऽवाप्तकामत्ववादः ॥ १ ॥ तदेवं प्रत्यगर्थद्वये प्रथमोद्दिष्टो जीवश्चिन्तितः । अथेश्वरश्चिन्त्यते । तत्र तावत्प्रमाणविशेषात् सिद्धिं प्रस्तौति – व्याप्त्याद्यव्याकुलाभिरिति ॥ धर्मप्रवृत्तियुक्तसर्वदेशकालव्यापितयाऽन्यथाकरणशङ्कानर्हाभिरित्यर्थः । यद्वा अनुमान- वद्व्याप्तिपक्षधर्मतानिरूपणजनितव्यभिचारसंभवादिरहिताभिरिति । श्रुतिभिरिति भ्रमादिमूलत्वासंभवख्यापनम् । शब्दानां सिद्धे व्युत्पत्तिस्तत्र तात्पर्यं च साधयिष्यते । विश्वनेता – विश्वेषां […]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -जीवसरः

॥ जीवसरः द्वितीयः ॥ २ ॥ यो मे हस्तादिवर्ष्मेत्यवयवनिवहाद्भाति भिन्नस्स एकः प्रत्येकं चेतनत्वे बहुरिह कलहो वीतरागो न जातः । तत्सङ्घातातिरिक्तेऽप्यवयविनि कथं तेष्वसिद्धा मतिस्स्यात् सङ्घातत्वादिभिर्वा घट इव तदचित्स्यान्ममात्मेत्यगत्या ॥ १ ॥ अथ प्रत्यगर्थे जीवस्तावन्निरूप्यते । तत्र चार्वाकेणापि दुरपह्नवं प्रमाणमाह – य इति ॥ हस्तादिवर्ष्म – हस्तादिरूपं शरीरमित्यर्थः । मम हस्तादि मम वर्ष्मेति वा पृथगुदाहर्तव्यम् । अस्ति […]

तत्त्वमुक्ताकलापः सर्वार्थसिद्धिसमेतः -जडद्रव्यसरः

॥ श्रीरस्तु ॥ श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः। श्रीमते इयग्रीवाय नमः। श्रीमते रामानुजाय नमः। श्रीमते निगमान्तमहादेशिकाय नमः । कवितार्किकसिंहसर्वतन्त्रस्यतन्त्र श्रीमद्वेदान्तदेशिकविरचितः तत्त्वमुक्ताकलापः- सर्वार्थसिद्धिसमेतः ॥ श्रीमान्वेङ्कटनाथायः कवितार्किककेसरी। वेदान्ताचार्यवों मे संनिधत्तां सदा हृदि ॥ ॥ जडद्रव्यसरः ॥ १ 1.1          लक्ष्मीनेत्रोत्पलश्रीसततपरिचयादेष संवर्धमानो नाभीनालीकरि(ङ्ग)ङ्खन्मधुकरपटलीदत्तहस्तावलम्बः । अस्माकं संपदोघानविरलतुलसीदामसंजातभूमा कालिन्दीकान्तिहारी कलयतु वपुषः कालिमा कैटभारेः ॥ १ ॥ 1.1          जयति सकलविद्यावाहिनीजन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमतिमायाशर्वरीबालसूर्यो निगमजलधिवेलापूर्णचन्द्रो […]

यादवाभ्युदयः सर्गः-24

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ चतुर्विंशस्सर्गः 24.01   अथ निजविभवादजातशत्रौ प्रशमितशत्रुबले निवेश्य भूमिम् । परिचरणफलं प्रभुः प्रयच्छन्नमितगुणाभिररंस्त वल्लभाभिः ॥1॥ 24.02   क्रतुविधिनियतोऽप्यकर्मवश्यः परिचितकामरसोऽपि वीतरागः । नगरवसतिरप्यशेषवासः कथमिव केन विभुः स वर्णनीयः ।।2।। 24.03   अनुगमितमिदं स्वदाररक्षामनघमनोभवतन्त्रमाननीयम् । निरुपाधिकरस्य नेतुरासीत् नृपतिमहर्षिभिरञ्चितं चरित्रम् ॥3॥ 24.04   श्रुतिशतमहिते पदे परस्मिन् सितजलधौ रविमण्डले च सिद्धाम् । बहुमतिमतिशय्य सा बभासे नरकरिपोरवरोधभूमिरग्र्या ।।4।। […]

यादवाभ्युदयः सर्गः-23

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ त्रयोविंशः सर्गः 23.1     अथाधिकारच्यवनात् य इन्द्राः पञ्चाभवन् पाण्डुसुताः पृथिव्याम्। जयार्थिनस्ते जगदेकनाथं प्रपेदिरे सत्त्वधनाः सदाराः।। 23.2     तमोपहैस्तत्त्वविदामृषीणां वाक्यैस्त्रिवेदीमनुसञ्जिहानैः। कृष्णं यथावत् कृतिनो विदन्तः तस्याभवन् प्राणसमाः सखायः।। 23.3     तदाश्रयास्तत्प्रणिधेयकृत्याः तेनैव नाथेन सदा सनाथाः। अपारयन् योगिभिरप्यजय्यान् बाह्यान्तरान् जेतुमरातिवर्गान्।। 23.4     प्रतिक्रियाः प्राग्भवदुष्कृतानां प्राणोपरोधेपि निरुद्धपापाः। धीरास्त्रिलोकीसुहृदः प्रसादात् विपाकरम्या विपदः प्रसेहुः।। 23.5     अलङ्घयन् विश्वपतेः प्रसादात् […]

यादवाभ्युदयः सर्गः-22

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ द्वाविंशः सर्गः 22.1     अथ देवानिवाहूतान् नरदेवान् अभाषत। देवदानवसामान्यदैवतं देवकीसुतः।। 22.2     एष वः क्ष्मापतिः शास्ति विधातेव प्रजापतीन्। महेन्द्रः हव धर्मेण सुधर्मामास्थितः स्वयम्।। 22.3     शेखरीकृतभूभारः शेषत्वेन विभोः स्थितः। वेदयत्ययमार्योपि मित्रभूतान् अमित्रजित् ।। 22.4     वयं भवन्तो ये चान्ये महान्तः सर्व एव ते । विश्वगुप्तौ जगत्कर्त्रा विनियुक्ता विभूतयः।। 22.5     तदस्माभिरवस्थेयं धर्मवर्त्मनि शाश्वते।बिभ्यद्भिरनघादेशात् […]

यादवाभ्युदयः सर्गः-21

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ एकविंशः सर्गः 21.1        वासुदेव इति नाम दधानः पौण्ड्रकस्तदनु भूरिमदान्धः। मानुषत्वकवचान्तरितेन स्पर्धते स्म हरिणा हतचित्तः।। 21.2        हेतिपञ्चकमधारयत श्रीवत्सकौस्तुभमुखानि च मूढः। ऐश्वराणि चरितानि च पूर्वाणयात्मनः स्वयमजूघुषदाप्तैः।। 21.3        इन्द्रजालकुहनादिषु दाक्ष्यात् ईश एष इति मोहितलोकः। अध्यशेत भुजगेश्वरशय्यां आरुरोह विहगेन्द्रविवर्तम् ।। 21.4        अन्वहं च महतीं वनमालां माल्यकृद्भिरुपकल्प्य बभार। नामधेयमदिशत् सचिवानां नाकनायकविशेषनिरूढम् ।। 21.5        […]

यादवाभ्युदयः सर्गः-20

श्री:कवितार्किकसिंह-सर्वतन्द्र-स्वतन्त्र श्रीमद्वेदान्तदेशिक विरचितं महाकाव्यम् ।। यादवाभ्युदयः ॥ विंशस्सर्गः 20.1     अथोपहूतैः पुरुहूतजेता सेनेश्वरैरप्रतिमानवीर्यैः। अभीषुभिः सूर्य इवाभिदीप्तः कुबेरगुप्तां ककुभं प्रतस्थे ।। 20.2     प्रयाणतूर्णतूर्यध्वनिरस्य भूयान् घर्मान्तजीमूतरवानुकारी। अनर्तयद्धर्ममयूरमाद्यं प्राप्तस्थितिं पादयुगेन भूम्याम् ।। 20.3     नभः पृथिव्योरुपदिष्टकम्पे नाथस्य यात्रापटहप्रणादे । उषेतरासां नयनं चकम्पे वामेतरं बाणपुराङ्गनानाम्।। 20.4     तस्येन्दुबिम्बं सितमातपत्रं भास्वान् मणीन्द्रो महनीयतेजाः। ताराश्च मुक्तावलया विरेजुः शिखी रथाङ्गाकृतिरात्मधाम्नः।। 20.5     अग्रे मुकुन्दस्य तदग्रजन्मा दैत्यैस्समं […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.