हंस-सन्देशः – प्रथमाश्वासः
श्रीः।। कवितार्किकसिंह-सर्वतन्त्रस्वतन्त्र– श्रीमद्वेदान्तदेशिक- विरचितं हंस-सन्देशः ।।श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।। प्रथमाश्वासः 1.1 वंशे जातस्सवितुरनघे मानयन्मानुषत्वं देवश्श्रीमान् जनक तनयान्वेषणे जागरूकः । प्रत्यायाते पवनतनये निश्चितार्थस्स कामी कल्पाकारां कथमपि निशामाविभातं विषेहे ॥ 1.1 ॥ 1.2 काल्ये सेनां कपिकुलपतेस्तूर्णमुद्योजयिष्यन् दूरीभावाज्जनकदुहितुर्दूयमानान्तरात्मा । क्रीडाखेलं कमलसरसि क्वापि कालोपयातं राकाचन्द्रद्युतिसहचरं राजहंसं ददर्श ॥ 1.2 ॥ 1.3 तस्मिन्सीतागतिमनुगते तद्दुकूलाङ्कमूर्तौ तन्मञ्जीरप्रतिमनिनदे […]
शतदूषणी परमते सूत्रस्वारस्यभङ्गवादः (66)
शतदूषणी ।।अथ परमते सूत्रस्वारस्यभङ्गवादः षट्षष्टितमः ।।66।। नमोऽस्तु ब्रह्मणे तस्मै बादरायणरूपिणे । यस्यैव ब्रह्मसूत्राणां रचना सगुणायते । अद्वैतमतनिष्ठानामनुष्ठानमपाकृतम् । ब्रह्मसूत्रार्थवैरूप्यं तेषामथ निरूप्यते ।। यदाहुः – आपादचूडं ब्रह्मसूत्रेषु निर्विशेषं ब्रह्मैवार्थः प्रपञ्चमिथ्यात्वं च स्पष्टमुपाद्यते, तथा हि -यद्ब्रह्म जिज्ञास्यतया प्रक्रान्तं तदेव हि नाना नास्तीति श्रुतिप्रामाण्यप्रागल्भ्यात्तदनुसारिसूत्रस्वारस्याच्च निर्विशेषमिति निश्चिन्वन्ति महान्तः । तत्र बहुषु सूत्रेषु तद्विषभूतासु श्रुतिषु च एकवचनान्तनिर्देशादात्मैक्यं स्वरसतः प्रतीयते । […]
शतदूषणी अलेपकमतभङ्गवादः (65)
शतदूषणी ।।अथ अलेपकमतभङ्गवादः पञ्चषष्टितमः ।।65।। अशेषाश्रमबाह्यानामीश्वराज्ञाभरश्रमात् । अलेपकदशाभाजामवलेपोऽत्र लुप्यते ।। इह जगति केचिदवधूतसकलवर्णाश्रमधर्माश्चार्वाकसधर्माण आचणाडालमेकराशीभूय विधिनिषेधयन्त्रणामतन्त्रयन्तः पारिभाषिकब्रह्मविदो विश्वमाविलयन्ति, तैस्सह (वास) वादरूपसंभाषणादिकमपि निरयपातनमिति मन्वानास्तद्दर्शनेऽपि सर्वलोकलोचनमवलोकयन्तो दूरीभवन्ति सन्तः । उक्तं हि महर्षिभिः – * पुंसां जटाभरणमौण्ड्यवतां वृथैव मोघाशिनामखिलशौचबहिष्कृतानाम् (निराकृतानाम्) । तेयप्रदानपितृपिण्डविवर्जितानां संभाषणादपि नरा नरकं प्रयान्ति ।। इति । तत्र यद्यपि तदभिमतशूद्रादि (वि) जातीयब्रह्मविदां त्रैवर्णिकब्रह्मविदामिव तथाविधपतनं न संभवति, तथाऽपि […]
शतदूषणी यतिलिङ्गभेदभङ्गवादः (64)
शतदूषणी ।।अथ यतिलिङ्गभेदभङ्गवादः चतुःषष्टितमः ।।64।। श्रितान् परमहंसतां परमहं स इत्युक्तितः त्रयीपथमसौगतान् कपटसौगतान् खण्डयन् । मुर्निजयति लक्ष्मणो मुदमुदञ्चयन्नञ्चतां मुकुन्दगुणमौक्तिकप्रकरशुक्तिभिः सूक्तिभिः ।। ये पुनः शङ्करादयोऽर्वाचीनपरमहंसाः, ते बाह्यवेषपरिग्रहमधिकृत्य पृच्छयन्ते -किमिति परमहंसैः ब्रह्मसूत्रमुत्सृज्यते? किं तेषु तत्प्रापकाभावात्? उत सामान्यतः प्राप्तस्यापि विशेषतो बाधात्? यद्वा वैकल्पिकतया परित्यागेऽपि प्रत्यवायविरहात्? उताङ्गिनिवृत्तेरेवार्थात्तदङ्गस्यापि निवृत्तेः? अथवा पूर्वानुष्ठानमात्रात्? इति । न प्रथमः; श्रुतिस्मृतिभिः सामान्यतो विशेषतश्च तत्प्राप्तेः । द्विजसामान्यतः […]
शतदूषणी अधिकारिविवेकवादः (63)
शतदूषणी ।।अथ अधिकारिविवेकवादः त्रिषष्टिमः ।।63।। कर्मज्ञानादिनिष्ठासु कर्तृत्वं योगिनां यतः । स सर्वकर्ता स्वमतं नित्यं कारयिताऽस्तु नः ।। अपशूद्राधिकरणप्रसङ्गादुत्पन्नतत्त्वज्ञानस्य कर्मयोगानधिकारो भगवद्गीतादीन् व्याचक्षणौः परैर्जल्पितः प्रतिक्षिप्यते । तत्र तावत् सम्यगात्मदर्शनेन निरस्तमिथ्याज्ञानस्य प्रव्रज्यां प्रविष्टस्यापि सांख्यसंज्ञस्य त्वदुक्ताधिकारिणः *शरीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषमित्यादिभिः लौकिकवैदिकसमस्तकर्मन्यासो नास्तीति त्वदुक्तवाक्यैरपि सुव्यक्तम् । अथापि ब्रूमः -उत्पन्नतत्त्वज्ञानस्य कर्मयोगेऽनधिकारः किं तस्य कर्मयोगवेदनाभावात्? तत्सत्त्वेऽपि सामग्रयसंभवात्? तत्संभवेऽपि वा तस्य निष्फलत्वात्? […]
शतदूषणी अपशूद्राधिकरणविरोधवादः (62)
शतदूषणी ।।अथ परमते अपशूद्राधिकरणविरोधवादः द्विषष्टितमः ।।62।। स्वे स्वे कर्मणि युञ्जनो मुखबाहूरुपादजान् । स्वयं नस्संप्रकाशेत स्वान्ते स्वच्छन्दसारथिः ।। यत्तु भगवता बादरायणेन सूत्रितं शूद्रस्य ब्रह्मविद्यायामनधिकारित्वम्; तद्भवन्तः कथं निर्वहन्ति? किं शूद्रैर्निर्विशेषज्ञानस्य दुःसम्पादत्त्वात्, तत्सम्पत्तिसद्भावेऽपि वा ततः तेषामविद्यानिवृत्त्यसंभवादिति । न प्रथमः, स हि तथाविधस्य ज्ञानस्य वेदैकजन्यत्वाद्वा? अवेदजन्यत्वेऽपि वेदसापेक्षत्वाद्वा? वेदावेदयोः शूद्रादिषु ज्ञानजनकत्वाशक्तेर्वेति? आद्यस्तावदधिगतत्वत्सिद्धान्तेन त्वया नाङ्गीकर्तव्यः । आत्मघातुकतर्कानुगृहीतानुमानादिनापि निर्विशेषत्वस्य प्रपञ्चमिथ्यात्वादेश्च भवद्भिः साध्यमानत्वात् […]
शतदूषणी जीवैक्यभङ्गवादः (61)
शतदूषणी ।।अथ जीवैक्यभङ्गवादः एकषष्टितमः ।।61।। पयोधितनयान्वितं परमधाम्नि यद्वर्तते सदा यदवलोकनं विदधते फणीन्द्रादयः । अत्रिमसरस्वतीवदनसन्ततास्वादितैर्गुणैरधिगुणं महः स्वयमनन्तमालक्ष्यते ।। विगीतं मदविद्याकल्पितम्, विवादाध्यासितं चेतनजातमहमित्यादिषु किं सर्वत्राहमर्थैक्यं सिषाधयिषितम्? उत तद्धर्मसंविदैक्यम्? यद्वा तदुपलक्षितसन्मात्रैक्यम्? न प्रथमः, अपसिद्धान्तप्रत्यक्षादिविरोधप्रसङ्गात् । न ह्यहमर्थं सत्यमात्मानमनुमन्यसे, न चाहङ्काराणां स्वरूपैक्यम् । न च परदुःखादेः स्वदुःखादित्वमभिमन्यसे । * एको बहूनामित्यादि च न स्मरसि । अत एव न द्वितीयः, […]
शतदूषणी सत्त्वासत्त्वविवेकवादः (60)
शतदूषणी ।।अथ सत्त्वासत्त्वविवेकवादः षष्टितमः ।।60।। अस्ति नास्तीति बोधाभ्यामभिव्याप्तेषु वस्तुषु । सदेव सदसद्बुद्धिनिमित्तत्वेन साध्यते ।। यदेव हि प्रामाणिकत्वेन सदिति प्रतीतिगोचरतां भजते, तदेव रूपान्तरेण नास्तीत्यपि प्रतिक्षेपं भजते । तत्रासत्त्वमेव तत्त्वमिति सौगतोपदेशिनः, सदा सत्तवमिति सांख्याः, सत्त्वासत्त्वसमुच्चय इति जैनाः, उभयप्रहाणमित्यद्वैतिनः, उपाधिभेदादुभयव्यवस्थेत्यपरे, तत्रैव नास्तीति व्यपदेशोऽपि भावान्तरनिमित्त इति निष्कर्षकाः । नन्वसत्त्वमेव सर्वत्र युक्तम्, असतोऽपि शुक्तिरजतखरविषाणादेः भ्रान्तिहेतुवैचित्र्यादस्तीति धीविषयत्वदृष्टेरिति चेन्न; बाधाभावात् । नास्तिधीरेव […]
शतदूषणी परमते अद्वितीयश्रुतिविसंवादवादः (59)
शतदूषणी ।।अथ परमते अद्वितीयश्रुतिविसंवादवादः एकोनषष्टितमः ।।59।। स्वतस्सर्वजगत्सूतेस्संवित्सिद्ध्यादिभिः स्फुटम् । अद्वितीयपदोक्त्यैव साधिता सविशेषता ।। अत्र हि अनन्तपदवदद्वितीयपदेनापि सविशेषतैव । तथा हि–अद्वितीयपदे किं तत्पुरुषः? उत बहुव्रीहिः? यदा तत्पुरुषः,तदाऽपि किं द्वितीयादन्यत्वम्, तद्विरुद्धत्वम्, तदभावमात्रं वा स्यात्? पूर्वत्र द्वितीयादन्योन्योन्याभावमात्रं वा विवक्षितम्? उत अब्राह्मणादिनयात्तत्सादृश्यपरत्वं वा? द्विधापि न द्वितीयहानिः । नतरां ब्रह्मणो निर्विशेषत्वम् । द्वितीयत्वाभावे प्रथमत्वादिमात्रं स्यात्, विशेषनिषेधे शेषाभ्यनुज्ञानसिद्धेः । अन्यथा प्रथमत्वादेरपि […]
शतदूषणी निर्विशेषनित्यत्वभङ्गवादः (58)
शतदूषणी ।।अथ निर्विशेषब्रह्मणो नित्यत्वभङ्गवादः अष्टपञ्चाशः ।।58।। पूर्ववृत्तचतुष्केऽपि पूर्वत्वेनोपवर्णिते । नित्यानित्यविवेकेऽत्र नित्यत्वं वो निरस्यते ।। श्रूयते हि-* नित्यं विभुं सर्वगतम्, * नित्यो नित्यानामित्यादिभिरात्मतत्त्वनित्यत्वम् । तद्भवत्पक्षे नोपपद्यते, ब्रह्मव्यतिरिक्तमविद्याकालादिकं स्वरूपतोऽपि सर्वमनित्यं ब्रह्मैकमेव नित्यमिति हि वः सिद्धान्तः । तदेतत् ब्रह्मासाधारणनित्यत्वं किं सर्वकालसत्तारूपम्? उत कालावच्छेदनिवृत्तिरूपम्? अथवा प्रध्वंसरहितत्वम्? आहोस्विदबाधितत्वम्? उत निर्विकारत्वम्? यद्वा उभयावधिरहितत्वम्? किञ्चिद्धर्मान्तरं वा? नाद्यः, अविद्याया अपि नित्यत्व प्रसङ्गात् । […]