शतदूषणी आननत्यनिरूपणवादः (56)
शतदूषणी ।।अथ आनन्त्यनिरूपणवादः षट्पञ्चाशः ।।56।। देशानामपि देशतामुपगतं स्वाभाविकाद्वैभवात् कालस्यापि कलाद्युपाधिकलनात्काल्यत्वहेतुं स्तुमः । निश्शेषेऽपि विभूतिकोटिघटिते निम्नोन्नते वस्तुनि स्वाच्छन्द्येन जहत्समाधिककथासंभावनं तन्महः ।। यत्पुनः परिभाषन्ते -अनन्तपदसामर्थ्यादेव ब्रह्मव्यतिरिक्तानन्तवस्तुमिथ्यात्वं सिध्यति । तथा हि -अनन्तशब्देन असङ्कोचात्सर्वविधपरिच्छेदाभावोऽप्युच्यते; परिच्छेदश्चतुर्धा -देशतः कालतो वस्तुतः स्वरूपतश्चेति । तत्र गगनकुसुमादिवत् स्वरूपपरिच्छेदः सद्रूपत्वेन प्रतिक्षिप्यते, तच्च सत्यपदेनैव सिद्धमित्यनन्तपदेन तद्विवक्षा भवतु वा मा वा, त्रिविधपरिच्छेदाभावस्तावद्विवक्षित एव । तत्र सर्वदेशसर्वकालव्यापित्वादत्र देशे […]
शतदूषणी कार्यानुपपत्तिभङ्गवादः (55)
शतदूषणी ।।अथ कार्यान्यथानुपपत्तिभङ्गवादः पञ्चपञ्चाशः ।।55।। बालः क्रीडनकैरिव स्थिरचरैः स्वेनैव निर्वर्तितैस्सङ्कल्पैकवशंवदो विहरति ब्रह्मादिभिर्जन्तुभिः । जिज्ञास्याय मुमुक्षतामिह पुनः प्राप्याय मुक्तात्मनां लक्ष्मीकोस्तुभलक्ष्मणे नम इदं तस्मै परब्रह्मणे ।। यदाहुः – प्रत्यक्षमिदं श्रुत्यादिसिद्धं च सर्वं कार्यं मिथ्यैव, विकल्पासहत्वात् । तथा हि – किं कारणेन कार्यं सम्बद्धमारभ्यते, उतासम्बद्धम्? आद्ये सम्बन्धाश्रयतया द्वयोरपि सत्त्वाविशेषात्सव्येतरविषाणयोरिव किं कस्य कारणं कार्यं वा? असंबद्धत्वे तु असंबन्धाविशेषात् सर्वं […]
शतदूषणी मायोपादनत्वान्यथानुपपत्तिभङ्गवादः(54)
शतदूषणी ।।अथ मायोपादनत्वान्यथानुपपत्तिभङ्गवादः चतुःपञ्चाशः ।।54।। यत्प्रपत्तिं विना सर्वैर्यस्य माया दुरत्यया । धनञ्जयरथोत्तंसं तत्प्रपद्ये परं महः ।। यदुच्यते -* मायां तु प्रकृतिं विद्यादिति विश्वस्य मायोपादानकत्वश्रवणात्, मायाशब्दस्य च मिथ्यार्थत्वात् मिथ्योपादानकस्य च सत्यत्वायोगाद्विश्वमिथ्यात्वं सिद्धमिति; तदपि स्तनन्धयकथितम् । तत्र तावत् श्रुतौ वचनव्यक्तिर्विपर्यासिता । नहि तत्र प्रकृत्यनुवादेन मिथ्यात्वं विधीयते, अपि तु मायानुवादेन प्रकृतित्वम् । तुशब्दोऽपि तस्यैवानुकूलः । पूर्वस्मिन्वाक्ये *अस्मान्मायी सृजते […]
शतदूषणी ब्रह्मोपादनत्वान्यथानुपपत्तिभङ्गवादः (53)
शतदूषणी ।।अथ ब्रह्मोपादनत्वान्यथानुपपत्तिभङ्गवादः त्रिपञ्चाशः ।।53।। सद्ब्रह्मादिमुखैः पदैः श्रुतिषु यत्तत्वं समुद्धोषितं स्यामित्येव चराचरं जगदिदं सृष्ट्वा प्रविश्याभवत् । तस्मै विस्मयनीयमङ्गलगुणस्थेम्ने सदा स्थायिने सर्वावस्थसमस्तवस्तुवपुषे धाम्ने परस्मै नमः ।। अस्तु तर्हि ब्रह्मोपादानत्वान्यथानुपपत्त्या विश्वमिथ्यात्वसिद्धिः । तथा हि-केवलनिमित्तेश्वरवाद प्रतिक्षेपेण (मुखेन) ब्रह्मण एवोपादानत्वमपि * प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधादित्यादिभिः समर्थितम् । तदेतदुपादानत्वं किं मृद्धटादिवत् स्वरूपतः? उत बालयुवादिवत् सूक्ष्मचिदचिद्विशिष्टवेषेण? अथवा रज्जुसर्पादिवदविद्यावैचित्र्यनिबन्धनभ्रान्त्यैवेति । न तावत् प्रथमः, निर्विकारत्वनिरवद्यत्वश्रुति […]
शतदूषणी सगुणनिर्गुणश्रुतिव्यवस्थावादः(52)
शतदूषणी ।।अथ सगुणनिर्गुणश्रुतिव्यवस्थावादः द्विपञ्चाशः ।।52।। सत्त्वानीव विरुद्धजातिजनुषां सिद्धानि सिद्धाश्रमे वैरं यत्र मिथस्त्यजन्ति विधयस्सर्वे निषेधैस्सह । तद्गङ्गेशयमङ्गसङ्गिकमलालक्ष्येश्वरप्रक्रियं शान्तावद्यमनन्तमङ्गलगुणं ब्रह्म प्रपद्येमहि ।। निर्गुणश्रुतिभिः केचिद्बाधन्ते सगुणश्रुतीः । तासामन्योन्यसौहार्दमाहुर्यतिवराश्रयाः ।। अस्ति तावदुपनिषत्सु ब्रह्मण्येव सगुणवादो निर्गुणवादश्च । यथा-* यस्सर्वज्ञस्सर्ववित्, *पराऽस्य शक्तिर्विविधैव श्रूयते, स्वाभाविकी ज्ञानबलक्रिया च, * सत्यकामस्सत्यसङ्कल्पः,* ब्रह्मणा विपश्चितेत्याद्याः परस्सहस्रास्सगुणश्रुतयः । एवं * निर्गुणं निरञ्जनं निष्कलं निष्क्रियं शान्तम्,* अपहतपाप्मा विजरः,* […]
शतदूषणी मुक्तसंविन्निर्विषयत्वभङ्गवादः(51)
शतदूषणी ।।अथ मुक्तसंविन्निर्विषयत्वभङ्गवादः एकपञ्चाशः ।।51।। अनुकूलतया सर्वं पश्यन्त्या मुक्तसंविदः । आन्ध्यं निर्विषयत्वेन वदतोऽर्थान्निरुन्ध्महे ।। *धीसन्ततिस्स्फुरति निर्विषयोपरागेति सौगतोपदिष्टमेव सन्ततिशब्दप्रहाणमात्रेण संगृह्णन्तः श्रुतिभिस्तावद्बाह्यतया ख्याप्यन्ते । तथा हि *ब्रह्मविदाप्नोति परमित्युपक्रम्य * सोऽश्नुते सर्वान् कामान् सह, ब्रह्मणा विपश्चितेति ब्रह्मवेदनफलत्वेन विभूतिगुणविशिष्टब्रह्मानुभव एव प्रपञ्च्यते । * यदा पश्यः इत्यादौ * निरञ्जनः परमं साम्यमुपैतीतीश्वरपरमसाम्यापत्तिवचनाच्च सार्व यादिकं मुक्तस्य सिद्धम् । * मम साधर्म्यमागताः इति […]
शतदूषणी परमते शास्त्राधिकारिभङ्गवादः(50)
शतदूषणी ।।अथ परमते शास्त्राधिककारिभङ्गवादः पञ्चाशः ।।50।। हताशेषक्लेशा निरवधिमहानन्दधनिनो वयं भूयास्मेति स्थिरमनधवर्त्मन्यधिकृताः । अनाघ्रातद्वन्द्वा हयमुखपदद्वन्द्वरुचयः स्वदन्तां मे सन्तः श्रुतिजलधिमुष्टिन्धयधियः ।। साधनचतुष्टयं पूर्ववृत्तमिति वदद्भिर्मुमुक्षुत्वं तावदधिकारिविशेषणमित्यङ्गीकृतम् । सा च मुमुक्षा मोक्षो मे स्यादित्येवमाकारा । तथाविधा सा कस्याधिकारिणो विशेषणमिति कथयन्तु कथयन्तु कलिब्रह्ममीमांसकाः, किं नित्यमुक्तस्वभावस्य संविदात्मनः? उत तस्यैवाविद्यासाक्षितामापन्नस्य? उतान्तः करणप्रतिफलितचिदाभासस्य? तद्वृत्तिसमारोपितक्रियात्वस्य वा चैतन्यस्य? अन्तःकरणस्यैव वा? अथ यस्यकस्यचिदनभिलप्यस्य? न वा कस्यचित्? […]
शतदूषणी ऐक्योपदेशान्यथानुपपत्तिभङ्गवादः(49)
शतदूषणी ।।अथ ऐक्यापदेशान्यथानुपपत्तिभङ्गवादः एकोनपञ्चाशः ।।49।। त्रिविधचिदचिदन्तर्यामितां प्राप्य तिष्ठन्निखिलनिगमनिष्टैर्नित्यमैक्योपदेशैः । भ्रमममलधियां यो वारयत्येकभक्त्या भवतु शरणवाणी तत्पदे शाश्वती नः ।। यदाहुः,*तत्त्वमसि, *क्षेत्रज्ञं चापि मां विद्धीत्याद्यैक्योपदेशान्यथानुपपत्त्या परिशुद्धे ब्रह्मण्येवाज्ञानं भेदभ्रमश्चावश्यं कल्पनीयम् । नचात्रैक्यं न प्रतीयते, न चाविवक्षितम्; सामानाधिकरण्यस्य तन्निष्ठत्वात्, विशिष्टैक्यवादिनाऽप्यैक्यमात्रस्यास्थितत्वाच्च । नचेदमारोपवृत्त्या सामानाधिकरण्यम्, तत्त्वोपदेशप्रकरणविरोधात् । न च सम्बन्धादिद्वारोपचारः, बाधकाभावात् । यद्यप्यस्मन्मतेऽपि लक्षणा, तथाऽपि प्रधानभूतसामानाधिकरण्यप्रतिपाद्यस्य मुख्यस्यैक्यस्यापरित्यागात्, तत्संरक्षणाय च स्वरूपोलक्षणभूतनिमित्तमात्रप्रहाणादिकं न […]
शतदूषणी उपबृंहणवैघट्यवादः(48)
शतदूषणी ।।अथ उपबृंहणवैघट्यवादः अष्टचत्वारिंशः ।।48।। गुणविभूतिविशेषविचित्रितं निगमसीमनि यत्समधीमहे । स्मृतिपुराणशतैरुपबृंहितं तदिदमस्तु सदा हृदयेषु नः ।। यदुच्यते-निर्विशेषचिन्मात्रब्रह्मात्मैक्यं त्रय्यन्तसिद्धं स्मृतिपुराणादीन्युपबृंहयन्तीति; तत्र तावत् तत्तत्प्रकरणादिपरामर्शेन भाष्यकारै तेषां यथावस्थितोऽर्थः प्रदर्शितः । सामान्यतः किंचिदुच्यते । यदा शब्दमात्रस्य निर्विशेषबोधनसामर्थ्यं नास्तीत्युपापीपदाम तदा कैव कथा तद्विशेषाणाम्? यदा च श्रुतिपरिषदशेषाऽपि विशिष्टविषयेति निरणैष्म, तदा कथं तदुपबृंहणानि तत्प्रतिपादकानि प्रतिपद्येमहि? यदा पुनः निर्विशेषपरा सेति पश्यसि, तदा तत्रोपबृंहणं नाम […]
शतदूषणी विकल्पप्रामाण्यभङ्गवादः(47)
शतदूषणी ।।अथ विकल्प्रामाण्यभङ्गवादः सप्तचत्वारिंशः ।।47।। संसारसागरोत्तारकारणं वारणाचले । अविकल्पविकल्पाभ्यामध्यक्षितमुपास्महे ।। यदुच्यते -विप्रतिपन्नो विकल्पो मिथ्याविषयः विकल्पत्वात्, यथा शुक्तिरजतविकल्पः, नासौ जात्यादिविशिष्टप्रत्यय इति सर्वस्यापि भेदस्य विकल्पविषयतया मिथ्यात्वे परिशेषादद्वैतसिद्धिरिति; तदेतत् सविकल्पकमपि प्रत्यक्षविभागतयोदाहरद्भिर्भाष्यकारैर्निरस्तप्रायम् । तद्विस्तृणीमहे । तत्र तावत्पक्षादयो न निर्विकल्पकविषयतया सिद्धाः, तथा सत्यभिलापसम्बन्धानर्हत्वप्रसङ्गात् । विकल्पविषयतया सिद्धौ तु, य एते पक्षादिग्राहिणो विकल्पाः किं तेऽपि पक्षीक्रियन्ते, उत तद्धतिरिक्ताः? इति । न प्रथमः, […]