सारनिष्कर्षटिप्पणी
।। श्री ।। श्रीमते रामानुजाय नमः ॥ सारनिष्कर्षटिप्पणी ॥ सारोक्तसारनिष्कर्षटिप्पणी रच्यते मया । वागाभरणमीमांसाभाष्यसिद्धाञ्जनात्मिका ॥ अथातस्तत्र भगवान्निगमान्तगुरुः सारनिष्कर्षाधिकारे पूर्वाधिकारप्रकृतं रहस्यत्रयस्य सकलनिगमान्तशब्दराशिसारतमत्वं प्रतिष्ठापयितुं तस्य रहस्यत्रयव्यतिरिक्तसर्ववेदान्तभागानामसारत्वादिसिद्ध्यधीनत्वेन, प्रमाणमुखेन तदेतत्सर्वं व्यवस्थापयिष्यन् वक्ष्यमाणार्थं सङ्गृह्णाति – श्रुतिपथविपरीतं क्ष्वेलकल्पं श्रुतौ च प्रकृतिपुरुषभोगप्रापकांशो न पथ्यः । तदिह विबुधगुप्तं मृत्युगीता विचिन्व– न्त्वुपनिषदमृताब्धेरुत्तमं सारमार्याः ॥ इति । अत्रायं वक्ष्यमाणसंग्रहः – अलौकिकार्थानां प्रत्यक्षाद्यपरिच्छेद्यत्वात् शब्दैकसमधिगम्यत्वं सम्प्रतिपन्नं, स […]