सङ्कल्पसूर्योदयः-दशमोऽङ्कः

दशमोऽङ्कः निश्रेयस लाभः [ततः प्रविशति विष्णुभक्तिः ।] विष्णुभक्तिः – (आलम्बनविशेषाधीनमात्मनो वैभवम् निर्वर्ण्य) अहम् वैकुण्ठदास्यैकलास्यलीलाविनोदिनी । विश्वकिल्बिषसम्हारविभ्रमारभटीनटी ॥ १ ॥ किम् च, अम्बा मे पुरुषस्य बुद्धिरनघा तातः स धर्मोत्तरः सन्तुष्टिः सहजा क्षमा प्रियसखी सद्वृत्तिराज्ञाकरी । विद्यैव स्वयमस्मि विश्ववृजिनप्रध्वम्सनम् क्रीडितम् साऽहम् प्राणिमि विष्णुभक्तिरचला सन्तिष्ठते सम्सृतिः ॥ २ ॥ अपि च प्रत्यक्षित परावर तत्त्वैर्महर्षिभिर्भगवतैव च गीतम् परमार्थ भूतमन्यमप्यर्थमनुकथयामि […]

सङ्कल्पसूर्योदयः-नवमोऽङ्कः

नवमोऽङ्कः समाधि सम्भवः चूलिका (नेपथ्ये) मोहाकूपारकुक्षिम्भरिरयमनघो मुक्तिवीरुत्प्ररोहः प्रज्ञासौधैकदीपः प्रतिसमयकथातूलवातूलवेगः । दुःखद्वारोपरोधस्थिरतरपरिघो दूरतः प्रत्युपैति क्रूरक्रोधाशुशुक्षण्युपशमनसुधासारसेको विवेकः ॥ १ ॥ Iतिचूलिका [ततः प्रविशति राजा व्यवसायश्च । राजा – (सहर्षबहुमानम्) सेनापते! अद्य खलु मया त्वत्पुरस्कारेण निर्जितः सर्वदोषप्रसूतिः मधुकैटभादिभिर्महासुरैः, महद्भिरपि देवैः दुर्जयो महामोहः । व्यवसायः – देव! वयम् हि भवतो वाहनादिवदुपकरणमात्रम्, प्राधान्यम् तु सर्वत्र भवत एव । अनुस्मरतश्च ते […]

सङ्कल्पसूर्योदयः-अष्टमोऽङ्कः

अष्टमोऽङ्कः मोहादि पराजयः मिश्रविष्कम्भः [ततः प्रविशति अभिनिवेशः] अभिनिवेशः – (स्वसामर्थ्यम् बहुमत्य) हृष्यन्ति व्यसनेषु सप्तसु मुधाऽऽरब्धेषु मत्प्रेक्षिताः प्रारब्धम् न परित्यजन्ति च मुहुः प्रत्यूहवात्याहताः । नानादुःखभयानकेऽपि न जहत्यर्थे पुमर्थे रतिम् मोहस्याभिनिवेश एकदृगहम् कोशाधिकारे स्थितः ॥ १ ॥ अपि च, लोभोऽपि महामोहसर्वस्वभूतो मामेव दर्शितसौभ्रात्रम् सहायीकृत्य सर्वत्र विजयते । यतः, अवसादप्रसङ्गेषु स्वयमुत्तम्भनोद्यतः । अहमार्यस्य लोभस्य भ्राता चरमसम्भवः ॥ २ […]

सङ्कल्पसूर्योदयः-सप्तमोऽङ्कः

सप्तमोऽङ्कः शुभाश्रयनिर्धारणम् शुद्धविष्कम्भः [ततः प्रविशति सम्स्कारः] सम्स्कारः – अहम् खलु अनुभवामुष्यायणः सम्स्कार(रापर)नामा देवस्य विवेकस्य शिक्षितसकलविद्यः शिल्पी देवशिल्पिनम् विश्वकर्माणम् असुरशिल्पिनम् मयम् च विजित्य विश्रमाभिलाषी चिरमस्वाप्सम् । तावच्चेदमन्तरमासाद्य महामोहप्रयुक्ताभ्याम् मधुकैटभाभ्यामिव महाबलाभ्याम् मध्यमचरमगुणाभ्याम्, सत्त्वमित्रमसाविति जिघाम्सितः । नूनमप्रबुद्धतैव पुरुषेषु प्रतिपक्षजनस्य हस्तावलम्बः ।    ततश्चाहम् प्रतिबोधितः सहसैव परमपुरुषदयाचोदितया देव्या सुमत्या सहजदृष्टिसदृशदृष्टिसञ्ज्ञाभ्याम् दासीभ्याम् । तदिह निरवकाशतया ततस्ततः पलायिते प्रतिपक्षे, केनापि हेतुना […]

सङ्कल्पसूर्योदयः-षष्ठोऽङ्कः

षष्ठोऽङ्कः स्थान विशेषसङ्ग्रहः [ततः प्रविशति कञ्चुकी] कञ्चुकी – अहम् हि देवस्य महामोहस्य दर्पसम्भवः स्तम्भो नाम सदागम प्रतिरोधकः प्रतिहारी । मम च, वलिभिरविरलाभिर्वर्ष्म सोपानकल्पम् द्रतपदमधिरूढा दुर्निवारा जरेयम् । तदपि नियतिभूम्ना तादृशी वेत्रयष्टिः सह चरतिम् मयाऽसौ शैशवे सङ्गृहीता ॥ १ ॥ किम् च, निश्शङ्कसञ्चरणविघ्नविधायिनीभ्याम् निष्पीडितोऽस्मि जरसा च नृपाज्ञया च । मध्योपलक्षितमनोरथभङ्गदीना वाञ्छा न शाम्यति वयः सकलम् प्रशान्तम् […]

सङ्कल्पसूर्योदयः-पञ्चमोऽङ्कः

पञ्चमोऽङ्कः डम्भभाद्युपालम्भः [ततः प्रविशति डम्भः कुहना च] डम्भः – अहहारे त्वाम् धर्मपत्नि! कुहने! सम्बोधयामि । त्वम् हि मे तारेव बृहस्पतेः, अहल्येव गौतमस्य, अस्पृष्टपुरुषान्तरा क्षणविरहाक्षमा सहधर्मचारिणी । कुहना – यद्ब्राह्मणेश्वरो भणति । तथाऽपि लज्जामि निर्दिष्टान्निदर्शनात् । अरुन्धतीव वसिष्ठस्येति वचनीयम् गृहस्वामिना । यदाहम् तस्करैः कितवैर्ग्रामणीभिर्नरेन्द्रामात्यैः पाषण्डिभिरन्यैरपि तादृशैः प्रार्थिताऽस्मि, तदाऽपि तान् त्वामेव स्मृत्वा सेवे । डम्भः – (सान्तर्हासम्) […]

सङ्कल्पसूर्योदयः-चतुर्थोऽङ्कः

चतुर्थोऽङ्कः कामादि व्यूह भेदनम् (ततः प्रविशति कामो वसन्तश्च) कामः – सखे वसन्त! इक्षुः पेशलमीदृशम् मम धनुः पुष्पाण्यमी सायकाः तन्त्रीमञ्जुलनिस्वना मधुकरश्रेणी शुभा शिञ्जिनी । भीरुः सन्नबलाजनो मम बलम् तथ्यम् परम् कथ्यते सोऽहम् निर्जितशूलभृत्प्रभृतिकः सङ्कल्पसिद्धोदयः ॥ १ ॥ अपि च, त्वयि सम्भृतशस्त्रास्त्रे सहाये मम सम्स्थिते । महता पश्य मोहेन विश्वमेकातपत्रितम् ॥ २ ॥ वसन्तः – किमुच्यते? कामः […]

सङ्कल्पसूर्योदयः-तृतीयोऽङ्कः

तृतीयोऽङ्कः मुक्तयुपाय आरम्भः शुद्धविष्कम्भः [ततः प्रविशतो रागद्वेषौ ।] रागः – सखे, त्वत्सहायस्य मे स्वामिकार्यनिर्वर्तनम् सिद्धप्रायमिति निश्चिनोमि । द्वेषः – वयस्य, त्वद्विरुद्धविषयविवेकसम्रम्भनिरोधेन त्वदेककार्य एव ह्यहमादिष्टोऽस्मि महाराजेन । रागः – सखे, अन्यदपि तावदवसरोचितमाज्ञप्तिगोचरमावेदयामि । विवेककुहनाबलाद्व्यतिहतेषु बाह्येष्वसौ त्रिवर्गपदवी परम् शरणमद्य मोहश्रियः । विरक्तिमिह तापसीम् व्यपनयामि दूरादहम् विमथ्य विनिवर्त्यताम् सपदि विष्णुभक्तिस्त्वया ॥ १ ॥ सम्भवति च सर्वथा सर्वतः प्रसारिताभ्याम् […]

सङ्कल्पसूर्योदयः-द्वितीयोऽङ्कः

द्वितीयोऽङ्कः परपक्ष प्रतिक्षेपः प्रवेशकः [ततः प्रविशति श्रद्धा विचारणा च ।] विचारणा – हला! श्रमजलबिन्दुनिकरनिर्भासित निटालतला वत्सदर्शनोत्सुका वत्सलेव त्वरमाणा वर्तसे । मुखचन्द्रस्यन्दितसुधासुभगाश्छविफुल्लमल्लीमकरन्दनिभाः । नवसौम्ययौवनलताकलिका श्रियमुद्वहन्ति तव स्वेद कणाः ॥ १ ॥ श्रद्धा – प्रियसखि, इदानीम् किल एकमुखप्रतिष्ठापितश्रुतिशिरस्सिद्धान्तस्य प्रतिपक्षप्रतिक्षेपभावितप्रतिज्ञस्य भर्तुर्विवेकस्य सहधर्मचारिणी देवी सुमतिः प्रक्रान्तनिर्वहणदोहलेन परिगृहीतमङ्गलाचारा प्रमदावनपार्श्वरत्नशैलमाश्रिता कमलापति चरणकमलसमर्चनयोग्यानि काञ्चनपद्मानि उपहर्तुमाज्ञाप्य शोभनैकतानहृदया सुखम् तिष्ठति । तज्झटित्युपसर्पामि पङ्कजासनवदनपङ्कजराजहम्म्सीम् भारतीमिव […]

सङ्कल्पसूर्योदयः-प्रथमोऽङ्कः

श्रीः श्रीमते रामानुजाय नमः । श्रीमते निगमान्तमहादेशिकाय नमः । श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्ताम् सदा हृदि ॥ कवितार्किकसिम्हसर्वतन्त्रस्वतन्त्र श्रीमद्वेदान्ताचार्य विरचितम् नाटकम् सङ्कल्पसूर्योदयः प्रथमोऽङ्कः स्वपक्षप्रकाशः यद्भक्तिप्रचयात्मके दिनमुखे दृष्टिक्षमः क्षेत्रिणः क्षिप्रम् सम्सृतिशर्वरीम् क्षिपति यत्सङ्कल्पसूर्योदयः । तत्त्वैरस्त्रविभूषणैरधिगत स्वाधीननित्योन्नतिः श्रीमान् अस्तु स मे समस्तविपदुत्ताराय नारायणः ॥ १ ॥ लक्ष्ये यत्र श्रुतिमितगुणाकृष्टि लब्धावधानैः प्रत्यग्बाणः प्रणवधनुषा सत्त्ववद्भिः प्रयुक्तः । मध्येवक्षः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.