शतदूषणी आत्माद्वैतभङ्गवादः(36)
शतदूषणी अथ आत्माद्वैतभङ्गवादः षट्त्रिंशः । नमस्त्रेधा विभक्तानामात्मनामन्तरात्मने । ब्रह्मणे हयवक्त्राय बन्धमोक्षैकहेतवे ।। यदुच्यते तावदात्माद्वैतवादिभिरेक एवात्मा देहाद्युपाधिभेदेन बहुधा प्रतिभाति, तरङ्गचन्द्रवत्, सौभर्यादिवच्च । तथा च प्रयोगाः – विगीतानि शरीराणि मयैवात्मवन्ति, शरीरत्वात्, सम्प्रतिपन्नमच्छरीरवत्; सर्वं जाग्रच्छरीरं मदविद्याकल्पितम्, शरीरत्वात्, कल्पितत्वाद्वा, स्वप्नदृष्टमच्छरीरवत; सर्वोप्यात्मा अहमेव, चेतनत्वात्, अहमिव; सर्वाणि सुखदुःखानि मयैव भुज्यन्ते, सुखदुःखत्वात्, मत्सुखदुःखवत्; विगीतानि शरीराणि देवदत्तात्मना आत्मवन्ति, शरीरत्वात्, सम्प्रतिपन्नदेवदत्तशरीरवत्; एवं सहस्रशोनुमानानि विभज्य […]
शतदूषणी तिरोधानानुपपत्तिवादः(35)
शतदूषणी अथ तिरोधानानुपपत्तिवादः पञ्चत्रिंशः । यन्मायामोहितात्मनो यान्मायामोहितं विदुः । तत्प्रपद्य तदुक्तोयं तिरोधिरवधूयते ।। यदाहुर्ब्रह्मधातिनो ब्रह्मविदो ब्रह्मस्वरूपमविद्यातिरोहितमिति । तत्र किमिदन्तिरोधानम्? किमिन्द्रियसम्बन्धनिवारणम्, किमैन्द्रियकज्ञानस्य तद्विषत्तानिवर्तनम्, यद्वा सर्वेषामपि ज्ञानानां तद्विषयतापाकरणम्, अथवा स्वस्य स्वकर्मताव्यपोहः, स्वप्रकाशभङ्ग एव वा, विशदस्वरूपस्याप्यविशदस्वरूपत्वापादनं वा, ब्रह्मप्रकाश सामग्र्यनुप्रविष्टस्वभावनिरासो वा, अनिरूपणीयस्वरूपमन्यदेव वा किञ्चिदिति । नाद्यः, अशक्यत्वात् । तथाहि – सम्बन्धशब्देन किं सामान्यतस्सम्बन्धमात्रं विवक्षितम्, तद्विशेषो वा? आद्येत्विन्द्रियाणां […]
शतदूषणी उपदेशानुपपत्तिवादः(34)
शतदूषणी अथ उपदेशानुपपत्तिवादः चतुस्त्रिंशः । हयमुखमुखैस्तत्तद्रूपैरकर्मविनिर्मितै रुपदिशति यस्तथ्यं पथ्यं सतामवसीदताम् । जननपदवीयातायातश्रमापहरां धियं जनयतु स मे देवः श्रीमान् धनञ्जयसारधिः ।। अस्ति तावदासर्वेश्वरादस्मदादिपर्यन्तमासंसारमनुवर्तमानो दृष्टा दृष्टप्रयोजनः सर्वसैद्धान्तिक सम्मतश्शिष्याचार्यक्रमः । स एष निर्विशेषैकशेमुषीमात्रपरिशेषमुषितनिरवशेषभुवनस्य न कथञ्चिदपि सङ्गच्छते । तथाहि – आत्माद्वैतमुपदिशन्नाचार्यः किं शिष्यतया शिक्षणीयं कं चिदपि नोपलभते, उतोपलभते? आद्ये कस्मा उपदिशेत्? न कस्मैचिदितिचेत्? तर्हि नोपदिशेदेव, श्रोतृप्रतिपत्तिप्रयोजकत्वादुपदेशस्य । अन्यथाआरण्यकोपदेशस्य । […]
शतदूषणी संविदद्वैतभङ्गः वादः(33)
शतदूषणी ।।अथ संविदद्वैतभङ्गः वादः त्रयस्रिंशः।।33।। बहुविधभक्तिज्ञानप्रभावपूतैर्निषेवितं बहुभिः । प्रभयेव भानुमन्तं लक्ष्म्या सेव्यन्तु लक्षयामस्तम् । अत्र खलु महार्णवावर्तगर्तकुहरेषु आवर्तमानाः पुरुषा आवर्तयन्ति नियतमेतादृशानि वाक्यानि – एकैव संविदनेकज्ञातृज्ञेयतदवच्छिन्नज्ञप्तिरूपेण विवर्तन इत्येवमादीनि । तदसङ्गतम्, घटादि विषयैकैकधियांतथा विवक्षायां क्वचिदपि विदिताविदितविभागा भावप्रसङ्गात् । तत्तत्पूर्वोत्तरकालयोः प्रपञ्चानुपलब्धिप्रसङ्गाच्च । सैव संवित्तच्चातच्च वेद्यं क्रमेणोपसर्पतीति चेन्न; – घटादेरिव सुखादेरिव च संविदोप्युत्पत्तिविनाशादिप्रत्ययस्य निराबाधत्वात् । यौक्तिकबाधस्य सुखदुःखादावपि वक्तुं शक्यत्वात् […]
शतदूषणी बाधार्थसामानाधिकरण्यभङ्गवादः(32)
शतदूषणी ।।अथ बाधार्थसामानाधिकरण्यभङ्गवादः द्वात्रिशः।।32।। यदधिकरणमेतद्यद्विधेयं यदर्थं यत उदितमपीति प्रोच्यते यद्वि विश्वम्् । तमजमजडमन्तर्यामिणं सर्वजन्तोः निरवधिमहिमानं देवमाराधयामः ।। यदाहुः – य इह निर्विशेषचिन्मात्रब्रह्माविद्याविवर्तरूपाणां तत्तत्पदार्थानां तत्वोपदेशपरेषु वाक्येषु ब्रह्मणा सह सामानाधिकरण्यनिर्देशः स बाधार्थ एव, अर्थान्तरासम्भवात् तस्यैव विवक्षितत्वात् । तथाहि – अन्धकारादिषु स्थाणुमविशिष्टमवलोक्य यश्चोर इति मुह्यति तं प्रति तत्वदर्शी कश्चिद्वदति त्वद्द्ष्टश्चोरः स्थाणुरिति । तस्य कोर्थः? चोरत्वाभिमानविषयः ते न चोर […]
शतदूषणी जीवन्मुक्तिभङ्ग वादः(31)
शतदूषणी ।।अथ जीवन्मुक्तिभङ्ग वादः एकत्रिंशः।।31।। अन्ते विरोधिजनसङ्क्रमणीयसर्व पूर्वोत्तराधनिवहप्रतिबन्धकेन । यद्व्यानसन्ततिलताप्रथमाङ्कुरेण मुक्ता इवात्र मुनयः स गतिस्स्वयन्नः ।। समन्वयाधिकरणभाष्ये परेषां सयूध्यकलहमुपक्षिप्य जीवन्मुक्त पक्षः प्रतिक्षिप्तः, तदेवात्र पूर्वापरसङ्गतेर्व्याकुर्मः । यदाहुः – ब्रह्मात्मैक्योपदेशपरतत्वमसिवाक्यश्रवणजनिततत्वाध्यवसायादेव जीवन्नपि मुच्यते पुरुषः, ज्ञानस्यैव स्वाभाविक मोक्षप्रतिबन्धनिवर्तकत्वात्, तस्यच निष्पन्नत्वात्; बाधातिरिक्तायाश्च विरोधिनिवृत्तेरभावात् । नहि रज्जुयाथात्म्यज्ञानातिरेकेण मिथ्याभूतसर्पभयनिवृत्तेः सर्पविनाशोऽप्यपेक्षितः । नच शरीरदेस्सत्यत्वमिच्छामः, येन ज्ञानमात्रान्न निवर्तेत । श्रूयतेच – “तमेवं विद्वानमृतइह भवति’ […]
शतदूषणी असत्यात्सत्यसिद्धिभङ्गवादः(30)
शतदूषणी ।। अथ असत्यात्सत्यसिद्धिभङ्गवादः त्रिंशः ।।30।। सत्यैरेव सदातनोक्तिनिवहैस्सत्यप्रमाहेतुभिस्सत्यं ज्ञानमनन्तमेकममलं यद्ब्रह्म निर्दिश्यते । तत्सत्यैःपरिकर्मितं गुणगणैस्सत्यादिसन्धिक्रियं सत्यानन्दविभूतिकं विचिनुमस्सत्यस्य सत्यं महः ।। योऽयमसत्यप्रलापः -असत्यादपि शास्त्रादेस्सत्यस्य ब्रह्मणः सिद्धिस्संभवति । अस्ति चासत्यात्सत्योत्पत्तेस्सत्यप्रतिपत्तेश्च लोके बहुलमुपलम्भः; आरोपितैरेव शुक्तिरजतरज्जुसर्पशङ्का विषभावितगरुडादिभिः सत्यस्य हर्षभयमरणगरलहरणादेर्दर्शनात् । तथा स्वाप्नार्थेन शुभादिः, प्रतिबिम्बेन बिम्बतत्त्वम्, लिप्यक्षरैरक्षराणि, रेखागवयादिभिस्सत्यगवयादिः, चित्रपुरुषदिभिः पुराणवृत्तान्तादिः, नादविशेषोपाधिकशब्दनानात्वेनार्थभेदश्चेति असत्यैरेव सत्यानि निश्चीयन्ते । तथा वाष्पारोपितधूमादिभिर्यदृच्छासन्निहितधूमध्वजादिसिद्धिः । न चात्र सर्वत्र […]
शतदूषणी शास्त्रविरोधपरिहारवादः(29)
शतदूषणी ।।अथ शास्त्रविरोधपरिहारवादः एकोनत्रिंशः ।।29।। विदितमनुवदन्तो विश्वमेतद्यथावद्विदधति निगमान्ताः केवलं यन्मयत्वम् । अविदितबहुभूमा नित्यमन्तर्विधत्तां हयवरवदनोऽसौ सन्निधिस्सन्निधिं नः ।। यदाहुः – शास्त्रप्रत्यक्षयोर्विरोधे शास्त्रं बलीयः । अन्यथाऽद्वैतशास्त्रस्य प्रामाण्योच्छेदप्रसङ्गात्, अपरोक्षदेहात्मभ्रमादेश्च दुर्निरासत्वापातात् । न चात्र विरोध एव न सम्भवतीति वाच्यम्, भेदप्रपञ्चगोचरत्वतन्निषेधाभ्यां विरुद्धविषयत्वोपलम्भात् । न च देशकालस्वरूपादिभेदेन निषेधः संकोचमर्हति, “नेह नानास्ति किंचन”, (बृह.6 – 4 – 9) “तस्मान्न विज्ञानमृतेऽस्ति किंचित्क्वचित्कदाचिद्विज वस्तुजातमि” […]
शतदूषणी साक्षित्वभङ्गवादः(28)
शतदूषणी ।।अथ साक्षित्वभङ्गवादः अष्टाविंशः ।।28।। चतुर्दशविधस्यापि साक्षिवर्गस्य साक्षिणे । स्वतस्सर्वविदे तस्मै नमस्सर्वान्तरात्मने ।। यत्पुनराहुः – आसंसारमज्ञानसाक्षित्वेन ब्रह्मावतिष्ठते । श्रूयते हि – “साक्षी चेता केवलो निर्गुणश्चे” (श्वेता – 6 – 11)त्यादि। न च स्वप्रकाशप्रत्यक्षादैन्द्रियिकप्रत्यक्षाच्चातिरिक्तं साक्षिप्रत्यक्षं नाम न किञ्चिदुपलभ्यत इति वाच्यम्, सुखमहमस्वाप्समेतावन्तं कालं न किंचिदहमज्ञासिषमिति सुखाज्ञानयोः साक्षित्वेन सुप्तोत्थितस्य स्वात्मपरामर्शादिति । अत्रोच्यते । तत्र तावत्स्वरूपसुखप्रकाशः स्वप्रकाशान्तर्गतः, न पुनस्साक्षिप्रकाशगम्यः […]
शतदूषणी ज्ञातृत्वाध्यासभङ्गवादः(27)
शतदूषणी ।।अथ ज्ञातृत्वाध्यासभङ्गवादः सप्तविंशः ।।27।। तमाश्रये यस्त्विह चेतनानामेको बहूनां विदधाति कामान् । शक्तिः परा यस्य समस्तसूतिः स्वाभाविकी ज्ञानबलक्रिया च ।। यदाहुः – ज्ञातृत्वादिप्रकाशो भ्रान्तिः, देहात्माभिमानवत एव जायमानप्रकाशत्वात्, स्थूलोऽहमित्यादिप्रतीतिवदिति, तदसत्; हेत्वसिद्धेः । न हीश्वरस्य योगिनां मुक्तानां वा देहात्मभ्रमः, न च तेषां ज्ञातृत्वादिकं न प्रकाशते । यथा परं ब्रह्मैव सङ्कल्पयति – “हन्ताऽहमिमास्तिस्रो देवता” (छां – 6 – […]