शतदूषणी निर्विशेषब्रह्मण आनन्दत्वभङ्गवादः (57)

शतदूषणी ।।अथ निर्विशेषब्रह्मण आनन्दत्वभङ्गवादः सप्तपञ्चाशः ।।57।। ब्रह्मण्यानन्दशब्देन दर्शितां गुडजिह्विकाम् । निर्विशेषगृहीतानां वादिनां विलुनाम्यहम् ।। श्रूयते हि -* विज्ञानमानन्दं ब्रह्म, * आनन्दो ब्रह्म, * कं ब्रह्म खं ब्रह्मेत्यादि । तत्र किमिदं ब्रह्मण आनन्दत्वं नाम? सुखत्वमिति चेत्तदपि किमिति विचारयामः । किमनुकूलवेदनीयत्वम्? उतानुकूलवेदनत्वम्? अथानुकूलत्वमात्रम्? यद्वा दुःखनिवृत्तिरूपतामात्रम्? उत ज्ञानात्मकत्वमेव? किञ्चिद्धर्मान्तरं वा? न प्रथम; वेदनीयत्वस्यानभ्युपगमात् । व्यावहारिकं तदस्त्विति चेत्तर्हि ब्रह्मण […]

शतदूषणी आननत्यनिरूपणवादः (56)

शतदूषणी ।।अथ आनन्त्यनिरूपणवादः षट्पञ्चाशः ।।56।। देशानामपि देशतामुपगतं स्वाभाविकाद्वैभवात् कालस्यापि कलाद्युपाधिकलनात्काल्यत्वहेतुं स्तुमः । निश्शेषेऽपि विभूतिकोटिघटिते निम्नोन्नते वस्तुनि स्वाच्छन्द्येन जहत्समाधिककथासंभावनं तन्महः ।। यत्पुनः परिभाषन्ते -अनन्तपदसामर्थ्यादेव ब्रह्मव्यतिरिक्तानन्तवस्तुमिथ्यात्वं सिध्यति । तथा हि -अनन्तशब्देन असङ्कोचात्सर्वविधपरिच्छेदाभावोऽप्युच्यते; परिच्छेदश्चतुर्धा -देशतः कालतो वस्तुतः स्वरूपतश्चेति । तत्र गगनकुसुमादिवत् स्वरूपपरिच्छेदः सद्रूपत्वेन प्रतिक्षिप्यते, तच्च सत्यपदेनैव सिद्धमित्यनन्तपदेन तद्विवक्षा भवतु वा मा वा, त्रिविधपरिच्छेदाभावस्तावद्विवक्षित एव । तत्र सर्वदेशसर्वकालव्यापित्वादत्र देशे […]

शतदूषणी कार्यानुपपत्तिभङ्गवादः (55)

शतदूषणी ।।अथ कार्यान्यथानुपपत्तिभङ्गवादः पञ्चपञ्चाशः ।।55।। बालः क्रीडनकैरिव स्थिरचरैः स्वेनैव निर्वर्तितैस्सङ्कल्पैकवशंवदो विहरति ब्रह्मादिभिर्जन्तुभिः । जिज्ञास्याय मुमुक्षतामिह पुनः प्राप्याय मुक्तात्मनां लक्ष्मीकोस्तुभलक्ष्मणे नम इदं तस्मै परब्रह्मणे ।। यदाहुः – प्रत्यक्षमिदं श्रुत्यादिसिद्धं च सर्वं कार्यं मिथ्यैव, विकल्पासहत्वात् । तथा हि – किं कारणेन कार्यं सम्बद्धमारभ्यते, उतासम्बद्धम्? आद्ये सम्बन्धाश्रयतया द्वयोरपि सत्त्वाविशेषात्सव्येतरविषाणयोरिव किं कस्य कारणं कार्यं वा? असंबद्धत्वे तु असंबन्धाविशेषात् सर्वं […]

शतदूषणी मायोपादनत्वान्यथानुपपत्तिभङ्गवादः(54)

शतदूषणी ।।अथ मायोपादनत्वान्यथानुपपत्तिभङ्गवादः चतुःपञ्चाशः ।।54।। यत्प्रपत्तिं विना सर्वैर्यस्य माया दुरत्यया । धनञ्जयरथोत्तंसं तत्प्रपद्ये परं महः ।। यदुच्यते -* मायां तु प्रकृतिं विद्यादिति विश्वस्य मायोपादानकत्वश्रवणात्, मायाशब्दस्य च मिथ्यार्थत्वात् मिथ्योपादानकस्य च सत्यत्वायोगाद्विश्वमिथ्यात्वं सिद्धमिति; तदपि स्तनन्धयकथितम् । तत्र तावत् श्रुतौ वचनव्यक्तिर्विपर्यासिता । नहि तत्र प्रकृत्यनुवादेन मिथ्यात्वं विधीयते, अपि तु मायानुवादेन प्रकृतित्वम् । तुशब्दोऽपि तस्यैवानुकूलः । पूर्वस्मिन्वाक्ये *अस्मान्मायी सृजते […]

शतदूषणी ब्रह्मोपादनत्वान्यथानुपपत्तिभङ्गवादः (53)

शतदूषणी ।।अथ ब्रह्मोपादनत्वान्यथानुपपत्तिभङ्गवादः त्रिपञ्चाशः ।।53।। सद्ब्रह्मादिमुखैः पदैः श्रुतिषु यत्तत्वं समुद्धोषितं स्यामित्येव चराचरं जगदिदं सृष्ट्वा प्रविश्याभवत् । तस्मै विस्मयनीयमङ्गलगुणस्थेम्ने सदा स्थायिने सर्वावस्थसमस्तवस्तुवपुषे धाम्ने परस्मै नमः ।। अस्तु तर्हि ब्रह्मोपादानत्वान्यथानुपपत्त्या विश्वमिथ्यात्वसिद्धिः । तथा हि-केवलनिमित्तेश्वरवाद प्रतिक्षेपेण (मुखेन) ब्रह्मण एवोपादानत्वमपि * प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिभिः समर्थितम् । तदेतदुपादानत्वं किं मृद्धटादिवत् स्वरूपतः? उत बालयुवादिवत् सूक्ष्मचिदचिद्विशिष्टवेषेण? अथवा रज्जुसर्पादिवदविद्यावैचित्र्यनिबन्धनभ्रान्त्यैवेति । न तावत् प्रथमः, निर्विकारत्वनिरवद्यत्वश्रुति […]

शतदूषणी सगुणनिर्गुणश्रुतिव्यवस्थावादः(52)

शतदूषणी ।।अथ सगुणनिर्गुणश्रुतिव्यवस्थावादः द्विपञ्चाशः ।।52।। सत्त्वानीव विरुद्धजातिजनुषां सिद्धानि सिद्धाश्रमे वैरं यत्र मिथस्त्यजन्ति विधयस्सर्वे निषेधैस्सह । तद्गङ्गेशयमङ्गसङ्गिकमलालक्ष्येश्वरप्रक्रियं शान्तावद्यमनन्तमङ्गलगुणं ब्रह्म प्रपद्येमहि ।। निर्गुणश्रुतिभिः केचिद्बाधन्ते सगुणश्रुतीः । तासामन्योन्यसौहार्दमाहुर्यतिवराश्रयाः ।। अस्ति तावदुपनिषत्सु ब्रह्मण्येव सगुणवादो निर्गुणवादश्च । यथा-* यस्सर्वज्ञस्सर्ववित्, *पराऽस्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया च, * सत्यकामस्सत्यसङ्कल्पः,* ब्रह्मणा विपश्चितेत्याद्याः परस्सहस्रास्सगुणश्रुतयः । एवं * निर्गुणं निरञ्जनं निष्कलं निष्क्रियं शान्तम्,* अपहतपाप्मा विजरः,* […]

Astaksara Sarvaadhikara Samartanam

श्रीमते रामानुजाय नम: । श्री मधुरमंगलं श्रीपेरुंपूदूरु यंबार स्वामि योगीन्द्रेण कृतम् अष्टाक्षरस्य सर्वाधिकार समर्थनम् श्रिय:पति: परमकारुणिक: सर्वेश्वर: संसारिचेतनानां स्वस्वरूपादि याथात्म्यविज्ञानप्रदानेन समस्तसांसारिकदु:ख निबर्हणपूर्वकं “नित्यकिङ्कर: प्रहर्षयिष्यामि” इत्यायुक्तं निरतिशयानन्दं उत्पादयितुं, “मन्त्राणां परमोमन्त्र:” इत्यायुक्त प्रकारेण समस्त वेदमूलभूतं तत्व-हित-पुरुषार्थयातात्म्य प्रतिपादकं श्रीमदष्टाक्षरं स्वयमेव नरनारायणादिरूपेण अवतीर्य व्यासादिमहर्षीणां भगवन्निर्हेतुककटाक्षलब्धदिव्यज्ञानानां पराङ्कुशपरकालादि दिव्यसूरीणां च प्रकाशयामास।तथाच अनुगृहीतम् “नरनारायणनाय् उलहत्तरनूल् शिङ्गामै विरित्तवन् एम्पेरुमान्” (நரநாரணனாய் உலகத்து அறநூல் சிங்காமை […]

सिद्धान्तसिद्धाञ्जनम्-नित्यविभूतिपरिच्छेदः

सिद्धान्तसिद्धाञ्जनम् अथ नित्यविभूतिर्निरूप्यते ॥       रजोरहितत्वे सति तमोरहितत्वे सति वा सत्त्ववत्त्वम्, स्वयम्प्रकाशत्वे सति सत्त्ववत्त्वम् वा, चेतनधर्मभूतज्ञानान्यत्वे सति स्वयम् प्रकाशत्वम्, धर्मभूतज्ञानान्यत्वे सति पराक्त्वम् वा तल्लक्षणम् । लक्षणत्रयेऽति प्रकृतिवारणाय सत्यन्तम्, जीवादिवारणाय विशेप्यम्; चतुर्थलक्षणे जीवेश्वरधर्मभूतज्ञानवारणाय सत्यन्तम्, कालवारणाय विशेष्यम् । व्यावृत्तिः पञ्चमेऽप्यूह्या । न्यायसिद्धाञ्जने तु –निश्शेषाविद्यानिवृत्तिदेशविजातीयान्यस्वमपि तल्लक्षणमुक्तम् । निश्शेषाविद्याध्वम्सोत्पत्तिम् प्रत्याधेयतासम्बन्धेनावच्छेदकीभूतो यो देशस्तदवृत्तिद्रव्यविभाजकोपाधिमद्भिन्नत्वे सति द्रव्यत्वम् नित्यविभूतिलक्षणमिति तदर्थः । न च […]

सिद्धान्तसिद्धाञ्जनम्-ईश्वरपरिच्छेदः

सिद्धान्तसिद्धाञ्जनम् अथेश्वरो निरूप्यते ॥      *विभुत्वे सति चेतनत्वम् तल्लक्षणम्* । जीववारणाय सत्यन्तम्, कालवारणाय विशेष्यम् । प्रमेयत्वव्यापकत्वनिरूपकत्वरूपम् सर्वस्वामित्वम्, सर्वकर्मजन्यप्रीत्याश्रयत्वरूपम् सर्वकर्म- समाराध्यत्वम्, सर्वकर्मफलोत्पादकसङ्कल्पवत्त्वरूपम् सर्वफलप्रदत्वम्, सर्वद्रव्यपतनप्रतिबन्धक सङ्कल्पवत्त्वरूपसर्वाधारत्वम् च – तल्लक्षणम् । न च – ईश्वरस्य विभुत्वे *अनुप्रविश्य नामरूपे व्याकरवाणि* इत्यादिश्रुत्युक्तमनुप्रवेशादिकम् नोपपद्यत इति – वाच्यम्; विलक्षणसम्योगस्यैवानुप्रवेशशब्दार्थत्वात् । न च -भगवन्निरूपितस्वत्वस्य सर्वत्र सिद्धत्वे अग्नये स्वाहेत्यादावग्निपदस्याग्न्यन्तर्यामिपरत्वानुपपत्तिः, हविर्निष्ठस्वत्वरूपफलावच्छिन्नस्वस्वत्वध्वम्सानुकूलव्यापारस्यैव स्वाहापदार्थत्वात्तत्र स्वत्वरूपफलेऽन्तर्यामिनिरूपितत्वासम्भवादिति-वाच्यम्; तत्र विशेषणीभूताग्निनिरूपितत्वस्यैव […]

सिद्धान्तसिद्धाञ्जनम्-जीवपरिच्छेदः

सिद्धान्तसिद्धाञ्जनम् अथ जीवो निरूप्यते ॥ अणुत्वे सति ज्ञानाश्रयत्वम्, स्वव्यधिकरणसङ्कल्पजन्यकृतिमत्त्वम् न – तल्लक्षणम् । लक्षणद्वयेऽपीश्वरवारणाय सत्यन्तम् जन्यान्तम् च । जीवकृतिसामान्यस्य स्वव्यधिकरणेश्वरसङ्कल्पजन्यत्वाल्लक्षणसङ्गतिः । न च – *नित्यस्सर्वगतः* इति स्मृत्या जीवस्य विभुत्वबोधनाच्छरीरस्य देशान्तरगमनेऽपि ज्ञानसुखाद्युत्पत्तिदर्शना- त्तन्निर्वाहायात्मनोऽपि गमनागमनादिकल्पने गौरवाच्च विभुत्वकल्पनमेवोचितमित्यणुत्वघटितलक्षणासम्भव इति – वाच्यम् । *एषोऽणुरात्मा चेतसा वेदितव्यो बुद्धेर्गुणेनात्मगुणेन चैव ह्याराग्नमात्रो ह्यवरोऽपि दृष्टः*, *वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्स विज्ञेयः*- […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.